कादम्बरीकथासार · अध्याय 8
अथ मां श्रुतजाबालिप्रोक्ताखिलकथाक्रमम् ।
अस्पृशद् बालभावे ऽपि प्राग्जन्मचरितस्मृतिः ॥
श्वेतकेतुसुतो भूत्वा शुकनाससुतो ऽभवम् ।
स वैशम्पायनो ऽद्याहं जातः पुत्रः पतत्त्रिणः ॥
मम जातस्मृतेर् व्यक्ता प्रावर्तत सरस्वती ।
स्वयं प्राग्जन्मविद्याश् च हृदयं प्रतिपेदिरे ॥
यथैव चान्ये संस्काराः प्राक्तना माम् उपागमन् ।
महाश्वेतानुरागो ऽपि तथैव समुपागमत् ॥
अथाभ्यधिकहारीतस्नेहसंवर्धितः क्रमात् ।
गगनाक्रमणे शक्तिम् अवापं जातपक्षतिः ॥
दिवसेष्व् अथ गच्छत्सु शनैर् आरूढयौवनः ।
गन्तुम् ऐच्छं महाश्वेताश्रमं तद्दर्शनोत्सुकः ॥
अचिन्तयं च जन्मेदं विहगस्यापि यातु मे ।
महाश्वेताश्रमोपान्ते तरुकोटरशायिनः ॥
एकदा त्व् अथ जाबालेर् आश्रमं समुपागमत् ।
ताताज्ञया सुहृत्स्नेहपराधीनः कपिञ्जलः ॥
स च पप्रच्छ हारीतं क्व वैशम्पायनः शुकः ।
उत्पन्नप्रत्यभिज्ञो ऽहम् अयम् अस्मीत्य् अवादिषम् ॥
ततश् चिरम् अरोदीत् स स्ववक्षसि निधाय माम् ।
वयस्यपुण्डरीकस्य धिग् इयं वर्तते दशा ॥
मयापि रुदतोक्तो ऽसौ किं रोदिषि कपिञ्जल ।
त्वयापि मत्कृते दृष्टा सखे कष्टतरा दशा ॥
क्व हेषा क्व जपाभ्यासः क्व पर्याणं क्व वल्कलम् ।
क्वोपवीतं क्व वा वल्गा क्व मुनिः क्व तुरङ्गमः ॥
ततः क्षणम् इव स्थित्वा तातसंदेशम् अब्रवीत् ।
कपिञ्जलः समासेन पुनर् गमनसत्वरः ॥
तातस् त्वाम् आदिदेशैवं वत्स दोषस् तवात्र कः ।
रजोविकृतयो युक्ताः शुद्धस्त्रीबीजजन्मनाम् ॥
अल्पायुषं विदित्वापि जाते त्वयि न यन् मया ।
कृता प्रतिक्रिया तत्र तदालस्यं हि मामकम् ॥
अद्यायुष्कामयागस् तु प्रस्तुतः स समाप्यते ।
न यावद् भवता तावन् न गन्तव्यम् इतः क्वचित् ॥
अहं त्वदन्तिके स्थातुम् इच्छन्न् अपि निवारितः ।
तातेन तत्र कर्मैकदेशलेशाङ्गतां गतः ॥
इत्य् आख्याय परिष्वज्य क्रियाभ्यावर्तनेन माम् ।
क्रमेणामन्त्र्य स मुनीन् प्रतस्थे दिवम् उत्पतन् ॥
गृहीततातादेशो ऽपि काले गच्छत्य् अहं बलात् ।
नीतो वारितवामेन कामेन वशम् आत्मनः ॥
अनुभूय चिरं तत्र चित्राः स्मरबिभीषिकाः ।
अकार्षं धियम् उत्क्रान्तगुर्वाज्ञो गमनं प्रति ॥
एकदा त्व् आश्रमं शून्यं वीक्ष्य निर्गततापसम् ।
एकाकी सहसोड्डीय प्रस्थितो ऽस्म्य् उत्तरां दिशम् ॥
अदूरोड्डीन एवाहम् अनभ्यस्ताध्वलङ्घनः ।
क्रान्तस् तृषा च क्लान्त्या च जलं क्वचिद् अतर्कयम् ॥
ततः क्वापि पयः पीत्वा किञ्चिद् आदश्य चञ्चुना ।
विश्रान्तये ऽविशं श्रान्तस् तरोः कस्यापि कोटरे ॥
क्षणं तत्र निषण्णस्य तदा मे निद्रया मनः ।
गाढया पाशपङ्क्त्या च शरीरकम् अगृह्यत ॥
अथ सुप्तोत्थितो ऽपश्यम् अग्रतो नातिदूरगम् ।
कृतार्थम् इव मातङ्गयुवानं मम बन्धनात् ॥
आकृत्या कर्मणा चास्य समर्थ्यापिशितार्थिताम् ।
प्रार्थनापेशलं किञ्चिद् आत्ममोक्षार्थम् अभ्यधाम् ॥
भद्र सौम्याकृतिस् त्वं हि न मांसार्थीव दृश्यसे ।
न हि मांसार्थिनो युक्तं निद्राछेदप्रतीक्षणम् ॥
तद् उन्मुञ्चतु मां भद्रः सुखं यामि यथेप्सितम् ।
मया बद्धेन को ऽर्थस् ते का विमुक्तेन वा क्षतिः ॥
सो ऽब्रवीन् न स्वतन्त्रेण गृहीतो ऽसि मया शुक ।
प्रथितस् त्वं हि जालाबेर् आश्रमे सुचिरं स्थितः ॥
स त्वं गतो मम स्वामिदुहितुः कर्णगोचरम् ।
तन्नियोगाद् गृहीतो ऽसि कथम् उन्मुच्यसे मया ॥
पुनर् आख्याम् अमुं सौम्य युवासि स्मरवेदनाम् ।
जानासि न प्रियोत्कण्ठाकृष्टं मां रोद्धुम् अर्हसि ॥
सो ऽभाषत न भृत्येन तरुणेनापि शासनम् ।
स्वामिनो ऽलङ्घनीयं तत् कथं त्वां त्यक्तुम् उत्सहे ॥
अवोचं पुनर् अप्य् एनं शापाज् जातिस्मरो मुनिः ।
शुकीभूतो ऽस्मि मां मुञ्च परं पुण्यम् अवाप्स्यसि ॥
स त्वाह नाहं जानामि मुनिं गन्धर्वमेव वा ।
राक्षसं वा पिशाचं वा नीत एवासि पक्वणम् ॥
इत्य् उक्त्वादाय पाणौ माम् अनैषीत् पक्वणं बलात् ।
प्रावेशयच् च चण्डालकुमारीवेश्म कश्मलम् ॥
दृष्ट्वा तदार्द्रगोमांसवसासृक्पङ्कपिच्छलम् ।
प्रोच्छलत्क्रिमि मत्प्राणैर् उत्क्रान्तम् इव दुर्भगैः ॥
अथ मातङ्गकन्यायै स माम् अस्यै न्यवेदयत् ।
स्वामिन्य् अयम् इहानीतः स वैशम्पायनः शुकः ॥
साकूतम् इव मां वीक्ष्य स्नेहबाष्पार्द्रया दृशा ।
क्षणं वक्षसि धृत्वैषा न्यक्षिपद् बद्धपञ्जरे ॥
ततो ऽतिमहता चक्रे शोकेन हृदि मे पदम् ।
मुनिर् भूत्वाद्य चण्डाल्या अहं क्रीडाशुकः स्थितः ॥
व्यक्तां विदधता वाचं जातिं स्मरयता निजाम् ।
अहो जाबालिना दिव्यदृष्टिनापकृतं मम ॥
अहो बत महत् कष्टम् अविषह्यम् उपस्थितम् ।
ब्राह्मणेन मया नेयः कालश् चण्डालवेश्मनि ॥
भवत्वनशनेनैव त्यजामि हतजीवितम् ।
ताड्यमानो ऽपि नाश्नामि न वाचं विसृजामि च ॥
एवमुद्वेजितैषा मां हन्याद्वा यदि वा त्यजेत् ।
भवत्य् उभयथाप्य् एष पन्थाः श्रेयस्करो मम ॥
इत्य् उपारूढसंकल्पम् उपाहृतफलोदका ।
एषा चण्डालकन्या माम् आख्यन् मधुरया गिरा ॥
फलान्य् अशान पानीयम् उपयुङ्क्ष्व किम् ईक्षसे ।
भग्नमौनव्रतो ऽप्य् अद्य किं मौनम् अवलम्बसे ॥
मुनिर् जातिस्मरो ऽसि त्वं यदि को ऽपि तथापि ते ।
तिर्यग्जात्युचिता प्राणवृत्तिर् एवाद्य संमता ॥
न तिर्यगधिकारं हि शास्त्रं शास्त्रविदो विदुः ।
तिरश्चां क्व च संस्काराश् चौडोपनयनादयः ॥
भक्ष्याभक्ष्यविचारादि यदि चाद्य चिकीर्षसि ।
तत् किम् उच्छिष्टशौचादि नाश्रमे ऽप्य् आश्रितं त्वया ॥
आपत्काले द्विजातीनाम् अप्य् अनाश्यं न विद्यते ।
हस्ताद् अस्माकम् आदत्त विश्वामित्रः श्वजाघनीम् ॥
कृतद्वित्रोपवासो ऽपि जिहासुर् इव जीवितम् ।
लक्ष्यसे वत्स मा मैवं कृथा भुङ्क्ष्व फलोदकम् ॥
इत्य् अचण्डालसदृशैर् वाक्यैर् अस्त्रीजनोचितैः ।
तस्या विस्मयमानो ऽहं चिरम् एवम् अचिन्तयम् ॥
नूनम् एषा न चण्डाली मद्वत् केनापि कर्मणा ।
मन्ये गतिम् इमां प्राप्ता मदर्थेनैव वा पुनः ॥
बिभर्त्य् उरसि मातेव पश्यति स्निग्धया दृशा ।
वक्ति चैवम् अतो ऽमुष्याः करोमि वचनं वरम् ॥
इति मत्वासृजं वाचम् अभवं भोजनोन्मुखः ।
अभोजयच् च माम् एषा जननीव दिने दिने ॥
तत्त्वम् अस्याः परिज्ञातुम् अन्वहं प्रार्थनां व्यधाम् ।
न त्व् एषा प्रार्थ्यमानापि निजं रूपम् अदीदृशत् ॥
नित्यम् आशङ्कमानो ऽहम् एतां काम् अपि देवताम् ।
पोष्यमाणो ऽनया कालम् अनैषं तत्र पक्वणे ॥
एकदा च त्रियामान्ते परित्यक्तो ऽस्मि निद्रया ।
अद्राक्षं पक्वणं सर्वम् आर्यप्रायजनावृतम् ॥
आत्मानं च नवोदारहेमपञ्जरवर्णितम् ।
कन्यकाम् ईदृशीं चैतां दृष्टा देवेन यादृशी ॥
तत् को ऽहं किम् अहं तत्र रक्षितश् चिरम् एनया ।
कस्य हेतोर् इहानीत इति राजन् न वेद्म्य् अहम् ॥
इत्य् आकर्ण्य कथाम् एतां वैशम्पायनवर्णिताम् ।
स राजा शूद्रकः शय्यागृहाद् अङ्गनम् आगमत् ॥
ससम्भ्रमं च निर्गत्य तूर्णम् आनाययत् पुनः ।
आस्थानावसरे दृष्टां तां मातङ्गकुमारिकाम् ॥
अथ सा प्रविश्य विततेन तेजसा ददतीव दिक्षु शरदिन्दुचन्द्रिकाम् ।
जितारवेणुरवभिन्नवल्लकीध्वनिना स्वरेण गदितुं प्रचक्रमे ॥
हे रोहिणीरमण सर्वकलानिकेत तारापते रजनिनाथ सुधानिधान ।
कादम्बरीरसगुणेषु निबद्धभावम् आत्मानम् अर्पितशरीरम् अनुस्मरेन्दोः ॥
मां च विद्धि शशकेतन श्रियं साहम् अस्य जननी दुरात्मनः ।
पूर्वचेष्टितम् अवैत्व् अतो भवान् इत्य् अमुं तव समीपम् आनयम् ॥
अयम् अपि गुरुशासनां विलङ्घ्य स्मरपरतन्त्रमनाः प्रयातुकामः ।
अविनयपरिशङ्किना तदानीम् अविकलयोगदृशा व्यलोकि पित्रा ॥
तस्याज्ञयैवम् अनुभावयितुं विपाकम् आसन्नम् एव गुरुशासनलङ्घनस्य ।
अत्रावतीर्य विपिने जनसङ्गभीत्या मातङ्गभङ्गिम् अवलम्ब्य तथा स्थितास्मि ॥
गच्छन्तम् एनं विनियम्य पाशैस् तीव्राणि दुःखान्य् अनुभावयन्ती ।
शापावसानं युवयोः क्रतोश् च समाप्तिम् आसं चिरम् ईक्षमाणा ॥
मुनेर् अवभृथावधिः पितुर् अमुष्य सिद्धः क्रतुः कृतस् त्वम् अपि संस्मृतस्वतनुर् अद्य तच्छासनात् ।
तदुज्झितमलीमसेदृशशरीरयोगौ युवां निजेन वपुषाधुनानुभवतां प्रियासंगमम् ॥
इत्य् उक्त्वोच्चैर् गमनरभसप्रश्लथीभूतबन्धस्रग्विस्रस्तैः कुसुमविदलैर् अर्चयित्वेव पृथ्वीम् ।
दिक्चक्रं च प्रचलरशनानूपुरोत्थैर् निनादैर् आमन्त्र्येव द्रुतम् उदपतद् द्याम् असौ दिव्यकान्तिः ॥
स्वतनुकान्तितिरस्कृतचन्द्रिकां गगनम् उत्पतिताम् अवलोक्य ताम् ।
सुचिरम् ऊर्ध्वनिवेशितलोचनः कम् अपि विस्मयम् आप जनो ऽखिलः ॥
अथास्य राज्ञो हृदि शूद्रकस्य निरस्तधैर्यादिगुणप्रबन्धः ।
कादम्बरीसंस्मरणानुबन्धलब्धावकाशो मदनो जजृम्भे ॥
न राजलक्ष्मीं बहु मन्यते स्म नोर्वीं न कीर्तीं न सरस्वतीं च ।
स तद्रसक्षीब इवाललम्बे कादम्बरीम् एव नितान्तम् अन्तः ॥
पराङ्मुखः स्पर्शरसेष्व् अजस्रं नादत्त कर्णौ मधुरे ऽपि स ध्वनौ ।
जगाम निर्लक्ष्यनिविष्टलोचनः क्रमेण सर्वेन्द्रियवृत्तिशून्यताम् ॥
न गुरोर् उपदेशम् अग्रहीद् बुबुधे वस्तु ततो न मूढधीः ।
यतते स्म न तस्य सिद्धये न परिस्पन्दितुम् अप्य् अपारयत् ॥
भूताभिभूत इव मूढ इव क्रमेण निःसंज्ञतां विरहवेदनयोपनीतः ।
मुक्त्वा मनोभवरुजं सुचिरं स राजा प्राणान् मुमोच सहसैव विहङ्गमो ऽपि ॥
जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तनौ यदासीत् ।
तद् एव संक्रानमथान्यदेहे चित्रा हि विश्वप्रकृतेर् विकाराः ॥
अत्रान्तरे चित्ररथात्मजायास् तनुं प्रियस्यान्वहम् अर्चयन्त्याः ।
तथैव कालः सुमहानगच्छद् आछोदतीरे तपसि स्थितायाः ॥
अथ मधुसमये विजृम्भिते सा मदनमहोत्सववासरे सरागम् ।
मलयजघनसारहारपुष्पैस् तनुम् अतिमात्रम् अलञ्चकार भर्तुः ॥
तं वीक्ष्य तापसदृशापि तदा जगाम कामस्य गोचरम् असौ मधुजृम्भितस्य ।
एकाकिनी सपद् दिक्षु निधाय चक्षुः कान्तं स्वपन्तम् इव निर्भरमालिलिङ्ग ॥
चन्द्रापीडं सा च जग्राह गाढं कण्ठस्थाने जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीम् इन्दुस्पृष्टा सिन्धुवेलेव भेजे ॥
शिलाशय्यां त्यक्त्वा तदनु चिरसुप्तोत्थित इव क्षणं स्थित्वा जृम्भालसवदनम् उन्मील्य नयने ।
ततश् चन्द्रापीडः प्रहतमुरजध्वानपटुना स्वरेण स्वेनैव स्मितमधुरम् आह प्रियतमाम् ॥
त्वगमृतप्रभवे ऽप्सरसां कुले सुतनु जन्म समर्थितवत्य् असि ।
यद् अमुना परिरम्भलवेन ते सपदि जीवितम् आपद् अयं जनः ॥
माम् अन्वबीभवद् इमाम् इयतीम् अवस्थां शापः कलङ्क इव कान्तिहरो द्वितीयः ।
त्वद्विप्रयोगकृत एव बभूव तापस् तन्वङ्गि शूद्रकतनोर् अपि मृत्यवे मे ॥
संरक्षिता तनुर् इयं तु तव प्रियेति शापः कृशोदरि विरामम् अवाप पापः ।
अद्यप्रभृत्य् अखिलम् एव हि चन्द्रलोकं शाधि स्वपादकृतमुद्रम् इमं च लोकम् ॥
सख्याः प्रियं पितृतपोभिर् अवाप्तदिव्यजीवं कपिञ्जलकरार्पितपाणिपद्मम् ।
मन्मण्डलाद् अवतरन्तम् अखण्डकान्तिम् आपाण्डुगण्डम् अवलोकय पुण्डरीकम् ॥
कौतूहलात् सह मयैव गतेन्दुलोकम् आलोकयिष्यसि कदाचन पत्त्रलेखाम् ।
कापि प्रिये सहचरी मम सा ततस्त्या मा ते ऽद्य भूत् तदनवाप्तिकृतो विषादः ॥
श्रुत्वेति तस्य गिरम् उत्सुकतां गतासौ रोमाञ्चकञ्चुकमकृत्रिमम् उद्वहन्ती ।
कादम्बरी चरणयोर् निपपात पत्युर् आनन्दबाष्पकणशीकरितेक्षणश्रीः ॥
उत्थाय त्वरितोपसृत्य च महाश्वेतां परिष्वज्य सा प्रत्यक्षीकृतपुण्डरीकपदवीं कृत्वा च लब्धोत्सवाम् ।
दिष्ट्या वर्धयितुं न्ययुङ्क्त रभसेनाहूय केयूरकं तारापीडतपोवने परिजनं पित्रोर् गृहे चापरम् ॥
तारापीडः कृशपरिणतो ऽप्य् आययौ तत्र तूर्णसानन्दान्तःपुरपरिजनामात्यवर्गानुयातः ।
तस्मिन् काले सखिसहचरः पुण्डरीको ऽपि नाकात् किञ्चिल्लज्जावनतवदनो वल्लभां स्वाम् उपेतः ॥
चन्द्रापीडः स्वाम् अपि जानन्न् अथ मूर्तिं तारापीडं पुत्रवद् एव प्रणनाम ।
तद्वत् तं च प्रश्रयशीलः शुकनासं दत्तानन्दो ऽवन्दत सर्वाश् च जनित्रीः ॥
माया धातुर् इयं भवेद् भगवतः किं श्वेतकेतोर् इदं सामर्थ्यं तपसाम् अथेन्दुमहसाम् अत्रेन्द्रजालायितम् ।
वैशम्पायन इत्य् अवेदि यद् असाव् एको ऽपि तद्बन्धुभिर् यच् चासौ स तु पुण्डरीक इति ते तस्मिन् भवे संस्थिताः ॥
स पुण्डरीको मुनिर् अप्य् अपश्यद् आत्मानम् अन्तः शुकनासपुत्रम् ।
प्रणम्य भूमौ पितरं क्रमेण मनोरमाद्या जननीर् ववन्दे ॥
अथ विलासवती समनोरमा स्तनयुगस्रुतदुग्धकणावलिः ।
सुतवपुःपरिरम्भमहोत्सवं फलितसर्वमनोरथम् अन्वभूत् ॥
तारापीडस् तु पादानतम् अनवरतप्रस्रुतानन्दबाष्पश् चन्द्रापीडं भुजाभ्यां कथम् अपि सहसोत्थाप्य कण्ठे गृहीत्वा ।
शापेनात्रावतीर्णो यदि तद् अपि भवान् उत्तमो लोकपालः प्रख्याप्येति प्रतीपं प्रणततनुर् असाव् अस्य पादौ ववन्दे ॥
तस्मै निवेद्य नृपचक्रम् अनिच्छते ऽपि यत्नात् क्रमोपनतया सह राजलक्ष्म्या ।
नोज्झाञ्चकार चिरसंचितम् आश्रमं सत् तत्प्रार्थितो ऽपि महिषीसहितश् चतुर्थम् ॥
आजग्मुस् तत्र वल्गत्तुरगखुरपुटोद्धूतधूलीकडारैश् चूडाप्रत्युप्तभास्वन्मणिरुचिरुचिरैः शोभमानाः शिरोभिः ।
चन्द्रापीडेन्दुसंदर्शनरभससमुत्फुल्ललोलेक्षणाब्जा निर्व्याजौत्सुक्यसज्जीकृतनिरतिशयोपायनाः पार्थिवेन्द्राः ॥
संकल्पाधिकलाभहर्षरभसोज्जृम्भाविलोलीभवद्गन्धर्वप्रमदाकदम्बकृतक्रीडाकरास्फालनाम् ।
सार्धं चित्ररथस् ततो मदिरया हंसश् च गौर्या सह द्रष्टुं नृत्तमयीम् इव व्यवसिताम् आजग्मतुर् मेदिनीम् ॥
ताभ्याम् एत्य निरस्य तापसतनुच्छायां दुहित्रोः कृते भास्वत्कौतुकमङ्गले नववधूवेषे मनोहारिणि ।
निर्वृत्ते च समन्त्रहोमसुभगारम्भे विवाहोत्सवे तत्रान्योन्यसमागमप्रमुदिताः सर्वे मुदं लेभिरे ॥
इति विततविलासः पुण्डरीकेण साकं दिवि भुवि च विचित्रोद्यानलीलाविहारः ।
अभिमतफलसम्पद्वर्धमानाभिनन्दः श्रियम् अभजत चन्द्रापीडमूर्तिर् मृगाङ्कः ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0