कादम्बरीकथासार · अध्याय 3
स प्राप्य नृपतिद्वारम् अवतीर्य तुरङ्गमात् ।
राजधानीं ससेनानीः सवैशम्पायनो ऽविशत् ॥
प्रविश्य च सभामध्ये हर्षबाष्पार्द्रचक्षुषः ।
न्यस्तजानुः क्षितौ मूर्ध्ना ववन्दे चरणौ पितुः ॥
आलिलिङ्ग च तं राजा चुचुम्ब शिरसि क्षणात् ।
ग्रहीतुम् ऐच्छद् उत्सङ्गे स तु भूमाव् उपाविशत् ॥
द्रष्टुं पुनः पुनः स्प्रष्टुम् अतृप्तेनापि भूभुजा ।
विसृष्टो ऽथ क्षणं स्थित्वा मातरं वन्दितुं ययौ ॥
तां सुतालोकनानन्दक्षरत्क्षीरपयोधराम् ।
प्रणम्य जननीः सर्वा नन्दयामास वन्दनैः ॥
अभिनन्द्य कृतं ताभिर् अवतारणमङ्गलम् ।
शुकनासम् अथ द्रष्टुम् अयासीत् तस्य मन्दिरम् ॥
द्वारि वाजिनम् उत्सृज्य प्रविश्य प्रश्रयेण तम् ।
पितृवत् प्रणनामासौ मौलिना मेदिनीं स्पृशन् ॥
नमन्तम् एनम् उत्थाप्य स्वयम् उत्थाय सादरम् ।
शुकनासस् तु जग्राह कण्ठे पुलकिताननः ॥
कृतयत्नो ऽपि नाध्यास्त चारुचामीकरासनम् ।
चन्द्रापीडः क्षिताव् एव तस्य न्यविशताग्रतः ॥
शुकनासं च मुञ्चन्तम् आसनं स्वं न्यवारयत् ।
तत्र क्षणम् इव स्थित्वा द्रष्टुम् आगान् मनोरमाम् ॥
सप्रश्रयं प्रणम्याथ तां विलासवतीम् इव ।
ततो ऽवाप्तविचित्राशीर्मङ्गलो निरियाय सः ॥
यादृक् च चन्द्रापीडस्य दर्शनालिङ्गनक्रमः ।
स वैशम्पायनस्यापि तादृग् एव गृहद्वये ॥
न कश्चन सुतस्नेहे विशेषश् च तयोर् अभूत् ।
मन्त्रिणो राजपुत्रे वा मन्त्रिपुत्र नृपस्य वा ॥
सर्वोपकरणोपेतं पित्रा पूर्वं प्रकल्पितम् ।
जगाम चन्द्रापीडो ऽथ कुमारभवनं महत् ॥
सुसंनिवेशम् आलोक्य रेमे तत्र चिराय सः ।
स्थितिम् इन्द्रायुधस्यापि स्ववासे पर्यकल्पयत् ॥
ततः स्नातानुलिप्ताङ्गं कृताहारं सुखस्थितम् ।
मात्रा विसृष्ट आगत्य कञ्चुकी तम् अभाषत ॥
इयं हि पत्रलेखाख्या कुलूतेश्वरकन्यका ।
केनापि दैवयोगेन परिभ्रष्टा पितुर् गृहात् ॥
बालैव वर्धिता देव्या स्वयम् अन्तःपुरे निजे ।
योग्या सकलविस्रम्भभूमिस् ते पार्श्ववर्तिनी ॥
सा तु तेनार्पिता कन्या ततः प्रभृति तं तथा ।
असेवत यथा चास्य निजं चित्तम् इवाभवत् ॥
चकार तां च ताम्बूलकरङ्कस्याधिकारिणीम् ।
तुतोष च गुणैर् अस्याः शीलाचारनयादिभिः ॥
कियत्स्व् अपि व्यतीतेषु दिवसेष्व् अथ पार्थिवः ।
यौवराज्यविधौ सूनोर् अभियोगम् अशिश्रियत् ॥
संमन्त्र्य शुकनासेन सह विस्रम्भनिर्भरम् ।
सम्भारसंग्रहारम्भम् अकरोत् कृतमङ्गलः ॥
संनिकृष्टाभिषेकं च दर्शनार्थम् उपागतम् ।
चन्द्रापीडम् अथोवाच शुकनासः सविस्तरम् ॥
तात विज्ञातशास्त्रस्य विनयाचारशालिनः ।
नाल्पम् अप्य् उपदेष्टव्यम् अस्ति स्थिरमतेस् तव ॥
किं तु लोकोत्तरा लक्ष्मीर् अभिरामम् इदं वपुः ।
नवं वयः परा शक्तिर् इति दुर्विषहो भरः ॥
लक्ष्मीर् नाम परं पुंसाम् अन्यथाभावकारणम् ।
विरलास् ते विकाराय न येषां तत्परिग्रहः ॥
पुष्णाति तीव्रम् ऊष्माणं हिनस्ति व्यक्तवादिताम् ।
करोति भक्तविद्वेषम् असमः श्रीकृतो ज्वरः ॥
न पश्यन्ति न शृण्वन्ति नापेक्षन्ते हिताहितम् ।
न विद्मः किं नु चेष्टन्ते कष्टं श्रीविप्लुता नराः ॥
क्रमागतेति नैतस्याम् आश्वासः को ऽपि विद्यते ।
ह्यो ऽपि यत्रोषिता लक्ष्मीस् तत्रैवाद्य न दृश्यते ॥
वातरक्ताभिभूतेव भिन्नपादेव कण्टकैः ।
लक्ष्मीर् निधातुं शक्नोति न क्वचिन् निर्भरं पदम् ॥
श्रीः सपत्नीम् इव द्वेष्टि दृष्टिं सत्पथवर्तिनीम् ।
तां विना यत्र तत्रैव पतन्त्य् अन्धा इवेश्वराः ॥
सत्पथस्योपदेष्टारस् तेषां प्रविरला नराः ।
धूर्तैर् एते हि भुज्यन्ते हृदयानुप्रवेशिभिः ॥
आपातरमणीयेषु विषयेषु निरर्गलम् ।
तैर् एव हि प्रवर्त्यन्ते मुखमाधुर्यपण्डितैः ॥
धूर्तप्रतारिताश् चैते विषयासक्तचेतसः ।
अकस्मात् प्रलयं यान्ति गीतरक्ता मृगा इव ॥
विषयेष्व् अतिकष्टो ऽयं विषयः स्त्रीति नाम यः ।
जीवत्य् अन्यैः किलाकृष्टस् तेनाकृष्टो न जीवति ॥
खलेष्व् अकृतविस्रम्भो विषयेष्व् अनिमग्नधीः ।
साधुष्व् अभिमुखो नित्यं महतीं श्रियम् अश्नुते ॥
स त्वं न वञ्च्यसे धूर्तैर् न साधुभिर् उपेक्ष्यसे ।
यथा न बाध्यसे कामैः प्रयतेथास् तथा सदा ॥
कामं भवान् प्रकृत्यैव धीरः पित्रा च संस्कृतः ।
त्वद्गुणेष्व् अतिसंतोषो मुखरीकुरुते स्म माम् ॥
युगराज धुरं पित्रा कल्पिताम् उद्वह स्थिराम् ।
विजिताम् अपि चानेन पुनर् जय वसुंधराम् ॥
इत्य् उक्त्वा विररामासौ तत्कल्याणपरायणः ।
चन्द्रापीडस् तु तद्वाग्भिर् अलङ्कृत इवाभवत् ॥
अथ पुण्ये ऽहनि स्नातं विधिवत् कृतमङ्गलम् ।
यौवराज्ये प्रियं पुत्रम् अभ्यषिञ्चन् महीपतिः ॥
अभिषेकोत्सवस् तस्य जन्मलाभोत्सवाद् अपि ।
अधिकः सर्वलोकस्य बभूवानन्दवर्धनः ॥
सर्वाभ्यो दिग्भ्य आजग्मुर् गृहीतोपायना नृपाः ।
द्विजाश् च तुतुषुः प्राप्तगोभूकनकदक्षिणाः ॥
अन्यत्राहनि दैवज्ञश्लाघ्ययोग्यगुणान्विते ।
ददौ दिग्विजये यात्रां युवराजो नृपाज्ञया ॥
कृतप्रस्थानहोमो ऽसौ विधिज्ञेय पुरोधसा ।
शस्त्रास्त्रचक्रम् अभ्यर्च्य शास्त्रोक्तैर् मन्त्रविस्तरैः ॥
कृतस्वस्त्ययनो विप्रैः प्रचुरस्वर्णतोषितैः ।
यत्नरुद्धास्रया मात्रा कृतप्रस्थानमङ्गलः ॥
शङ्खदुन्दुभिनिर्घोषमुखरीकृतदिङ्मुखः ।
स्तुतस् तारं पठद्भिश् च सूतमागधबन्दिभिः ॥
स्रग्विलेपनदीपादिसम्भारार्चितदैवतः ।
पितरौ शुकनासं च प्रणम्य निरगाद्गृहात् ॥
इन्द्रायुधम् अथारुह्य पौरजानपदाशिषः ।
शृण्वन् नगर्याः पूर्वेण द्वारेण निरियाय सः ॥
ततो ऽनुगम्यमानो ऽसौ बलाहकनिवेदितैः ।
सहस्रसंख्यैः क्षितिपैर् उल्लसच्छत्त्रचामरैः ॥
वैशम्पायनम् एकत्र पार्श्वे श्वेताश्ववर्तिनम् ।
अन्यत्र पत्रलेखां च पश्यन्न् अश्वरतीस्थिताम् ॥
तस्मिन्न् अहनि स स्तोकं प्रस्थायोच्छ्रिततोरणम् ।
चित्रं निवासम् अध्यास्त सिप्राकूले प्रकल्पितम् ॥
अथापरेद्युर् उत्थायाशेषाभरणभूषितः ।
प्रावर्तत प्रबन्धेन प्रस्थातुम् अतुलोद्यमः ॥
पीडयन्न् अथ सैन्येन पातालतलवासिनः ।
रजसा च तदुत्थेन स्थगयन् गगनस्थितान् ॥
नमयन्न् उन्नतान् भूपान् आनतान् परिपालयन् ।
अवशान् उत्खनन् कांश्चिद् उत्खातान् प्रतिरोपयन् ॥
विश्वासयन्न् अविश्वस्तान् संरक्षञ् छरणागतान् ।
दस्यून् उत्सादयन् दण्डैः साधून् संमानयन् धनैः ॥
ब्राह्मणेभ्यो ददद् ग्रामान् कुर्वन् देवकुलावलीः ।
नवानि निजचिह्नानि तत्र तत्र प्रवर्तयन् ॥
वर्षत्रितयमात्रेण समग्रामर्णवावधिम् ।
स बभ्राम प्रबन्धेन मान्धातेव वसुंधराम् ॥
जिगाय प्रथमं प्राचीं दिशं तदनु दक्षिणाम् ।
ततः प्रतीचीं पश्चाच् च प्रतापनिधिरुत्तराम् ॥
अथ हेमजटाख्यानां किरातानां निकेतनम् ।
स सुवर्णपुरं जित्वा दण्डं जग्राह हेलया ॥
या च कैलाससीमान्तर्भूर्नितान्तमनोरमा ।
तस्यां दिग्विजयश्रान्तः कियतो ऽप्यास्त वत्सरान् ॥
एकदा तु स तत्स्थानाद् आरुह्येन्द्रायुधं वने ।
मृगयानिर्गतो ऽपश्यत् किंनर्या सह किंनरम् ॥
आलोक्य कौतुकाकृष्टदृष्टिरश्वमुखौ च तौ ।
आदित्सुः प्रेरयामास ताव् एव प्रति वाजिनम् ॥
अपूर्वपुरुषालोकत्रासात् कैलासकन्दरम् ।
प्रवेष्टुकामौ महता वेगेनानुससार तौ ॥
पार्ष्णिप्रहरणाभ्यासग्राहितोदग्ररंहसा ।
पञ्चयोजनमाना भूस् तेनाश्वेन व्यलङ्घ्यत ॥
तौ च पर्वतम् आरूढाव् अग्रतस् तस्य किंनरौ ।
ततस् तद्ग्रहणाकाङ्क्षां हृदयाद् उत्ससर्ज सः ॥
अशक्नोद् अनुसर्तुं च कश्चित् परिजनो न तम् ।
तार्क्ष्येणाप्य् अनुगम्येत धावन्न् इन्द्रायुधः कुतः ॥
अथ वल्गां समाकृष्य श्रमस्वेदार्द्रविग्रहम् ।
दृष्ट्वैकाकिनम् आत्मानं श्वसन्तं च तुरङ्गमम् ॥
निर्वर्णयंस् तम् उद्देशं मानुषाणाम् अगोचरम् ।
विहस्यैवात्मनात्मानं सानुतापम् अचिन्तयत् ॥
अहो किम् अपि मे मौर्ख्यम् अस्थानाभिनिवेशिनः ।
यद् आत्मा बालकेनेव व्यर्थम् आयासितो मया ॥
अगृहीतेन को वार्थः को ऽर्थः प्राप्तेन वामुना ।
किंनरद्वितयेनेति मया मूढेन नेक्षितम् ॥
पन्था निरूपितो नायम् आविष्टेनेव धावता ।
न चात्र लभ्यते मर्त्यो मम मार्गस्य देशिकः ॥
श्रूयते किल वर्षस्य भारतस्यावसानभूः ।
कैलाससंनिकृष्टेयम् इह मर्त्यस्य का कथा ॥
वने पर्णतृणाकीर्णे पादमुद्राश् च वाजिनः ।
न स्युर् यदनुसारेण यास्यामि शिबिरं निजम् ॥
केवलं दक्षिणाम् आशां पुरस्कृत्य यथातथा ।
गन्तव्यं किं तु मध्याह्नसमयो ऽयम् उपस्थितः ॥
अनुभूतो ऽतिमात्रं च खेदस् तद् इह साम्प्रतम् ।
लब्ध्वा कुतो ऽप्य् अपस्ताभिर् यास्यामि विगतश्रमः ॥
इति संचिन्त्य पानीयम् अन्वेषितुम् इतस् ततः ।
परिभ्रमन् घनस्निग्धं शाखिनां खण्डम् ऐक्षत ॥
ततस् तदनुकूलेन पथा गच्छन् समीरणैः ।
आह्लाद्यत नवोत्फुल्लकमलामोदवाहिभिः ॥
मत्तद्विपपदासक्तमृणालदलदन्तुरम् ।
स पन्थानम् अथापश्यद् अम्भसाम् अनुमापकम् ॥
तेन गत्वागखण्डस्य मध्ये जलधिसंनिभम् ।
अदृष्टपारपर्यन्तम् आलुलोके महत्सरः ॥
तदालोकनमात्रेण दूरादपगतक्लमः ।
प्राप्य तत्पुलिनोपान्तं वाजिनो ऽवततार सः ॥
कृत्वापनीतपर्याणं तं स्थलीलुठितोत्थितम् ।
गृहीतशाद्वलग्रासमाप्लुताधूतकेसरम् ॥
उत्तार्य सरसस्तीरतरौ संयम्य वाजिनम् ।
क्षिप्त्वासिधेनुलूनानि तृणान्येतस्य चाग्रतः ॥
स्वयं सस्नौ पपौ वारि बुभुजे बिसकन्दलीः ।
उत्तरीयशिरोधानो निषसाद शिलातले ॥
ततो मुहूर्तविश्रान्त उत्तरस्मिन् सरस्तटे ।
समुच्चरन्तं शुश्राव गीतध्वनिम् अमानुषम् ॥
तस्यां दिशि दृढासक्तचक्षुर् उत्क्षिप्तकन्धरः ।
तम् आदौ निबिडश्रोत्रशुक्तिर् इन्द्रायुधो ऽशृणोत् ॥
कुतो ऽत्र विजने गीतम् इत्य् आविष्कृतकौतुकः ।
उत्थाय चन्द्रापीडो ऽथ ताम् एव दिशम् अभ्यगात् ॥
गीतश्रवणलुब्धेन सलीलम् अभिधावता ।
अपृष्टेनापि मार्गो ऽस्य मार्गेणैव न्यवेद्यत ॥
गत्वा प्रासादम् ऐक्षिष्ट स्फाटिकं नातिदूरतः ।
हसन्तम् इव कैलासशोभाविभवमंशुभिः ॥
देवं चतुर्मुखं तत्र रत्नपीठप्रतिष्ठितम् ।
भगवन्तम् उमाकान्तं ददर्श प्रणनाम च ॥
तस्याथ दक्षिणां मूर्तिम् आश्रित्य विहितासना ।
उत्सङ्गनिहितां वीणां वादयन्ती कलस्वनम् ॥
देहप्रभावितानेन कुन्दगौरेण सर्पता ।
साक्षाल् लक्ष्मीर् इव क्षीरजलधेर् मध्यवर्तिनी ॥
कोपाग्निशमितानङ्गप्रत्युज्जीवनवाञ्छया ।
रतिः प्रसादयन्तीव तपसा पार्वतीपतिम् ॥
नवे ऽपि वयसि प्राप्तवैराग्याभ्यासवासना ।
व्यलोकि कन्यका तेन धृतपाशुपतव्रता ॥
चन्द्रापीडो ऽथ तां दृष्ट्वा विस्मयाविष्टमानसः ।
केयं स्यात् कन्यका नास्या दिव्यतां प्रति संशयः ॥
नान्तर्धानम् इयं गच्छेन् न वा गगनम् उत्पतेत् ।
न मौनम् अवलम्बेत मर्त्यसंदर्शनेन वा ॥
इत्यादि चिन्तयन्न् आस्त स्तम्भाच्छादितविग्रहः ।
गीतावसानसमयप्रतीक्षणपरायणः ॥
साथ गीतं समापय्य विनिधाय च वल्लकीम् ।
प्रणम्य चन्द्रचूडाय चन्द्रापीडम् अभाषत ॥
अतिथे स्वागतं ते ऽस्तु सौम्य विश्रम्यताम् इह ।
प्राप्तो ऽसि स्वाम् इमां भूमिम् इत आगम्यताम् इति ॥
चन्द्रापीडस् तद् आकर्ण्य बह्व् आत्मानम् अमन्यत ।
व्रजन्तीम् अनु वव्राज देवतावत् प्रणम्य ताम् ॥
विवेश नातिदूरे ऽथ निजाश्रमगुहाम् असौ ।
स्थिताजिनकुशालाबुपात्रदण्डकमण्डलुम् ॥
तत्र दर्भासनासीनम् उपविष्टा मृगाजिने ।
पप्रच्छ चन्द्रापीडं सा स्वरूपागमनादिकम् ॥
स तु सर्वं यथावृत्तमाचचक्षे सविस्तरम् ।
सा च विज्ञातवृत्तान्ता निर्जगाम ततो बहिः ॥
गृहीतभिक्षापात्रा च क्षणम् आस्त तरोर् अधः ।
आपूर्यत स्वयं शीर्णैः फलैस् तद् अमृतोपमैः ॥
ततस् तदुपयोगाय चन्द्रापीडं न्ययुङ्क्त सा ।
अन्वतिष्ठद् वचस् तस्याः स च विस्मयमानधीः ॥
तस्मिन्न् अथ कृताहारे गिरिप्रस्रवणान्तिकम् ।
गत्वा सापि फलाहारप्रक्रियामात्रम् आचरत् ॥
आगत्य च पुनस् तस्मिन्न् उपविष्टा मृगाजिने ।
तारापीडोज्जयिन्यादिकथया क्षणम् आस्त सा ॥
अपि नाम स्ववृत्तान्तं मद्वद् एषापि वर्णयेत् ।
पृष्टेत्य् एवं क्षणं दध्यौ चन्द्रापीडः सकौतुकः ॥
दृष्ट्वा चास्याः प्रशममधुराम् आकृतिं भावशुद्धिं दाक्षिण्यं च प्रकृतिसरलं लब्धवाक्यावकाशः ।
आत्मोदन्तं नियतम् अखिलं वक्ष्यति प्रार्थितेयं चन्द्रापीडः क्षणम् अथ कृतप्रश्नसम्प्रत्ययो ऽभूत् ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0