जातकमाला · श्लोक 82-8
................. ........................ ॥
................................... ।
किं नाम ततः परं दुःखम्
रुद्धोच्छ्वासस्य भृशं कृमेर् इवामेध्यपङ्कमग्नस्य ।
या गर्भस्थस्य दशा किं नाम ततः परं दुःखम्
कायावस्करनिर्झरविवरे निष्पिष्यमाणदेहस्य ।
या प्रसवस्थस्य दशा किं नाम ततः परं दुःखम्
तस्माज् जातिं दुःखं जातिजराव्याधिमरणनिर्मुक्ताः ।
कथयन्ति कथिकवरा जिना जितकथंकथाबीजाः
अपि चायुष्मन्तः
रागो ऽनैकविधो जरा परिभवो भोगार्जना रक्षणा
प्रध्वंसव्यसनं महात्ययम् असत्संपर्कजं वैकृतम् ।
इष्टानिष्टवियोगयोगसुलभास् ते ते मनोविप्लवा
जातिं प्राप्य यतो भवन्ति जगतः सैवेह दुःखं ततः
आत्मार्थप्रतियोगिनी भगवतां येषां क्रिया सर्वदा
सर्वाकारपरोपकारमधुरा येषां समुत्पत्तयः ।
श्लाघ्या जातिर् अचिन्त्ययोगमहतां तेषां जगच्चक्षुषां
जन्म स्वार्थपरस्य तु क्षणिकम् अप्य् आपायिकी विप्लुतिः
तस्माद् ब्रूमहे ।
संबोधये कुरुत वा स्थिरम् अप्रमादं तूर्णं घटध्वम् अथ वा भवसंक्षयाय ।
एतद् द्वयं तु विरहय्य विशन्त्य् अकामा भीमान्य् अपायवडवामुखगह्वराणि
यत्नेन चेद् उभयम् एतद् अवाप्नुवन्ति यत्नः फले महति युक्ततरो मतो मे ।
छिद्रं वराटकम् अवाप्य सुधापि किं स्याच् चिन्तामणेर् अधिगमाय वरं श्रमो ऽपि
मां प्रत्य् अतश् च विफलो ऽपि वरं प्रयासः साधोर् महाजनहितावहिताशयस्य ।
इच्छाविशेषविषयस्य पराक्रमस्य प्रस्थानम् एव महतीं रतिम् आदधाति
साधारणानि दयितैः सह पेलवानि आमोदयन्ति सुतरां हृदयं सुखानि ।
पीडाकराणि महतां समुपस्थितानि प्राकर्षिकान्य् अपि सुखानि तु यौतकानि
खद्योतानां जनयति यथा देहसद्भावमात्रं
दीप्तिर् नासौ स्फुरति जगतां – ⏑ – – ⏑ – – ।
एवं स्वार्थप्रणयमलिनज्ञानलेशाशयानाम्
अर्थावाप्तिर् विनयनकृशा नास्ति सातुल्यरूपा
आज्ञां शिरोभिर् अथ ते प्रतिगृह्य तस्य मानाभिमानमृदुभिर् मुनिसत्तमस्य ।
धर्मैकतानमनसः प्रथयां बभूवुः कीर्तिं शरत्कुमुदिनीधवलां समन्तात्
इति ऋषिपञ्चकजातकम् ॥
12. सप्तकुमारिका
ओं नमो रत्नत्रयाय ॥
वैराग्ययुक्तं च सुभाषितं च धर्मार्थकामप्रतिबोधनं च ।
एकान्तरम्यं बहुसज्जनानां वक्ष्यामि किं चिच् छृणुतावदानम्
एवम् इदं भ्राजेत् परिपक्वकुशलमूलानां महान्तो ऽपि भोगा यौवनं वा नालम् अन्तरायायेति ।
तद्यथानुश्रूयते ।
नयविनयादिगुणश्रीसमृद्धो राजाभूत् कृकी नाम । स च भगवति काश्यपे सम्यक्संबुद्धे समुपजातप्रसादः । तस्य राज्ञः सप्त कुमार्यः पूर्वबुद्धोत्पादसंनिरोपिताभिवृद्धकुशलमूलबलाधानाः समुपजातसंसारवासनिर्वेदास् ताः सविनयोपचारं मधुरेण वचसा प्रणिपत्य पितरम् अब्रुवन् ।
तोयान्तर्गतचन्द्रबिम्बतरलाम् आलोक्य लोकस्थितिं
कामान् क्रुद्धभुजङ्गभोगपटलच्छायोपमान् वीक्ष्य च ।
दृष्ट्वा दुःखहुताशनैर् जगद् इदं कृत्स्नं च संदीपितं
नैष्क्रम्याभिरताशयाः खलु वयं यामः श्मशानं नृप
राजोवाच ॥
बालाः सुखोचिता यूयम् अकृतार्थमनोरथाः ।
कथं शक्नोम्य् अहं वक्तुम् आश्रयध्वं तपोवनम्
कन्यका ऊचुः ।
जानीमहे क्षितिपते भवतो जने ऽपि स्नेहार्द्रपेशलरसाभिनिवेष्टितानि ।
अस्मासु किं पुनर् अकारणवत्सलस्य स्वाङ्के विवृद्धिम् अनघां समुपागतासु
युष्मद्विधैर् अपि सहाभिमुखो वियोगो येनैव नो नृप निरत्ययशुद्धभावैः ।
तेनैव शान्तिपदम् आप्तुम् इयं मनीषा मा भूत् पुनः पुनर् अयं व्यसनोपतापः
अथ स राजा स्नेहवशाद् वितानीभूतहृदयो निश्चलाभिताम्रनयनयुगलः पुनः पुनस् ताः कन्यकाः समभिवीक्ष्योवाच ॥
आस्तीर्णकोमलविचित्रकुथोदरेषु स्वैरं विहृत्य भवनेषु कथं भवत्यः ।
स्प्रक्ष्यन्ति दुर्जनमनोविषमां श्मशानभूमिं सितास्थिशकलप्रकरोत्तरीयाम्
स्नेहोन्मुखं पितरम् एकपदे कथं वा शोकाश्रुदुर्दिनमुखीं जननीं च हित्वा ।
अम्लानसौहृदनिरन्तरमानसांश् च त्यक्त्वा कथं नु सुहृदस् तपसे रमध्वम्
अथ ताः कन्यका निरतिशयधैर्यावष्टम्भगल्भं पितरम् ऊचुः ।
माता पिता सुहृद् इति व्यवहारमात्रम् एतत् पुनर्भवनिपातविघातभाजाम् ।
भूतार्थदर्शनपरोक्षमलीमसानां लोको वृथा नरपते परिखेदम् एति
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0