भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 50-1

50

कृत्वा भग्नां प्र ति कृतिम् ऋषेर् अङ्गना कन्दुकेन
प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् ।
पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं
किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम्

51

उद्यन् दर्शनम् उच्छिनत्ति सविता नक्तंचराणां यथा
नॄणां ध्वान्तम् अपाकरोत्य् अविरलं रूपोपलब्ध्यै करैः ।
दोषस् तत्र न भास्करस्य भगवद्द्विष्तप्रसन्नात्मनां
बुद्धो ऽप्य् एवम् अपुण्यपुण्यनिचयः सामान्यनाथो ऽपि सन्

52

इति ताव् उपासकौ बुद्धगुणमाहात्म्यकीर्तनम् ।
कृत्वा परस्परं सत्त्वं पवित्रीकृत्य जग्मतुः

53

एवं मत्वा महाराज संबुद्धे सद्गुरौ मुदा ।
श्रद्धया सत्कृतिः कार्या नापकृतिः कथं चन

54

शास्तर्य् अवज्ञामलिनाशयानां भूमिर् विदारं न ददाति सद्यः ।
बुद्धप्रसादद्रवचेतसां वा न जायते रत्नमयी विचित्रं

55

को ऽप्य् एष कर्मान्तरसंनिरोधः पुण्यप्रभावातिशयो विचित्रः ।
कर्माणि यत् पात्रविशेषजानि सद्यो न नॄणां फलम् उद्वमन्ति

56

तस्यैव कापीयम् ऋषेर् अचिन्त्या विभूतिर् आवेणिकयोगसाध्वी ।
येनात्र कृत्वापि मनःप्रदोषं सद्यो न पातालतलं विशन्ति

57

तल् लोकानाम् अमृतफलदे जङ्गमे पुण्यवृक्षे
कार्या भक्तिर् भगवति जिने निर्जितान्तःसपत्ने ।
निक्षिप्याशां विषयगहनव्रातविष्वग्विषक्तां
यावन् नेदं भवति भुवनं बुद्धकान्तारघोरम्

58

उत्पद्यन्ते जगति न सदा नापि सर्वत्र बुद्धाः
सर्वाकारापरतवितथग्राहनिद्राप्रसङ्गाः ।
कश् चित् कल्पः प्रभवति चिरात् पुण्यसंभाररम्यो
यत्रोत्पादो भवति भुवनस्वामिनां भूतभूत्यै

59

यातस्यापि प्रशान्तिं भवपुरपरिखां जालिनीं शोषयित्वा
यावत् संबुद्धभानोः प्रवचनकिरणा लोकम् उद्भावयन्ति ।
तावत् पश्यन्तु सन्तः समविषमवतां दुर्विभागप्रभेदान्
लोके दुर्दृष्टिमेघा विपदशनिमुखा दुर्निवाराः स्फुरन्ति

60

एवं मे गुरुणाख्यातं तथा ते कथ्यते मया ।
तद् एवं हि परिज्ञाय कर्तव्यं भजनं मुनेः

61

ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् ।
निःक्लेशाः सबलान् माराञ् जित्वा यान्ति जिनालयम्

62

ये च शृण्वन्ति सद्धर्मं ते ऽपि न यान्ति दुर्गतिम् ।
सर्वदा सत्सुखं भुक्त्वा यान्ति चान्ते सुखावतीम्

63

ये ऽर्चयन्ति मुदा संघान् न ते ऽपि यान्ति दुर्गतिम् ।
सर्वसत्त्वहितं कृत्वा संप्रयान्ति शुभालये

64

एवं मत्वा महाराज त्रिरत्नशरणं गतः ।
सर्वसत्त्वहितं कृत्वा संवृतिं संप्रचारय

65

तेन ते सर्वदा भद्रम् इहामुत्रापि संभवेत् ।
क्रमाद् बोधिं समासाद्य निर्वृतिं वा समाप्नुयाः

66

इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर् मुदा ।
तथेति संप्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः

67

पुण्यराश्यवदानं तद् इदं ये श्रद्धया मुदा ।
श्रावयन्त्य् अनुमोदन्ते शृण्वन्ति च समाहिताः

68

सर्वे ऽपि ते महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
सद्धर्मगुणसौख्यानि भुक्त्वा यान्ति जिनालयम्

1

॥ श्री ॥ इति पुण्यराश्यवदानं समाप्तम् ॥ 13 ॥
11. ऋषिपञ्चक
मूलं मलानां प्रवदन्ति जातिं जातिप्रपञ्चोपशमप्रवीणाः ।
तथागताश् चावितथप्रतिज्ञाः संभोधिसत्त्वाश् च विशुद्धसत्त्वाः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc