भाषा

ENहिગુ
ग्रंथ पाठ

कादम्बरीकथासार · अध्याय 2

2.1

अथ संध्यासमाध्यन्ताः समाप्य मुनयः क्रियाः ।
शुश्रूषवः समागम्य यथास्थानम् उपाविशन् ॥

2.2

अहम् अप्य् आत्मवृत्तान्तविस्तरश्रवणोत्सुकः ।
संहृत्य चापलं सर्वम् आसं स्थिरमनास् तदा ॥

2.3

अथ दुग्धाब्धिकल्लोलधवलैर् अमृताञ्चितैः ।
सिञ्चन्न् इव करैर् इन्दुर् उदगादाश्रमस्थलीम् ॥

2.4

भगवानथ जाबालिः सुखासीनः स्वविष्टरे ।
वल्कलाहितपर्यङ्कबन्धो वक्तुं प्रचक्रमे ॥

2.5

सर्वे दत्तावधानाः स्थ शृणुतेमां तपोधनाः ।
अमुष्य पूर्ववृत्तान्तप्रस्तावोपनतां कथाम् ॥

2.6

अस्त्य् अवन्तिषु संसारलक्ष्म्याः प्रसवभूर् इव ।
निधिर् उज्जयिनी नाम नगरी गुणसम्पदाम् ॥

2.7

लङ्कालकामरावत्यो येषां वसतयः प्रियाः ।
ते ऽपि याम् अभिपश्यन्तः सुखं तासु न शेरते ॥

2.8

किम् अन्यद् यत्र कैलासनिवासप्रीतिम् उज्झता ।
महाकालाभिधानेन रुद्रेण स्वयम् आस्यते ॥

2.9

तस्यां भरतमान्धातृभगीरथपृथूपमः ।
तारापीड इति श्रीमान् बभूव पृथिवीपतिः ॥

2.10

परस्परविरोधेन विप्रकीर्णैर् इतस् ततः ।
विस्रब्धम् आस्यते यत्र सम्भूय सकलैर् गुणैः ॥

2.11

विहसन् बुद्धिविभवैर् भृगूद्वहबृहस्पती ।
अमात्यः शुकनासाख्यो ब्राह्मणस् तस्य चाभवत् ॥

2.12

त्रिविक्रमपदाक्रम्य स राजा पृथिवीम् इमाम् ।
तस्मिन् मन्त्रिणि तद्भारं निचिक्षेप भरक्षमे ॥

2.13

तथा च पालयामास स मन्त्री सकलाः प्रजाः ।
यथा त्रिविधम् अप्य् एता न दुःखं किञ्चिद् अस्पृशन् ॥

2.14

यथा यथा च लोको ऽस्मिन् पितरीवान्वरज्यत ।
राजा तथा तथात्मानं कृतकृत्यम् अमन्यत ॥

2.15

अक्लेशमर्पितं तेन स्वभुजे जगदर्जनम् ।
सम्भोगविघ्नकारीति पालनं मन्त्रिसात्कृतम् ॥

2.16

कृतकृत्यतया चासौ कार्यशेषम् अचिन्तयन् ।
विषयेष्वाहितप्रीतिर् आसांचक्रे यथासुखम् ॥

2.17

शोभा हि कृतकृत्यस्य राज्ञो भोगविभूतयः ।
असमाप्तजिगीषस्य ता एव तु विडम्बनाः ॥

2.18

स युवा मधुराकारस् तरुणीनयनोत्सवः ।
कलासु कुशलः कामी बुभुजे भोगसम्पदः ॥

2.19

न ते भोगा न ताः क्रीडा न ता गोष्ठ्यो न ते रसाः ।
न ते विलासा येष्व् अस्य पारगं नाभवन् मनः ॥

2.20

समग्रसुखसम्भोगभूमिज्ञो ऽपि स भूपतिः ।
सुखम् एकं तु नाज्ञासीद् अपत्यालोकनोद्भवम् ॥

2.21

यथा यथास्य कालेन व्यतीयाय नवं वयः ।
निरपत्यतया शोको वर्धते स्म तथा तथा ॥

2.22

मुख्यभूता च सर्वस्मिन्न् अन्तःपुरकदम्बके ।
राज्ञी विलासवत्याख्या तस्य प्राणसमाभवत् ॥

2.23

सा राजमहिषी गौरीम् अभ्यर्चयितुम् एकदा ।
देवतायतनं बाह्यं ययौ भर्तुर् अनुज्ञया ॥

2.24

पुराणे वाच्यमाने ऽथ प्रसङ्गपतितां श्रुतिम् ।
अपुत्रस्य कुतो लोका इति शुश्राव तत्र सा ॥

2.25

प्रतप्तलोहसूचीव सा श्रुतिः श्रवणान्तरम् ।
विवेश ददती तस्याः परां काम् अपि वेदनाम् ॥

2.26

ततः प्रतिनिवृत्ताथ प्रविश्य भवनं निजम् ।
वस्त्रावृतमुखी भूमावुपविश्य रुरोद सा ॥

2.27

सखीभिः प्रार्थ्यमानापि न स्वाम् अभजत स्थितिम् ।
नोदस्थात् कर्तुम् आहारं विरराम न रोदनात् ॥

2.28

अथोपलभ्य तत्पीडाव् आर्तां परिजनान् नृपः ।
प्रविश्यान्तःपुरं प्राह स्वैरम् एनां प्रसादयन् ॥

2.29

प्रिये किम् इदम् आरब्धं रुद्यते किम् अकारणम् ।
न त्वया मत्कृते मन्युर् अनुभूतः कदाचन ॥

2.30

अन्यो ऽपि मन्मुखप्रेक्षी मदधीनात्मजीवितः ।
कस् तवोत्पादयेन् मन्युं यस्मै कुप्यसि सुन्दरि ॥

2.31

इति प्रसाद्यमाना सा यदा नोवाच किञ्चन ।
तदा विदितवृत्तान्तस् तत्सख्या नृपतिः कृतः ॥

2.32

तेन व्यतिकरेणाथ सो ऽपि शोकपरायणः ।
रुरोद वक्षसि न्यस्तसबाष्पदयितामुखः ॥

2.33

चिरं रुदित्वा निःशब्दं स्वयम् उन्मृज्य लोचने ।
जगाद गद्गदं राजा महिषीम् उपसान्त्वयन् ॥

2.34

ममापि नन्व् इयं देवि चिरात् प्रभृति दुःसहा ।
दुनोति हृदयं चिन्ता निष्प्रतीकाररोगवत् ॥

2.35

विफलं बत मे राज्यं विफला मम सम्पदः ।
विफला मम सम्भोगा विफलं मम जीवितम् ॥

2.36

कुतो ऽस्माकम् अभव्यानाम् इयत्यो भाग्यसम्पदः ।
यद् द्रक्ष्यामस् तवोत्सङ्गं बालकालत्यमण्डितम् ॥

2.37

वाञ्छन् क्रीडनकं किञ्चित् कदा मे पापकर्मणः ।
आकृष्यति सुतः कूर्चं किम् अप्य् अव्यक्तम् आलपन् ॥

2.38

इत्यादि विलपत्य् अस्मिन् बाष्पाकुलितलोचने ।
शुकनास इमां वार्तां श्रुत्वा सत्वरमाययौ ॥

2.39

निरपत्यः कृतः सो ऽपि राजेव हतवेधसा ।
तस्याप्य् अनेन शोकेन गृहे रोदिति गेहिनी ॥

2.40

स तु स्वामिगतं दुःखं दुःखम् इत्य् अवधारयन् ।
तद्दुःखापनयोपायप्रवणो धीरम् अभ्यधात् ॥

2.41

क्व धीरप्रकृतिर्देवः क्वेयं विल्कवचित्तता ।
शोको ऽवकाशं लभते हृदये न भवादृशाम् ॥

2.42

यदि हि स्त्रीस्वभावेन देवी विक्लवतां गता ।
तत् किं प्रलम्बकूर्चस्य युक्तं देवस्य रोदितुम् ॥

2.43

को ऽयं हिताहितप्राप्तिपारिहारक्रियाक्रमः ।
यत् कपोलतलन्यस्तहस्तं निःश्वस्यते चिरम् ॥

2.44

यदि दुःखासिका सत्यमनपत्यतया तव ।
बुद्धिराधीयतां धर्मे धर्मोत्सवमवाप्यते ॥

2.45

दीयतां वसु विप्रेभ्यः पूज्यन्तां सर्वदेवताः ।
प्रवर्त्यन्तां प्रपारामाः खन्यन्तां सलिलाशयाः ॥

2.46

नास्ति नाम जगत्य् अस्मिन् पुरुषार्थः स कश्चन ।
यो धर्मनिरतैर् धीरैस् त्वादृशैर् नाधिगम्यते ॥

2.47

इत्यादि शुकनासोक्तम् आकर्ण्य विगतज्वरौ ।
उत्थाय स्वस्थवत् सर्वा दम्पती चक्रतुः क्रियाः ॥

2.48

ततः प्रभृति दानानि यागहोमतपांसि तौ ।
चित्राण्य् अकुरुतां सर्वा व्यस्मयन्त ततः प्रजाः ॥

2.49

कदाचिद् अथ भूपालः स्वप्ने ऽपश्यन् निशाकरम् ।
विलासवत्या वदनं प्रविशन्तम् अखण्डितम् ॥

2.50

तथा मनोरमा नाम शुकनासस्य गेहिनी ।
स्वप्ने सपुण्डरीकाङ्का सापि तेन व्यलोक्यत ॥

2.51

अन्येद्युरुदये भानोर्मङ्गलाचारपूर्वकम् ।
तं स्वप्नं कथयामास शुकनासाय भूपतिः ॥

2.52

सानन्दं सो ऽभ्यधाद् एनं सम्पन्नास् ते मनोरथाः ।
अचिरात् सोष्यते देवी पुत्रं पूर्णेन्दुसुन्दरम् ॥

2.53

दिनेष्व् अथ व्यतीतेषु केषुचिद् गर्भम् अग्रहीत् ।
महिषी तत्सखीभ्यश् च तम् अज्ञासीन् नरेश्वरः ॥

2.54

ताभ्यः प्रादात् स वासांसि चित्राण्य् आभरणानि च ।
क्रमेण गर्भलिङ्गेषु व्यक्तेषु मुमुदेतराम् ॥

2.55

शुकनासाय चोवाच प्रहर्षोत्फुल्ललोचनः ।
चकाङ्क्ष चातको मेघान् इव प्रसववासरान् ॥

2.56

सम्पूर्णे दशमे मासि देवी सुतम् असूत सा ।
हर्षेण च जगत् सर्वं परिवृत्तम् इवाभवत् ॥

2.57

राजा महोत्सवानन्दपूर्णपात्रम् उपाहृतम् ।
दृष्ट्वा लोकेषु माति स्म न त्रिविक्रमवत् त्रिषु ॥

2.58

शुकनासस् तु राजानं कण्ठे जग्राह निर्भरम् ।
औत्सुक्यात् सूतिकावासं ताव् उभाव् अपि जग्मतुः ॥

2.59

ततो ददृशतुर् व्यक्तसकलाङ्गं कुमारकम् ।
इन्दोर् उदयरागार्द्रं नवं बिम्बम् इवोदितम् ॥

2.60

शुकनासो निरूप्याङ्गमेकैकं निपुणं शिशोः ।
हस्ते भूपालम् आलम्ब्य हर्षगर्भम् अभाषत ॥

2.61

अयं शङ्ख इदं चक्रम् इयम् ऊर्णेदम् अम्बुजम् ।
पश्य बालस्य चिह्नानि दृश्यन्ते चक्रवर्तिनाम् ॥

2.62

यो ऽसौ स्वप्ने त्वया दृष्टश् चन्द्रो देवीमुखं विशन् ।
स एवायम् इहोत्पन्न इति मा संशयं कृथाः ॥

2.63

इति तद्दर्शनानन्दसुधाप्लावितयोस् तयोः ।
शुकनासस्य राज्ञश् च हर्षाब्धिर् ववृधेतराम् ॥

2.64

अत्रान्तरे मन्त्रिगृहाद् आगत्य द्वाररक्षकः ।
शुकनासगृहे पुत्रजन्मोत्सवम् अचीकथत् ॥

2.65

शुकनासम् अथाभीक्ष्णम् आलिलिङ्ग महीपतिः ।
उत्तरीयं जहारास्य पूर्णपात्रम् इति स्वयम् ॥

2.66

उवाच चैनं पश्येदं सुखस्योपरि नः सुखम् ।
इमे ते पतिताः सत्यं तुहिने सोमरश्मयः ॥

2.67

साध्व् इदं वेधसारब्धं चित्तानुगुणम् आवयोः ।
सहैव पात्रतां नीतौ यद् आवां सुखदुःखयोः ॥

2.68

ततस् तूर्यरवैर् नृत्यैश् चर्चरीतालनिःस्वनैः ।
सिन्दूरघनसारादिक्षोदैः कुङ्कुमकर्दमैः ॥

2.69

अनपेक्षितनीचोच्चव्यवहारनिरर्गला ।
केलिः प्रववृते तत्र राजगेहमहोत्सवे ॥

2.70

राजा तु स्वगृहे केलिविमर्दं वीक्ष्य तादृशम् ।
शुकनासगृहं गत्वा द्विगुणं तम् अकारयत् ॥

2.71

कृते ऽथ जातकर्मादौ वृत्ते षष्ठीप्रजागरे ।
विलासवत्यां स्नातायां शुचौ काल उपस्थिते ॥

2.72

प्रशस्ते ऽहनि दैवज्ञैर् अनुज्ञातो महीपतिः ।
स्नातः सुवर्णलक्षेण पूजयित्वा द्विजोत्तमान् ॥

2.73

स भूषणानि वासांसि वर्षन् परिजने शिशोः ।
चन्द्रापीड इति स्वप्नसदृशं नाम निर्ममे ॥

2.74

शुकनासो ऽपि सम्पूज्य विप्रान् विप्रजनोचितम् ।
वैशम्पायन इत्य् आत्मसूनोर् नाम प्रणीतवान् ॥

2.75

क्रमेण वर्धमानो ऽथ कृतचूडादिमङ्गलः ।
चन्द्रापीडो ऽभवत् पित्रोः परम् उत्सङ्गमण्डनम् ॥

2.76

आकारेणेन्दुकान्तेन मधुरैर् बालवल्गितैः ।
अव्यक्तवर्णैर् आलापैर् अहरत् स तयोर् मनः ॥

2.77

प्राप्ते ऽथ सप्तमे वर्षे विद्यागृहम् अकारयत् ।
चन्द्रापीडस्य नगराद्बहिर्बहुगुणं नृपः ॥

2.78

कृतोपनयनं चैनम् काले क्षत्रजनोचिते ।
तत्र न्यवेशयद्राजा विद्याधिगमसिद्धये ॥

2.79

तर्कव्याकरणाभिज्ञान् धनुर्वेदविशारदान् ।
दण्डनीत्यादिनिपुणान् आचार्यान् पर्यकल्पयत् ॥

2.80

शुकनासो ऽपि तं पुत्रम् उपनीय यथाविधि ।
राजपुत्रानुगं चक्रे विद्यागृहनिवासिनम् ॥

2.81

नृपतिस् त्व् अगमद् द्रष्टुं पुत्रं गुरुकुले स्थितम् ।
प्रार्थितो ऽपि स तन्मात्रा नैनम् आनाययद् गृहम् ॥

2.82

पूर्णषोडशवर्षो ऽथ राजपुत्रः कुशाग्रधीः ।
सकृदध्यापितो विद्याः पूर्वाभ्यस्ता इवाग्रहीत् ॥

2.83

सर्वशास्त्रार्थतत्त्वज्ञः सर्वभाषासु सत्कविः ।
सर्ववादेषु वक्ताभूत्सर्वशास्त्रेषु कोविदः ॥

2.84

प्रौढः कलासु सर्वासु दक्षः सर्वेषु कर्मसु ।
सर्वेषु व्यवहारेषु सो ऽभूद् अस्खलितक्रमः ॥

2.85

क्रमेण वर्धमानश् च स व्यायामम् असेवत ।
शुशुभे च तदभ्यासप्राप्तसर्वाङ्गसौष्ठवः ॥

2.86

प्रलम्बबाहुः पीनांसः पृथुवक्षास् तनूदरः ।
गम्भीरबाहुर् वृत्तोरुस् तरुणः करिसद्गतिः ॥

2.87

शुकनाससुतस् तस्य प्रतिबिम्ब इवाभवत् ।
गुणैर् अशेषैर् अन्यत्र शरीरप्राणगौरवात् ॥

2.88

राजा तु तं सुतं बुद्ध्वा कृतार्थं गुरुवेश्मनः ।
शुकनासगिरा गेहम् आनेतुम् उपचक्रमे ॥

2.89

स बलाहकनामानम् आहूय ध्वजिनीपतिम् ।
पुण्ये ऽह्नि प्राहिणोत् पुत्रम् आनेतुं कृतमङ्गलः ॥

2.90

सहस्रं राजपुत्राणां विनीतं बाहुशालिनाम् ।
विससर्ज च तेनैव सह पुत्रानुवर्तिनम् ॥

2.91

तथेन्द्रायुधनामानं प्रेषयामास वाजिनम् ।
जितोच्चैःश्रवसं तैस् तैर् अनन्यसदृशैर् गुणैः ॥

2.92

बलाहकस् ततो गत्वा विद्यागृहनिवासिनम् ।
अद्राक्षीद्राजपुत्रं तं प्रणनाम च सादरम् ॥

2.93

आचचक्षे च राजाज्ञां गृहम् आगम्यताम् इति ।
सनामग्रहणं चास्मै राजपुत्रान् न्यवेदयत् ॥

2.94

ततो बलाहकाख्यातशौर्यादिगुणगौरवाः ।
राजपुत्राः प्रणेमुस्तं पुरन्दरम् इवामराः ॥

2.95

पर्याणरत्नज्योतिर्भिर् जनितेन्द्रायुधप्रभम् ।
इन्द्रायुधं प्रवेश्याश्वं पुनर् आह बलाहकः ॥

2.96

इमम् आरोह सिन्धूत्थम् अश्वरत्नम् अयोनिजम् ।
पारसीकाधिपतिना देवस्योपायनीकृतम् ॥

2.97

चन्द्रापीडस् तु तं दृष्ट्वा तुरङ्गमम् अनुत्तमम् ।
परं विस्मयम् आपेदे चिरं चैवम् अचिन्तयत् ॥

2.98

हृदयं मे ब्रवीत्य् एवं नैष सत्यं तुरङ्गमः ।
को ऽपि केनापि शापेन नूनं तुरगतां गतः ॥

2.99

अयोनिजत्ववार्तेयम् एतत् संकल्पसाक्षिणी ।
रम्भा किलाप्सरःकन्या शापेन वडवाभवत् ॥

2.100

गरुत्मतीदम् उच्चत्वम् उच्चैःश्रवसि वा भवेत् ।
तेजसाम् आकृतेर् वापि न सामान्येषु वाजिषु ॥

2.101

इति बुद्ध्या विकल्प्याथ बलाहकसमर्पितैः ।
कुसुमस्रगलङ्कारदुकूलैः कृतमण्डनः ॥

2.102

गुरून् आमन्त्र्य दत्ताशीर्ब्राह्मणैर् बन्दिभिः स्तुतः ।
वैशम्पायनम् आरूढम् आलोक्य तुरगान्तरम् ॥

2.103

यो ऽसि सो ऽसि नमस् तुभ्यम् आरोहातिक्रमस् त्वया ।
मर्षणीयो ऽयम् अस्माकम् आरुरोहेति तं वदन् ॥

2.104

स इन्द्रायुधम् आरुह्य वैनतेयम् इवाच्युतः ।
अपि त्रिजगतीं कृत्स्नां मेने हस्तगताम् इव ॥

2.105

सवैशम्पायनः सो ऽथ निर्गत्य भवनात् ततः ।
राजपुत्रैः परिवृतो विवेश नगरीं शनैः ॥

2.106

तम् अथ पुरतरुण्यो राजमार्गेण यान्तं ददृशुर् अतुलकान्तिं सौधवातायनस्थाः ।
व्यपगतगुरुलज्जाः सम्भ्रमोत्कम्पिताङ्ग्यः स्मरजनितविकारैर् लोचनैर् अर्चयन्त्यः ॥

मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc