भाषा

ENहिગુ
ग्रंथ पाठ

कलाविलास · भाग 120

क्षेमेन्द्र: कलाविलास
अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् &
श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् ॥ 1.1 ॥
मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः &
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ 1.2 ॥
विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः &
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ 1.3 ॥
यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः &
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः ॥ 1.4 ॥
रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र &
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ 1.5 ॥
नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र &
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ 1.6 ॥
नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् &
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते ॥ 1.7 ॥
शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः &
यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः ॥ 1.8 ॥
तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः &
सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥ 1.9 ॥
नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः &
स प्राप विपुलसंपदम् आत्मगुणैश्चक्रवर्तीव ॥ 1.10 ॥
भुक्तोत्तरं सहृदयैर् आस्थानीसंस्थितं कदाचित्तम् &
अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ 1.11 ॥
प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन &
प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः ॥ 1.12 ॥
अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी &
ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति ॥ 1.13 ॥
पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते &
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ 1.14 ॥
आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य &
एको ममैष सूनुः संजातः पश्चिमे वयसि ॥ 1.15 ॥
मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् &
अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः ॥ 1.16 ॥
हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः &
पतिता परंपरैषा दोषाणां मम सुतस्यास्य ॥ 1.17 ॥
धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् &
धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥ 1.18 ॥
अज्ञातदेशकालाश् चपलमुखाः पङ्गवोऽपि सप्लुतयः &
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ 1.19 ॥
आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् &

न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥ 1.20 ॥
इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य &
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः ॥ 1.21 ॥
आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः &
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ 1.22 ॥
इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् &
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ 1.23 ॥
अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः &
अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः ॥ 1.24 ॥
अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता &
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥ 1.25 ॥
त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् &
न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् ॥ 1.26 ॥
गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि &
अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् ॥ 1.27 ॥
तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही &
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ 1.28 ॥
रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा &
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा ॥ 1.29 ॥
अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः &
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ 1.30 ॥
मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः &
विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ 1.31 ॥
निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः &
गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ 1.32 ॥
श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन &
मदमुदितमानसानां तेनापि मृगीदृशां लीला ॥ 1.33 ॥
धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य &
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ 1.34 ॥
ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला &
तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ 1.35 ॥
तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे &
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ॥ 1.36 ॥
स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण &
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ 1.37 ॥
प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे &
कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् ॥ 1.38 ॥
शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् &
ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥ 1.39 ॥
एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः &

कूपः पतन्ति यस्मिन् मुग्धकुरङ्गा निरालम्बे ॥ 1.40 ॥
सोऽयं निधानकुम्भो दम्भो नांअ स्वभावगम्भीरः &
कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥ 1.41 ॥
मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् &
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ 1.42 ॥
मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन &
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ 1.43 ॥
मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण &
स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन ॥ 1.44 ॥
जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः &
जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ 1.45 ॥
सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे &
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥ 1.46 ॥
नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः &
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ॥ 1.47 ॥
व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः &
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः ॥ 1.48 ॥
बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः &
मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ 1.49 ॥
नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा &
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥ 1.50 ॥
स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः &
कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव ॥ 1.51 ॥
अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः &
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥ 1.52 ॥
साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे &
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ 1.53 ॥
सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः &
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ 1.54 ॥
शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिम् इव रचयन् &
एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ 1.55 ॥
निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी &
पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः ॥ 1.56 ॥
कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी &
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः ॥ 1.57 ॥
स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः &
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ 1.58 ॥
शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च &
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ 1.59 ॥
शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी &

शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ 1.60 ॥
संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः &
सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् ॥ 1.61 ॥
मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा &
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ 1.62 ॥
खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा &
शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥ 1.63 ॥
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः &
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ 1.64 ॥
भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च &
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ 1.65 ॥
दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् &
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ 1.66 ॥
मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने &
असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् ॥ 1.67 ॥
बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् &
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च ॥ 1.68 ॥
स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च &
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥ 1.69 ॥
काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः &
रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् ॥ 1.70 ॥
नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः &
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ॥ 1.71 ॥
रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि &
दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी ॥ 1.72 ॥
आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन &
सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥ 1.73 ॥
तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि &
गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ ॥ 1.74 ॥
तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव &
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ॥ 1.75 ॥
अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से &
डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ 1.76 ॥
निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च &
त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने ॥ 1.77 ॥
सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च &
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ 1.78 ॥
ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या &
विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं ॥ 1.79 ॥
उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण &

अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन ॥ 1.80 ॥
इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः &
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ॥ 1.81 ॥
दम्भ उवाच ॥ नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन &
आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः ॥ 1.82 ॥
तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा &
दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥ 1.83 ॥
उत्तिष्ठाऌसकलजलनिधिपरिखावलिमेखलां महीमखिलाम् &
अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ 1.84 ॥
इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् &
कण्ट्ःए शीलां निबध्नन्मर्त्यानामवततार महीम् ॥ 1.85 ॥
अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि &
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ 1.86 ॥
वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां &
अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् ॥ 1.87 ॥
एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन &
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् ॥ 1.88 ॥
तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि &
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ 1.89 ॥
गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च &
कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः ॥ 1.90 ॥
तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् &
नटभटगायनवाचकचक्रचराणां च हृदयानि ॥ 1.91 ॥
अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् &
दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् ॥ 1.92 ॥
मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन &
तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः ॥ 1.93 ॥
विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् &
वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि ॥ 1.94 ॥
एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः &
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया ॥ 1.95 ॥
दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् &
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ 1.96 ॥
सर्गः 2
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् &
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥ 2.1 ॥
मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् &
सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः ॥ 2.2 ॥
सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः &
लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ 2.3 ॥

क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः &
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ 2.4 ॥
हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः &
वितरति गृहे किराटः कष्टेन वराटकत्रितयम् ॥ 2.5 ॥
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् &
दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः ॥ 2.6 ॥
द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे &
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् ॥ 2.7 ॥
दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा &
चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ 2.8 ॥
न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी &
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते ॥ 2.9 ॥
उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं &
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक ॥ 2.10 ॥
कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि &
भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥ 2.11 ॥
तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् &
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ 2.12 ॥
त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् &
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ 2.13 ॥
भद्राऌ न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता &
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि ॥ 2.14 ॥
विष्टिदिने किमपि पुराऌन्यस्तं केनापि मित्रेण &
तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन ॥ 2.15 ॥
इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा &
गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः ॥ 2.16 ॥
तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः &
भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ॥ 2.17 ॥
पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः &
सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥ 2.18 ॥
दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् &
संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः ॥ 2.19 ॥
अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः &
कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः ॥ 2.20 ॥
अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन &
नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् ॥ 2.21 ॥
पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः &
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ॥ 2.22 ॥
विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः &
खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन ॥ 2.23 ॥

अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे &
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ 2.24 ॥
श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा &
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥ 2.25 ॥
तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय &
नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण ॥ 2.26 ॥
उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः &
तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः ॥ 2.27 ॥
तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः &
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥ 2.28 ॥
कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः &
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥ 2.29 ॥
पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः &
मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ॥ 2.30 ॥
हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् &
किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥ 2.31 ॥
तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् &
कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य ॥ 2.32 ॥
वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि &
इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ॥ 2.33 ॥
तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् &
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ 2.34 ॥
राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे &
सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ 2.35 ॥
परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः &
मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव ॥ 2.36 ॥
एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः &
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ 2.37 ॥
देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् &
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य ॥ 2.38 ॥
पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः &
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ 2.39 ॥
त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः &
समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति ॥ 2.40 ॥
यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् &
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ 2.41 ॥
उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन &
संपदि विपदि त्राणं भवति निधानं च मित्त्रं च ॥ 2.42 ॥
इत्युक्तः सप्र~अयं दैत्याचार्येण निर्जने धनदः &
तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥ 2.43 ॥

जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् &
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ 2.44 ॥
स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि &
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ 2.45 ॥
अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् &
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ 2.46 ॥
इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन &
भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः ॥ 2.47 ॥
स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी &
हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य ॥ 2.48 ॥
शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः &
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ 2.49 ॥
कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये &
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ 2.50 ॥
हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः &
संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥ 2.51 ॥
सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन &
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ 2.52 ॥
अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः &
कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि ॥ 2.53 ॥
धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति &
परिभूतस्य शरीरे व्यसनविकारो महाभारह् ॥ 2.54 ॥
दयितेषु शरीरवतां बत धर्मलतालवालेषु &
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु ॥ 2.55 ॥
विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः &
वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥ 2.56 ॥
इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः &
सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् ॥ 2.57 ॥
प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन &
विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय ॥ 2.58 ॥
दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् &
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ 2.59 ॥
मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन &
मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि ॥ 2.60 ॥
अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन &
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥ 2.61 ॥
एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा &
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ 2.62 ॥
किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाऌ &
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि ॥ 2.63 ॥

कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन &
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ 2.64 ॥
मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन &
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ 2.65 ॥
त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् &
गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥ 2.66 ॥
उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन &
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ 2.67 ॥
नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव &
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः ॥ 2.68 ॥
न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः &
परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥ 2.69 ॥
असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म &
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ 2.70 ॥
अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन &
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ 2.71 ॥
इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन &
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ॥ 2.72 ॥
भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् &
लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ॥ 2.73 ॥
यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति &
कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य ॥ 2.74 ॥
मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् &
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ 2.75 ॥
अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाऌविहतलज्जः &
चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ 2.76 ॥
तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् &
विहितं शठेन मोहादाशाभङ्घः कृतो येन ॥ 2.77 ॥
तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् &
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ 2.78 ॥
अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् &
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥ 2.79 ॥
इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः &
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ 2.80 ॥
जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे &
प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः ॥ 2.81 ॥
त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः &
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ 2.82 ॥
अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले &
शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः ॥ 2.83 ॥

तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् &
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् ॥ 2.84 ॥
सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ &
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः ॥ 2.85 ॥
पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः &
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ 2.86 ॥
स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे &
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ 2.87 ॥
एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते &
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ 2.88 ॥
तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया &
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते ॥ 2.89 ॥
सर्गः 3
कामः कमनीयतया किमपि निकामं करोति संमोहम् &
विषामिव विषमं सहसा मधुरतया जीवनं हरति ॥ 3.1 ॥
एते हि कामकलिताः परिमललीनालिवलयहुंकारैः &
सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ 3.2 ॥
पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् &
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ 3.3 ॥
दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः &
विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः ॥ 3.4 ॥
रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु &
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ 3.5 ॥
रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् &
व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः ॥ 3.6 ॥
संसारचित्रमायां शम्बरमायां विचित्तिमायां च &
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ 3.7 ॥
कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः &
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥ 3.8 ॥
अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः &
वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः ॥ 3.9 ॥
जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी &
धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥ 3.10 ॥
विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य &
गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥ 3.11 ॥
कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव &
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ ॥ 3.12 ॥
स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः &
भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः ॥ 3.13 ॥
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् &

रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन ॥ 3.14 ॥
निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी &
मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य ॥ 3.15 ॥
बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या &
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ 3.16 ॥
चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् &
धावत्यकारणं वाळ्हसति स्फटिकाश्ममालेव ॥ 3.17 ॥
पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति &
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ 3.18 ॥
प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति &
उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव ॥ 3.19 ॥
ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा &
कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥ 3.20 ॥
गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव &
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ 3.21 ॥
अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा &
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना ॥ 3.22 ॥
द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला &
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ 3.23 ॥
त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा &
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा ॥ 3.24 ॥
कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा &
विजने विविधकृईडाडम्बरशौण्डा प्रकाशसावित्री ॥ 3.25 ॥
क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा &
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥ 3.26 ॥
भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता &
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ 3.27 ॥
गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) ॥ 3.28 ॥
सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः &
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ 3.29 ॥
कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः &
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ 3.30 ॥
शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः &
एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् ॥ 3.31 ॥
कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् &
स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः ॥ 3.32 ॥
निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः &
धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव ॥ 3.33 ॥
तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी &
तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ 3.34 ॥

प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं &
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ 3.35 ॥
रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् &
प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥ 3.36 ॥
पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा &
विललास विलासमही केलिविलोला सखीभिः सा ॥ 3.37 ॥
सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा &
यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव ॥ 3.38 ॥
सा तेन चपलनयना सहसा मुषितेव हारितविचारा &
अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ 3.39 ॥
शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् &
इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ 3.40 ॥
सा कृत्वाऌविदितकथां रहसि सखीमानिनाय तं तरुणम् &
चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥ 3.41 ॥
कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः &
सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन ॥ 3.42 ॥
अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः &
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ 3.43 ॥
विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः &
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ ॥ 3.44 ॥
विरचितवरतरशयने बद्धविताने मनोरमस्थाने &
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ 3.45 ॥
तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य &
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ 3.46 ॥
सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव &
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ 3.47 ॥
आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा &
पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् ॥ 3.48 ॥
प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि &
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय ॥ 3.49 ॥
परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् &
पुरुषपशवो विमूढा रज्यन्ते योषितामधिकम् ॥ 3.50 ॥
किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च &
धनशतरक्तायामपि संध्यायां भास्करो रागी ॥ 3.51 ॥
गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् &
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने ॥ 3.52 ॥
निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा &
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ 3.53 ॥
चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् &
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ 3.54 ॥

अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् &
चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य ॥ 3.55 ॥
संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः &
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ॥ 3.56 ॥
रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् &
जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः ॥ 3.57 ॥
जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा &
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ 3.58 ॥
सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते &
तमसीव निर्विशङ्का साऌशनकैरुपवनं प्रययौ ॥ 3.59 ॥
अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् &
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण ॥ 3.60 ॥
तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् &
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् ॥ 3.61 ॥
हृदयदयितावियोगज्वलनज्वालावलीतप्तम् &
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ॥ 3.62 ॥
चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने &
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ 3.63 ॥
तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः &
निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी ॥ 3.64 ॥
संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य &
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् ॥ 3.65 ॥
हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् &
द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः ॥ 3.66 ॥
इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन &
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ॥ 3.67 ॥
सा तस्य वदनकमलं निजवदने मोहिता कृत्वा &
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ 3.68 ॥
अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः &
आविश्य शवकशरीरं नासां चिच्छेद वेतालः ॥ 3.69 ॥
सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा &
भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश ॥ 3.70 ॥
प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च &
सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द ॥ 3.71 ॥
श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि &
विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥ 3.72 ॥
अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् &
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ॥ 3.73 ॥
चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः &
आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् ॥ 3.74 ॥

उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य &
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ 3.75 ॥
इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः &
यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् ॥ 3.76 ॥
सर्गः 4
तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः &
कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥ 4.1 ॥
हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः &
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ 4.2 ॥
वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च &
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च ॥ 4.3 ॥
पानकला केलिकला सुरतकलालिङ्गनान्तरकला च &
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च ॥ 4.4 ॥
ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च &
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला ॥ 4.5 ॥
नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च &
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥ 4.6 ॥
निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च &
हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ 4.7 ॥
गौरवशैथिल्यकला निष्कारणदोषभाषणकला च &
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च ॥ 4.8 ॥
रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च &
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च ॥ 4.9 ॥
तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च &
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च ॥ 4.10 ॥
भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च &
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ॥ 4.11 ॥
अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन &
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ 4.12 ॥
निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् &
खादति गुणगणभग्नो नग्नो हीनो ऽथवा कश्चित् ॥ 4.13 ॥
नीचस्तुरगारोहो हस्तिपकः खलतरो ऽथवा शिल्पी &
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ 4.14 ॥
राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः &
मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥ 4.15 ॥
तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् &
भेजे गणिकां बहुधनभोग्याम् अप्य् अल्पविभवो ऽपि ॥ 4.16 ॥
तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् &
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् ॥ 4.17 ॥
सहजमनुरागमद्रुतम् औचित्यं वीक्ष्य भूपतिस् तस्याः &

विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् ॥ 4.18 ॥
चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् &
प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः ॥ 4.19 ॥
मिथ्या धनलवलोभाद् अनुरागं दर्शयन्ति बन्धक्यः &
तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥ 4.20 ॥
इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः &
तमुवाच कस्य राजन् वेश्याचरिते ऽस्ति विश्वासः ॥ 4.21 ॥
एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः &
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ 4.22 ॥
प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः &
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च ॥ 4.23 ॥
अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः &
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥ 4.24 ॥
इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन &
मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥ 4.25 ॥
तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ &
सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥ 4.26 ॥
तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् &
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः ॥ 4.27 ॥
तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः &
राजा निनिन्द मन्त्रिणम् असकृद्वेश्यगुणाभिमुखः ॥ 4.28 ॥
अथ वेश्याधनसंचयमात्माधीनं महीपतिर् विपुलम् &
आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ 4.29 ॥
सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः &
निजमाससाद मण्डलम् इन्दुरिवानन्दकृत्पूर्णः ॥ 4.30 ॥
सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती &
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ 4.31 ॥
साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता &
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या ॥ 4.32 ॥
यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः &
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ 4.33 ॥
पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् &
तीर्थानामिव महतां न हि नाम समागमो विफलः ॥ 4.34 ॥
अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी &
बद्धः स विदर्भपुरे दैववशाच्चोररूपेण ॥ 4.35 ॥
तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः &
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ 4.36 ॥
इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा &
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः ॥ 4.37 ॥
अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा &

बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ 4.38 ॥
इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः &
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ 4.39 ॥
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः &
रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ 4.40 ॥
सर्गः 5
मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ &
गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥ 5.1 ॥
रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः &
ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव ॥ 5.2 ॥
ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः &
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ 5.3 ॥
कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः &
दिविरैरेव समस्ता ग्रस्ता जनता न कालेन ॥ 5.4 ॥
एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः &
गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके ॥ 5.5 ॥
कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् &
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन ॥ 5.6 ॥
कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः &
कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ 5.7 ॥
अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः &
को नाम जगति रचितैः कायस्थैर्मोहितो न जनः ॥ 5.8 ॥
मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् &
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ 5.9 ॥
कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः &
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ 5.10 ॥
एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः &
रेखामात्रविनाशात् सहितं कुर्वन्ति ये रहितम् ॥ 5.11 ॥
लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् &
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ 5.12 ॥
वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला &
सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च ॥ 5.13 ॥
ग्राह्यपरिच्छेदकला देयधनादानकारणकला च &
उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च ॥ 5.14 ॥
शेषस्थविवेककला चलराशिसमग्रभक्षणकला च &
उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च ॥ 5.15 ॥
क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च &
एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च ॥ 5.16 ॥
निःशेषभूर्जदाहाद् आगमनाशश्च पर्यन्ते &
येन विना व्यवहारी भूर्याग्रहणे निरालोकः ॥ 5.17 ॥

सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च &
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥ 5.18 ॥
कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण &
गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति ॥ 5.19 ॥
हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः &
बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥ 5.20 ॥
स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा &
विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ 5.21 ॥
शून्यायतने गत्वा वरदं देवं सदा महाकालम् &
उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः ॥ 5.22 ॥
स्तोत्रजपगीतदीपैः विपुलध्यानैर् निशासु निर्निद्रः &
तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय ॥ 5.23 ॥
तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा &
भवभयहारी भगवान् भूतपतिः संबभाषे तम् ॥ 5.24 ॥
पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे &
एकं कपालमसकृत् चक्रे संज्ञां पुरारातेः ॥ 5.25 ॥
अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य &
तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् ॥ 5.26 ॥
स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् &
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे ॥ 5.27 ॥
अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने &
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ 5.28 ॥
इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः &
विषमनयनोष्मविगलन् मौलीन्दुसुधारसैर्जीवत् ॥ 5.29 ॥
शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् &
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ 5.30 ॥
एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः &
प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् ॥ 5.31 ॥
दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे &
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥ 5.32 ॥
अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् &
कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतां एति ॥ 5.33 ॥
व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे &
विभवमदमोहितानां कर्मस्मरणे कथा कैव ॥ 5.34 ॥
ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानो ऽसौ &
कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः ॥ 5.35 ॥
स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः &
न हि नाम जगति कश्चित् कृतकार्यः सेवको भवति ॥ 5.36 ॥
देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् &
पूर्णे याते कितवे विजने नान्ये करिष्यन्ति ॥ 5.37 ॥

तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् &
वरदानमस्य भगवन् निर्वासनमात्मपूजायाः ॥ 5.38 ॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः &
तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म ॥ 5.39 ॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् &
मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः ॥ 5.40 ॥
स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः &
त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ 5.41 ॥
आकर्ण्यवं भगवान् ऊचे कायस्थ एव सत्यं त्वम् &
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ 5.42 ॥
इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः &
स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥ 5.43 ॥
कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः &
निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः ॥ 5.44 ॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् &
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ 5.45 ॥
सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् &
दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥ 5.46 ॥
असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन &
संरक्षैता मतिमता रत्नवती वसुमती तेन ॥ 5.47 ॥
सर्गः 6: मदवर्णनम्
एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः &
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ॥ 6.1 ॥
विजितात्मनां जनानाम् अभवद्यः कृतयुगे दमो नाम &
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥ 6.2 ॥
मौनं वदननिकूणनम् ऊर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः &
गात्रविलेपनवेष्टनम् अग्र्यं रूपं मदस्यैतत् ॥ 6.3 ॥
शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च &
विभवमदमूलजाता मदवृक्षा देहिनामन्ते ॥ 6.4 ॥
शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः &
बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः ॥ 6.5 ॥
शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च &
काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः ॥ 6.6 ॥
अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः &
धनमद एष नराणाम् आत्मारामोपमः कोऽपि ॥ 6.7 ॥
उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः &
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥ 6.8 ॥
स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः &
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥ 6.9 ॥
आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च &

विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥ 6.10 ॥
सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः &
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ 6.11 ॥
पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः &
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥ 6.12 ॥
वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः &
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ 6.13 ॥
सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति &
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ॥ 6.14 ॥
पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः &
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ॥ 6.15 ॥
विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च &
मद्यमदः समदर्शी स्वपरविभागं न जानाति ॥ 6.16 ॥
विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः &
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति ॥ 6.17 ॥
रोदिति गायति विहसति गायति विलपत्य् उच्चैर् उपैति संमोहम् &
भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः ॥ 6.18 ॥
परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् &
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ॥ 6.19 ॥
विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः &
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ 6.20 ॥
च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा &
यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ ॥ 6.21 ॥
क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् &
भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य ॥ 6.22 ॥
इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः &
न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या ॥ 6.23 ॥
तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् &
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ 6.24 ॥
असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् &
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ 6.25 ॥
तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् &
सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः ॥ 6.26 ॥
मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य &
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ 6.27 ॥
सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये &
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ 6.28 ॥
मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् &
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ 6.29 ॥
जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु &

वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ 6.30 ॥
स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् &
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ 6.31 ॥
उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् &
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् ॥ 6.32 ॥
इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः &
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ 6.33 ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः
सर्गः 7: गायनवर्णनम्
अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य &
तमपि हरन्त्य् अतिधूर्ताः श्लक्ष्णगला गायना लोके ॥ 7.1 ॥
निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य &
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ 7.2 ॥
घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः &
एते योनिपिसाचा भूपभुजो गायना लोके ॥ 7.3 ॥
तमसि वराकश् चौरो हाहाकारेण याति संत्रस्तः &
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ 7.4 ॥
पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा &
कृत्वा स्वरपदपालीं गायनधूर्ताश् चरन्त्य् एते ॥ 7.5 ॥
कुटिलावर्तभ्रान्तैः वेषविकारैश् च मुखविकारैश् च &
गायति गायनसंघो मर्दलहस्तश् चिरं मौनी ॥ 7.6 ॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः &
स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् ॥ 7.7 ॥
जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः &
गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥ 7.8 ॥
मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु &
विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥ 7.9 ॥
नैतत् प्रकटितदशना गायनधूर्ताः सदैव गायन्ति &
एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् ॥ 7.10 ॥
प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः &
मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः ॥ 7.11 ॥
स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः &
गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् ॥ 7.12 ॥
नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा &
दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति ॥ 7.13 ॥
वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः &
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत् सततम् ॥ 7.14 ॥
देवः पुरा सुराणाम् अधिनाथो नारदं चिरायातम् &
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ 7.15 ॥
सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् &

मूल पाठ: Kalāvilāsa · Edition: Pandita Durgaprasada and Kasinatha Panduranga Paraba. Kavyamala (1st series), vol. 1, Bombay 1886, pp. 34-79. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc