भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानालोकालंकारसूत्र · अध्याय 1

1.1

इ
§1 म्स्. 1ब्1-2अ1, प्. 301ब्6-302ब्1, द्. 276अ1-276ब्1, त्. 357 239अ5-239अ26, त्. 358 250अ14-250ब्4, त्. 359(द्) 253च्20-254अ14.
नमो बुद्धाय ॥ एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटे पर्वते ऽनन्तरत्नशिखरे धर्मधातुगर्भे प्रासादे महता भिक्षुसंघेन सार्धं पञ्चविंशतिभिर् भिक्षुसहस्रैः । सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिप्राप्तैः । आज्ञातकौण्डिन्यप्रमुखैश् चाष्टषष्टिभिर् महाश्रावकैः, द्वासप्ततिभिर् बोधिसत्त्वकोटीनियुतशतसहस्रैः । तद्यथा मञ्जुश्रिया कुमारभूतेन, धनश्रिया च बुद्धिश्रिया च भैषज्यराजेन च भैषज्यसमुद्गतेन च बोधिसत्त्वेन महासत्त्वेन । सर्वैर् अवैवर्तिकधर्मचक्रप्रवर्तकैः, सर्वै रत्नकूटवैपुल्यसूत्रपरिपृच्छाकुशलैः, धर्ममेघभूमिप्रतिलब्धैः, सुमेरुभूतैः प्रज्ञया, सर्वैः शून्यतानिमित्ताप्रणिहितानुत्पादाजाताभावधर्मपरिभावितैः, महागंभीरधर्मनिर्भासैः, ( जाअ 20 ) तथागतेर्यापथैः, अन्योन्यलोकधातुषु तथागतकोटीनियुतशतसहस्रसंप्रेषितैः, सर्वैर् अभिज्ञापरिकर्मनिर्जातैः सर्वधर्मस्वभावप्रकृतिप्रतिष्ठितैः ॥
§2 म्स्. 2अ1-7, प्. 302ब्1-302ब्8, द्. 276ब्1-276ब्7, त्. 357 239ब्1-239ब्15, त्. 358 250ब्4-250ब्13, त्. 359(द्) 254अ15-254अ26.
तेन खलु पुनः समयेन भगवत एतद् अभूत् । यन् न्व् अहं बोधिसत्त्वानां महासत्त्वानां महाजवबलवेगस्थामसंजननार्थं धार्मीं कथां कथयेयम्, यद् गङ्गानदीवालिकासमेभ्यो लोकधातुभ्यो महौजस्कमहौजस्कान् बोधिसत्त्वान् महासत्त्वान् संनिपातेयम् । यन् न्व् अहं महाधर्मनिर्देशस्य परिदीपनायै निमित्तम् आदर्शयेयम्, महान्तम् अवभासं कुर्याम् । यन् मे बोधिसत्त्वा महासत्त्वा आगत्य महाधर्मनिर्देशं परिपृच्छेयुर् इति ।
अथ खलु भगवांस् तस्यां वेलायां दशसु दिक्ष्व् असंख्येयाचिन्त्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमं लोकधातुं महारश्मिमेघैर् अवभासयति स्म ।
तेन खलु पुनः समयेन दशभ्यो दिग्भ्य एकैकस्माद् दिग्भागाद् दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा आगच्छन्ति स्म । ( जाअ 21 ) तेषाम् एकैको बोधिसत्त्वो महासत्त्वो ऽचिन्त्याभिर् बोधिसत्त्वविकुर्वणाभिर् आगत्य भगवतो ऽनुरूपाम् अचिन्त्यां पूजां कृत्वा स्वकस्वकप्रणिधानबलनिर्जातेषु पद्मासनेषु भगवतः पुरतो न्यषीदन् । भगवन्तम् अनिमिषं निरीक्षमाणा स्थिता अभूवन् ॥
§3 म्स्. 2अ7-3अ5, प्. 302ब्8-303ब्8, द्. 276ब्7-277ब्6, त्. 357 239ब्16-240अ1, त्. 358 250ब्14-250च्9, त्. 359(द्) 254अ26-254ब्28.
तेन खलु पुनः समयेन धर्मधातुगर्भे प्रासादमध्ये महारत्नपद्मगर्भसिंहासनं प्रादुरभूत् । असंख्येययोजनकोटीविस्तारम्, अनुपूर्वसमुच्छ्रितम्, सर्वप्रभासमणिरत्नमयम्, विद्युत्प्रदीपम्, मणिरत्नवेदिकापरिवृतम्, अचिन्त्यप्रभासमणिरत्नदण्डम्, अनुपममणिरत्नपरिवारम्, अनुपमातिक्रान्तप्रभावमणिरत्नदामकृतशोभम्, वशिराजमणिरत्नजालसंछन्नम्, नानामणिरत्नप्रत्युप्तम्, समुच्छ्रितच्छत्रध्वजपताकम् । तस्य च महामणिरत्नपद्मगर्भसिंहासनस्योपरि समन्ताद् दशासंख्येयानि रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । ते च रश्मयो दशसु दिक्ष्व् अन्योन्यान् लोकधातून् महतावभासेन स्फरन्ति स्म ।
तेन खलु पुनः समयेन दशदिश्य् एकैकस्माद् दिग्भागाद् दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपाला आगच्छन्ति स्म । तत्र केचिद् रत्नकूटागारनिषण्णासंख्येयाचिन्त्याप्सरःकोटीनियुतशतसहस्रसंगीतिसंप्रवादितैर् ( जाअ 22 ) आगच्छन्ति स्म । केचित् पुष्पमयैः, केचिद् उरगसारचन्दनमयैः, केचिद् मुक्तामयैः, केचिद् वज्रमयैः, केचिद् वज्रप्रभासमणिरत्नमयैः, केचिज् जाम्बूनदसुवर्णमयैः, केचित् सर्वप्रभाससमुच्चयमणिरत्नराजमयैः, केचिद् वशिराजमणिरत्नमयैः, केचिच् चिन्तामणिरत्नमयैः, केचिच् छक्राभिलग्नमणिरत्नमयैः, केचित् सागरप्रतिष्ठानविशुद्धरत्नव्यूहसमन्तरश्मिप्रभामणिमहारत्नमयकूटागारनिषण्णासंख्येयाचिन्त्याप्सरःकोटीनियुतशतसहस्रसंगीतिसंप्रवादितैर् आगच्छन्ति स्म । आगत्य च भगवतो ऽचिन्त्यातुल्यामाप्यां परिमाणाभिक्रान्तां पूजां कृत्वा, एकान्ते स्वप्रणिधाननिर्जातेष्व् आसनेषु निषीदन्ति स्म । निषीद्य भगवन्तम् अनिमिषं निरीक्षन्तः स्थिता अभूवन् ।
तेन खलु पुनः समयेनायं त्रिसाहस्रमहासाहस्रो लोकधातुर् जाम्बूनदसुवर्णमयः संस्थितो ऽभूत् । नानामहामणिरत्नवृक्षैर् दिव्यैः पुष्पवृक्षैर् वस्त्रवृक्षैर् उरगसारचन्दनगन्धवृक्षैर् अलंकृतः, चन्द्रसूर्यविद्युत्प्रदीपमणिरत्नजालसंच्छन्नः, उच्छ्रितच्छत्रध्वजपताकः । सर्ववृक्षाश् चासंख्येयाप्सरःकोटीनियुतशतसहस्रार्धकायिका मुक्ताहारपरिगृहीता महामणिरत्नदामपरिगृहीताः स्थिता अभूवन् ॥
इइ
§4 म्स्. 3अ5-3ब्3, प्. 303ब्8-304अ5, द्. 277ब्6-278अ3, त्. 357 240अ2-240अ13, त्. 358 250च्9-250च्22, त्. 359(द्) 254ब्29-254च्11.
तेन खलु पुनः समयेन ततो महामणिरत्नपद्मगर्भात् सिंहासनाद् इमा गाथा निश्चरन्ति स्म ।
आगच्छ निषीद नरेन्द्रराजा अहं हि ते पुण्यबलेन उद्गतः ।
संपूर्णसंकल्प अहं त्वम् अद्य संधारयिष्ये द्विपदोत्तमं जिनम्

1.2

ममात्मभावो रतनामयो ह्य् अयं रत्नैकपद्मं मम मध्यसंस्थितम् ।
मनोरमं तुभ्य कृतेन नायकाः संकल्प पूरेहि ममाद्य तायिनः

1.3

निषद्य रत्नामयि पद्मि अस्मिं शोभेहि मां सर्वम् इमं च लोकम् ।
देशेहि धर्मं बहुप्राणिकोटिनां यं श्रुत सिंहासन ईदृशं लभेत्

1.4

रश्मी सहस्रा तव गात्रसंभवाः प्रभासयन्तो बहुलोकधातुम् ।
प्रामोद्यजातस्य हि लक्षणं इमं समाक्रमा मह्य कृतेन नायकाः

1.5

क्षिप्रं निषीदस्व कुरुष्व ऽनुग्रहं पूर्वं मया धारित अष्टकोटियः ।
अस्मिन् प्रदेशे मुनिनां स्वयंभुवां भगवन् पीहाद्य करोत्व् अनुग्रहम्

मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc