ज्ञानालोकालंकारसूत्र · अध्याय 2
§5 म्स्. 3ब्3-4अ2, प्. 304अ5-304ब्5, द्. 278अ3-278ब्3, त्. 357 240अ14-240अ26, त्. 358 250च्23-251अ5, त्. 359(द्) 254च्12-254च्27.
अथ खलु भगवान् उत्थाय पूर्वकाद् आसनात् तत्र महारत्नपद्मगर्भे सिंहासने निषद्य पर्यङ्कंबद्धी सर्वावन्तं बोधिसत्त्वगणं स्ववलोकयति स्म । सामुत्कर्षिकायाश् च धर्मदेशनायास् तेषां बोधिसत्त्वानां महासत्त्वानां निमित्तम् अकार्षीत् ।
तेन खलु पुनः समयेन सर्वावान् बोधिसत्त्वगण एवं चिन्तयति स्म । यन् न्व् अयं मञ्जुश्रीः कुमारभूतो ऽनुत्पादानिरोधं तथागतम् अर्हन्तं सम्यक्संबुद्धं परिपृच्छेत्, चिरश्रुतो ऽयम् अस्माभिर् धर्मपर्याय इति ।
अथ खलु मञ्जुश्रीः कुमारभूतो भगवतो ऽन्तिकान् निमित्तं विदित्वा तेषां च बोधिसत्त्वानां महासत्त्वानां चेतसैव चेतःपरिवितर्कम् आज्ञाय भगवन्तम् एतद् अवोचत् । अनुत्पादो ऽनिरोध इति भगवन्न् उच्यते, कतमस्यैतद् भगवन् धर्मस्याधिवचनम् अनुत्पादो ऽनिरोध इति ।
इमाश् च गाथा अभाषत् ।
अनिरोधम् अनुत्पादं ब्रवीषि त्वं विनायक ।
तत् कीदृशं महाप्राज्ञ तस्य निरुक्तिलक्षणम्
अनिरोधम् अनुत्पादं कथम् एष निगद्यते ।
दृष्टान्तैर् हेतुभिश् चैव कथयस्व महामुने
समागतेमे बहुबोधिसत्त्वा ज्ञानार्थिनः त्वां च विभो ऽभिवन्दितुम् ।
संप्रेषिता लोकविनायकेभिर् देशेहि सद्धर्मम् उदारम् उत्तमम्
मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0