भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 39

39.1

कालिकापुराणम् एकोनचत्वारिंशोऽध्यायः भौमतपस्यावर्णनम्
अथ श्रीकालिका पुराण अध्याय ३९
॥ मार्कण्डेय उवाच ॥
स राजा नरक: श्रीमांश्चिरञ्जीवी महाभुजः ।
मानुषेणैव भावेन चिरं राज्यमथाकरोत्

39.2

त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः ।
अभवच्छोणितपुरे बाणो नाम महासुरः

39.3

तस्याग्निदुर्गं नगरं स च शम्भुसखो बली ।
सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बले:

39.4

नरकेण समं तस्य महामैत्री व्यजायत ।
गमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा ।
तयोरभूद् महाप्रीतिः पवनानलयोर्यथा

39.5

स च बाणः समाराध्य महादेवं जगत्प्रभुम् ।
सुरेणाथ भावेन व्यचरच्चाकुतोभयः

39.6

तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् ।
तेनैव सह भावेन विहर्तुमुपचक्रमे

39.7

न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः ।
न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च

39.8

न तथा विष्णुमभ्येति पृथिवीं वापि नार्च्चति ।
कामाख्यायां तथा भक्तिस्तदा तस्थाय नाभवत्

39.9

एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः ।
वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः

39.10

तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् ।
द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात्

39.11

ततो वसिष्ठः कुपितो वचनं परुषं मुनिः ।
जगाद नरकं वीरं गर्हयन्मुनिसत्तमः

39.12

॥ वसिष्ठ उवाच ॥
कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा ।
देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः

39.13

किं ते कुलोचितं कर्म त्वं करोषि धरात्मज ।
देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम्

39.14

॥ मार्कण्डेय उवाच ॥
ततः स नरको राजा प्राप्तकालः क्षितेः सुतः ।
परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् ।
ततो मुनिः स कुपितः शशाप नरकं नृपम्

39.15

॥ वसिष्ठ उवाच ॥
नचिराद् येन जातोऽसि तेन मानुषरूपिणा ।
मरणं भविता पाप वराहकुंलपांसन

39.16

मृते त्वयि महादेवीं कामाख्यां जगतां प्रभुम् ।
पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम्

39.17

त्वं यावज्जीविता पाप कामाख्यापि जगत्प्रभुः ।
सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु

39.18

॥ मार्कण्डेय उवाच ॥
इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः ।
वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम्

39.19

गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः ।
जगाम देवीभवनं नीलकूटं महागिरिम्

39.20

तत्र गत्वा न चापश्यत् कामाख्यां कामरूपिणीम् ।
न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा

39.21

ततः स विमना भूत्वा क्षितिं सस्मार मातरम् ।
पितरं च जगन्नाथं नरकः प्रभुमव्ययम्

39.22

न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः ।
व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे

39.23

चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा ।
अप्राप्तक्षितिविष्णुः स सशोकः स्वं निवेशनम्

39.24

स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः ।
पूर्वश्रिया परित्यक्तां मलिनां वनितामिव

39.25

देव्यामन्तर्हितायां तु वेदवादविवर्जितम् ।
पुण्यस्वल्पदारजनं तत् पुरं समपद्यत

39.26

न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः ।
बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम्

39.27

ईतयो बहवो जाता मृताश्च बहवो जनाः ।
लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत्

39.28

बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा ।
मेने मरणमासन्नमात्मनो ब्रह्मशापतः

39.29

ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः ।
चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ

39.30

सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे ।
तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव

39.31

एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली ।
अनुकूलयिता मन्त्रप्रदानेन महाबुधः

39.32

इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला ।
दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति

39.33

स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना ।
ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत्

39.34

यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका ।
यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये

39.35

समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा ।
तथा स दूतो भौमस्य शशंस बलिसूनवे

39.36

स समाकारमित्रस्य सम्यग् दैवपराभवम् ।
स्वयं जगाम नरकं सभाजयितुमीश्वरः

39.37

स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः ।
लोहचक्रं च वैयाघ्रं मयूरध्वजभूषितम्

39.38

हेमदण्डसितच्छत्रच्छादितं किंकिणीगणैः ।
नानारत्नौघरचितमारुरोह महारथम्

39.39

स सहस्रभुजः श्रीमांश्चतुरङ्गबलैर्युतः ।
प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह

39.40

तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् ।
हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत्

39.41

स तेन पूजितो बाणो यथायोग्यं सुतेन कोः ।
पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम्

39.42

॥ बाण उवाच ॥
शरीरं च यथापूर्वं तथा न तव राजते ।
मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे

39.43

॥ मार्कण्डेय उवाच ॥
एवमादीनि पृष्टः स नरकः क्षितिनन्दनः ।
यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत्

39.44

यच्छुतं भौमवदनात्तद्दूतावेदितं पुरा ।
ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः

39.45

॥ बाण उवाच ॥
नहिमन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् ।
चक्रवत् परिवर्तेते नैताभ्यां कोऽपि हीयते

39.46

परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये ।
भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति

39.47

य एष मानुषः पृथ्व्यामसाधारणभूतिभिः ।
वर्धते दानवो वापि दैत्यो वाप्यथवासुरः ।
राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि

39.48

स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः ।
यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः

39.49

तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः ।
स न शक्रस्य कुरुते मनोऽनिष्टं मनागपि

39.50

यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः ।
तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः

39.51

चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति ।
महता कायदुःखेन पूजितः सम्प्रसीदति

39.52

विनेष्टदेवतापूजां विभूतिमतुलां पुमान् ।
कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित्

39.53

त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः ।
तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव

39.54

यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः ।
किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः

39.55

दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः ।
इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम्

39.56

अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः ।
तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ

39.57

तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः ।
नाधुना युज्यते भौम तवोदासीनताकृतिः

39.58

यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते ।
वराह एव ते तातः स च लोकान्तरं गतः

39.59

वराहोऽपि हरेरंश इति यच्छ्रयते त्वया ।
तस्यांश इत्यनुक्रोशः केन वा क्रियते वद

39.60

तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्च्चनम् ।
स ते प्रसन्नः परममिष्टकामं प्रदास्यति

39.62

विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः ।
विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति ॥ ६१ । ।
॥ मार्कण्डेय उवाच ॥
जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा ।
सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः

39.63

॥ भौम उवाच ॥
यत् त्वया गदितं बाण हितं मे मित्रवत्सल ।
तत् कार्यमचिरादेव तपश्चरणमुत्तमम्

39.65

विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः ।
नैवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे ॥ ६४ । ।
तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक ।
तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ

39.66

शिष्योऽथ भवताध्यापितश्चाहं गुरुणा यथा ।
मित्रं मित्रं यथा धीर साम्ना परमवल्गुना

39.67

॥ मार्कण्डेय उवाच ॥
इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा ।
यथावत् पूजयामास तन्मित्रं मित्रवत्सलः

39.68

अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् ।
ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः

39.69

स तीरे नदराजस्य लौहित्यस्य महात्मनः ।
ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः

39.70

स मानुषेण मानेन क्षितिपुत्रः शतं समाः ।
जलाहारव्रतेनैव समानर्च पितामहम्

39.71

सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः

39.72

प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत ।
इति चोवाच नरकं स तदा कमलासनः

39.73

स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् ।
प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः

39.74

॥ भौमो वाच ॥
देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः ।
अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे

39.75

अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् ।
तावद्भवतु लोकेश द्वितीयोऽयं वरो मम

39.76

तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः ।
तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश

39.77

अजेयत्वं सदा श्रीर्मां न जहातु कदाचन ।
इति पञ्च वरा मेऽद्य वृतास्वत्तः पितामह

39.78

॥ मार्कण्डेय उवाच ॥
मायया मोहितो भौमो मुनिशापं विस्मृत्य च ।
अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः

39.79

एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः ।
उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः ।
तिलोत्तमाद्यास्ते जाया: सम्भविष्यन्ति भूतले

39.80

न यावन्नारदो याति वज्रध्वज पुरं तव ।
तावन्न मैथुने योज्या भवता ताः क्षितेः सुत

39.81

इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् ।
मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात्

39.82

ततो मुदितलोकं तं नगरं श्रीनिषेवितम् ।
सदा सोत्साहसम्पूर्णभीतिविघ्नविवर्जितम्

39.83

अभवत् पशुसंधैश्च वाजिवारणकुम्भकैः ।
सम्पूर्णं देवराजस्य दयितेवामरावती

39.84

उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा ।
स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा

39.85

स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् ।
पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम्

39.86

॥ बाण उवाच ॥
कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् ।
कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि

39.87

दृष्टं तव पुरं सर्वं प्रहृष्टजनसंकुलम् ।
वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः

39.88

दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् ।
कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान्

39.89

॥ भौम उवाच ॥
ब्रह्मा स्वयं पर्वतरूपधारी कामेश्वरीं धर्तुमिहावतीर्णः ।
तत्र स्वयं सम्प्रति घस्रमेति पुरा न यावच्छपते वसिष्ठः

39.90

सोऽयं पुरे मे बलिपुत्र राजते देवौघसेव्योऽप्यमरोत्तमांशः।
तत्राहमेको वरतोयभोजनो वर्षाण्यकार्षं च तपः शतानि वै

39.91

लौहित्यतीरे घनवायुसेविते मनोहरे प्राणभृतां सुखप्रदे
तपः प्रवृत्तस्य सुखं समागमच्छरद् यथैका शरदां शतानि मे

39.92

ततः स तुष्टश्चतुराननोऽभवत् प्रत्यक्षतो मां न्यगदच्च मद्धितम् ।
तव प्रसन्नोऽस्मि वरं तथेप्सितं दास्ये गृहाणेति पुरोऽथ भूत्वा

39.93

अवध्यता मे सुरयोनित: सुरा-दच्छिन्नसन्तानमजेयता तथा ।
सदा विभूतिर्न जहातु मामिति वराश्च नार्यो नवयौवनान्विताः

39.94

एते वराः पञ्च मया ततो वृताः सोऽपि प्रतिश्रुत्य गतो निजास्पदम्

39.95

ततोऽहमभ्येत्य पुरं निजं मुदा मन्त्रिप्रवीरैः सहितः पुनस्तान् ।
पौरान् सबन्धून् सगणानमोदयम् दानेन मानेन च भोजनेन

39.96

॥ मार्कण्डेय उवाच ॥
इतीरितं तस्य बलेः सुतस्तदा भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् ।
इदं तदोचे वचनं क्षितेः सुतं तत्कालयुक्तं न च सूनृतोद्भवम्

39.97

॥ बाण उवाच ॥
न ते मुने: शापमतीत्य गन्तुं भूता मतिर्मित्र तदा विधेः पुरः ।
कथं तु भद्रं भविता तवेह भावीत्यवश्यं क्षितिपुत्र नित्यम्

39.98

कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः ।
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः

39.99

तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् ।
सन्ध्याय च पुरस्कृत्य साचिव्ये विनियोजय

39.100

द्वारि संस्थाप्य वै वीरान् देवैरपि दुरासदान् ।
अतिक्रमस्व देवेशं यदि लब्धवरो भवान्

39.101

विधिना यो वरो दत्तो भवते तत् परीक्षणम् ।
कतुमर्हसि जायायामपुत्रो जनकात्मजम्

39.39

इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः ।
नरको मित्रवचनं कर्तुं समुपचक्रमे ॥ १०२ ।
॥ इति श्रीकालिकापुराणे भौमतपस्यायां एकोनचत्वारिंशोऽध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।08।कलिक-पुरन्-अध्यय्-39.ह्त्म्ल् द्प् कर्मकन्द्]

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc