भाषा

ENहिગુ
ग्रंथ पाठ

कलाविलास · भाग 2128

चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ 7.16 ॥
ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च &
शतमखसंज्ञामसकृद् बहुतरयज्ञा हसन्त्य् एव ॥ 7.17 ॥
श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् &
हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् ॥ 7.18 ॥
ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः &
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ 7.19 ॥
मायादासः प्रथमं डम्बरदासश् च वज्रदासश् च &
झ्[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश् च ॥ 7.20 ॥
वाडवदासश् चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः &
विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ 7.21 ॥
यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः &
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ 7.22 ॥
एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् &
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ 7.23 ॥
तस्मारेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः &
तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥ 7.24 ॥
नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव &
ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् ॥ 7.25 ॥
गायनसंघस्यैक्याद् उत्तिष्ठति गीतनिःस्वनः सुमहान् &
अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ 7.26 ॥
सर्गः 8
तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः &
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्य् एव ॥ 8.1 ॥
सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा &
एते हरन्ति पापाःऌ सततं तेजः परं हेम ॥ 8.2 ॥
सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् &
नित्याशुचयः पापाः चण्डाला हेमकाराश् च ॥ 8.3 ॥
मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् &
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥ 8.4 ॥
सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः &
सोष्मा च युक्तिभेदात् तुलोपलानां कलाः पञ्च ॥ 8.5 ॥
द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला &
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ 8.6 ॥
वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी &
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा ॥ 8.7 ॥
वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा &
निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः ॥ 8.8 ॥
मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः &
पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् ॥ 8.9 ॥

ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च &
पूर्वधृतताम्रचूर्णस् तेषां अपि षट्कलो वह्निः ॥ 8.10 ॥
प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः &
दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥ 8.11 ॥
कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च &
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास् तेषाम् ॥ 8.12 ॥
घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी &
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन ॥ 8.13 ॥
सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले &
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ 8.14 ॥
प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् &
तुलितं पूरणकाले सुखेन हर्तुं समायाति ॥ 8.15 ॥
उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च &
सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च ॥ 8.16 ॥
पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः &
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ 8.17 ॥
एकादश युक्तिकालस्तेषामेताः समासेन &
एकैव कला महती निशि गमनं सर्वमादाय ॥ 8.18 ॥
एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः &
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ 8.19 ॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य &
भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् ॥ 8.20 ॥
कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः &
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः ॥ 8.21 ॥
तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः &
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ 8.22 ॥
मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे &
उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः ॥ 8.23 ॥
तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे &
कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् ॥ 8.24 ॥
आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः &
एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः ॥ 8.25 ॥
जाता मूषकरूपा मेरुनिपाते कृतारम्भाः &
वध्याः पुनरपि भवतामाश्रमभङ्गान् मुनीनां च ॥ 8.26 ॥
श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य &
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् ॥ 8.27 ॥
एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः &
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति ॥ 8.28 ॥
तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् &
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ 8.29 ॥

सर्गः 9: नानाधूर्तवर्णनम्
वाञ्चकमाया महती महीतले जलधिमेखले निखिले &
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता ॥ 9.1 ॥
सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् &
वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥ 9.2 ॥
एते हि देहदाहाद् विरहा इव दुःसहा भिषजः &
ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्य् एव ॥ 9.3 ॥
विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः &
हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥ 9.4 ॥
विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः &
अनुवदति चिरार्गणको यत् किंचित् प्राश्निकेनोक्तम् ॥ 9.5 ॥
गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः &
विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥ 9.6 ॥
प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात् कृत्वा &
पश्चात् सधनान्रसिकान् विनाशयत्य् एष वर्णिकानिपुनः ॥ 9.7 ॥
शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः &
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः ॥ 9.8 ॥
ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः &
केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥ 9.9 ॥
प्रह्लादनशुचितारकशम्बररमणीजने ऽपि बद्धाशः &
बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति ॥ 9.10 ॥
खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् &
उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा ॥ 9.11 ॥
कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि &
मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् ॥ 9.12 ॥
इत्य् उक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः &
यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे ॥ 9.13 ॥
वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् &
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ 9.14 ॥
बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य &
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ 9.15 ॥
हस्तस्था धनरेखा विपुलतरास्या पतिश् च चलचित्तः &
मृद्नाति कुलवधूनाम् इत्य् उक्त्वा कमलकोमलं पाणिम् ॥ 9.16 ॥
बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या &
न प्राप्यते च चोरो मोहोऽसाव् इन्द्रजालस्य ॥ 9.17 ॥
खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः &
चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन ॥ 9.18 ॥
कक्षपुटे नागार्जुनलिखिता युक्तिर् विधीयतां धूपे &
यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् ॥ 9.19 ॥
यक्षीपुत्राश् चोरा विज्ञेयाः कूटधूपकर्तारः &

येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश् च ॥ 9.20 ॥
बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव &
मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः ॥ 9.21 ॥
चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ &
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ 9.22 ॥
भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः &
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ 9.23 ॥
विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् &
धूर्तो जडमित्य् उक्त्वा सर्वस्वं तस्य भक्षयति ॥ 9.24 ॥
प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः &
विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते ॥ 9.25 ॥
अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर् निपुणाः &
धूर्ताश् चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ 9.26 ॥
भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः &
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ 9.27 ॥
कृतकं शास्त्रमसत्यं साक्षार्दृष्टश् च केन परलोकः &
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः ॥ 9.28 ॥
बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन &
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ 9.29 ॥
अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः &
जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ 9.30 ॥
विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये &
सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः ॥ 9.31 ॥
यद्यत् किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् &
वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥ 9.32 ॥
दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये &
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ 9.33 ॥
आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन &
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ 9.34 ॥
वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः &
ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते ॥ 9.35 ॥
शमदमभक्तिविहीनस् तीव्रव्रतदुर्ग्रहग्रस्तः &
अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ ॥ 9.36 ॥
देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः &
येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते ॥ 9.37 ॥
नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः &
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ ॥ 9.38 ॥
भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् &
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश् चिन्त्याः ॥ 9.39 ॥
अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् &

यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ 9.40 ॥
रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति &
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ 9.41 ॥
छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः &
सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः ॥ 9.42 ॥
तव नरपतिः प्रसादी गुणगणनपरः परं विजने &
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ॥ 9.43 ॥
स्वप्ने मयाब्जहस्ताऌदृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा &
मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह ॥ 9.44 ॥
मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः &
इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः ॥ 9.45 ॥
पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे &
प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥ 9.46 ॥
परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति &
ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥ 9.47 ॥
न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् &
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः ॥ 9.48 ॥
यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् &
घोरापह्नवकारी शङ्कायतनं स पापः स्यात् ॥ 9.49 ॥
प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च &
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ 9.50 ॥
कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः &
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ॥ 9.51 ॥
सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः &
विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ 9.52 ॥
तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु &
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ 9.53 ॥
निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति &
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् ॥ 9.54 ॥
दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा &
धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः ॥ 9.55 ॥
राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा &
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ 9.56 ॥
क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन &
शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥ 9.57 ॥
लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् &
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः ॥ 9.58 ॥
दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः &
धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ॥ 9.59 ॥
सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः &

धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाऌलाभः ॥ 9.60 ॥
देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् &
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ 9.61 ॥
शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते &
रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ 9.62 ॥
आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं &
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ॥ 9.63 ॥
साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः &
तस्मै भयेन वित्तं रिक्तो ऽपि ददाति यत्नेन ॥ 9.64 ॥
निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् &
धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति ॥ 9.65 ॥
धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् &
मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥ 9.66 ॥
मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् &
धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि ॥ 9.67 ॥
बधिरं वाऌमूकं वाऌवणिजं निःक्षिप्य भाण्डशालायाम् &
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥ 9.68 ॥
किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् &
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश् चरति ॥ 9.69 ॥
मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी &
वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः ॥ 9.70 ॥
सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु &
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः ॥ 9.71 ॥
शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः &
धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥ 9.72 ॥
एता लेशेन मया कथिता मायाश्चतुःषष्टिः &
को वेद वञ्चकानां मायानां शतसहस्राणि ॥ 9.73 ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः
सर्गः
सर्गः 10
एता वञ्चकमाया विज्ञेया न तु पुनः स्वयं सेव्याः &
धर्म्यः कलाकलापो विदुषामयम् ईप्सितो भूत्यैः ॥ 10.1 ॥
धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च &
दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ 10.2 ॥
अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् &
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ 10.3 ॥
कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः &
नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् ॥ 10.4 ॥
मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः &
सङ्गत्यागः स्वलयस्थानं प्रमप्रकाशश्च ॥ 10.5 ॥

एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा &
संसारवञ्चकानां विद्या विद्यावतामेव ॥ 10.6 ॥
मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः &
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ 10.7 ॥
सत्सङ्गः कामजयः शौचं गुरुसंवेन सदाचारः &
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ 10.8 ॥
तेजः सत्त्वं बुद्धिर् व्यवसायो नीतिरिङ्गितज्ञानम् &
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥ 10.9 ॥
अनुरागः प्रतिपत्तिर्मित्रार्जनमानृशंस्यमस्तम्भः &
आश्रितजनवात्सल्यं सप्तदशकलाः प्रभावस्य ॥ 10.10 ॥
मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् &
एताः कला विदग्धैः स्वगताः कार्याश्चतुःषष्टिः ॥ 10.11 ॥
शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् &
आर्तस्य धर्मचर्याऌदुःखे धैर्यं सुखेष्वनुत्सेकः ॥ 10.12 ॥
विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा &
निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् ॥ 10.13 ॥
गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा &
लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ 10.14 ॥
प्राज्ञ सर्वगुणानां यशस्विता विपुलवित्तविभावानाम् &
सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ 10.15 ॥
दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् &
याच्ञा मानहराणां दारिद्र्यं चोपतापसार्थानाम् ॥ 10.16 ॥
धर्मः पथेयानां सत्यं मुखपद्मपावनकराणाम् &
व्यसनं रोगगणानाम् आलस्यं गृहसमृद्धिनाशानाम् ॥ 10.17 ॥
निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् &
दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ 10.18 ॥
अद्रोहः शौचानाम् अचापलं व्रतविशेषनियमानाम् &
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशम्सचरितानाम् ॥ 10.19 ॥
कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् &
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ 10.20 ॥
मदनश्चलचौराणां स्त्रीवचनं ज्ञातिभेदानाम् &
क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् ॥ 10.21 ॥
शास्त्रं मणिदीपानाम् उपदेशश्चाभिषेकाणाम् &
वृद्धत्वं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ 10.22 ॥
स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् &
भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ 10.23 ॥
शात्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् &
तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ 10.24 ॥
संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभावानाम् &
चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् ॥ 10.25 ॥

मैत्री विस्रम्भानां निर्यन्त्रणता महार्हभोगानाम् &
संकोचो व्याधीनां कौटिल्यं निर्जलान्धकूपानाम् ॥ 10.26 ॥
आर्जवममलकराणां विनयो वररत्नमुकुटानाम् &
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ 10.27 ॥
त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् &
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ 10.28 ॥
निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् &
तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् ॥ 10.29 ॥
कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् &
राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ 10.30 ॥
औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् &
कन्याऌशोककराणां बुद्धिविहीनो ऽनुकम्प्यानाम् ॥ 10.31 ॥
विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् &
मद्यं वेतालानाम् मृगया गजगहनयक्षाणाम् ॥ 10.32 ॥
प्रशमः स्वास्थ्यकराणाम् आत्मरतिस्तीर्थसेवानाम् &
लुब्धः फलरहितानाम् आचारविवर्जितः श्मशानानाम् ॥ 10.33 ॥
नीतिः स्त्रीरक्षणानाम् इन्द्रियविजयः प्रभावाणाम् &
ईर्ष्या यक्ष्मशतानाम् अयशः कुस्थमरणानाम् ॥ 10.34 ॥
माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् &
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ 10.35 ॥
प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्रयाच्ञानाम् &
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ 10.36 ॥
प्रभुभक्तिर्नीतानां युधि निधनं सौख्यवीथीनाम् &
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ 10.37 ॥
पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् &
कीर्तिः सम्सारेऽस्मिन् सारतरा सर्वलोकानाम् ॥ 10.38 ॥
ज्ञेयः कलाकलापे कुशलः सर्वार्थतत्त्वविज्ञानी &
प्रवरतरो लोकेऽस्मिन् ब्राह्मण इव सर्ववर्णानाम् ॥ 10.39 ॥
इत्युक्तं शतमेतद् यो वेत्ति शुभाशुभोदयकलानाम् &
तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ 10.40 ॥
उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः &
किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ 10.41 ॥
केलीमयः स्मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः &
लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः ॥ 10.42 ॥
कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः &
शशीव मानसानन्दं करोतु सततं सताम् ॥ 10.43 ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः
सर्गः

मूल पाठ: Kalāvilāsa · Edition: Pandita Durgaprasada and Kasinatha Panduranga Paraba. Kavyamala (1st series), vol. 1, Bombay 1886, pp. 34-79. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc