भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 62-81

62

प्रक्षालयन्ति मुनयो न जलेन पापं हस्तेन नाप्य् अपहरन्ति जनस्य दुःखम् ।
संचारयन्त्य् अधिगमं न परत्र च स्वं धर्मान् वदन्ति तु सुखप्रतिपत्तिसाध्यान्

63

अथ स क्रमेण कालगतो भरुकच्छे प्रोषितभर्तृकाया नार्याः कुक्षौ जन्म प्रतिसंदधे । कालान्तरेण च गर्भाद् अभिनिष्क्रान्तः । माता चैनम् अभिवीक्ष्य पुत्रस्नेहम् अनादृत्यापवादभयाशङ्किनी किम् अपि किम् अपि तपस्विनी विललाप । अनुनीयमानापि च समानसुखदुःखाभिः सखीभिर् असहमाना तनयवियोगव्यसनं तम् अतिमनोहरात्मभावं बालकम् अङ्के कृत्वा बाष्पवेगोपरुध्यमानस्खलितवचसा नियतम् ईदृशं किं चिद् अवोचत् ।
जाते पुत्रे भवन्ति प्रमुदितहृदया मातरो जीवलोके
दृष्ट्वा वंशस्य लक्ष्मीम् अनुपरतरसाम् उन्मिषन्तीं समन्तात् ।
आनन्दान्दोलितानां भवति स दिवसो बान्धवानाम् अदीर्घो
जातः शोकाय तु त्वं मम तनय कथं मन्दभाग्योदयायाः

64

दुर्वृत्ताया मम तद् अधुना कर्मणा प्रेरितस् त्वं
भुङ्क्ष्वासह्यं व्यसनम् अथवा स्वस्य दुश्चेष्टितस्य ।
एते ऽन्ये च व्यसननिवहा मूर्ध्नि तेषां स्फुरन्ति
त्यक्त्वा लज्जां सुजनदयितां ये प्रमादं भजन्ते

65

खाद्यमानपरिकोमलच्छविस् तीक्ष्णतुण्डनखरैः पतत्रिभिः ।
पुत्र दुर्नयफलानि भोक्ष्यसे मातुर् अद्य परिमाणवर्तकः

66

धिग् धिग् अस्तु परिणामदारुणां सङ्गिनां रतिम् अपूर्ववाहिनीम् ।
अध्यवस्यति ययाभिभूतधीर् ईदृशान्य् अपि जनो हतत्रपः

67

कष्टम् आयतविषादभीषणे संकटे मम विवर्तते मनः ।
यत्र लोकरवभीतया मया पुत्रक त्वम् अटवीं निपात्यसे

68

दारुणं बत बिधेर् विचेष्टितं दुष्करं खलु मया समीहितम् ।
किं करोमि शरणं व्रजामि कं पुत्र शोकशरताडिताशया

69

हा हतास्मि विघृणेन चेतसा कामदोहदपथानुपातिना ।
यत् सुदुष्करम् इदं करिष्यते वैशसं विहतलज्जया मया

70

भूर् इयं किम् इति नावदीर्यते नारकः क्व नु स हव्यवाहनः ।
यो न निर्दहति पापकारिणीं कक्षमुष्टिम् इव मां हतत्रपाम्

71

विततशिखिकलापोद्भासुरालोकजालं निपतति मम वज्रं सांप्रतं किं तु मूर्ध्नि ।
सुतम् अकरुणचित्ता याहम् एवं त्यजामि स्तनरसपरिभोगक्लीबवक्त्रारविन्दम्

72

इत्य् एवम् अन्यथा च तस्या विलपन्त्याः किंचिच्छेषा रजनी बभूव । सा परिचारिकाम् अब्रवीत् । ज्ञायतां तावद् भद्रे किम् अवशेषं निशाया इति । साब्रवीत् । स्वामिनि संप्रति हि
अरुणकिरणमालापाटलोपान्तलेखं प्रविरलतरतारं खं परावृत्तचन्द्रम् ।
पुलिनम् इव पयोधेर् विद्रुमक्षोदताम्रं परिमुकुलपलाशस्वस्थसंसुप्तहंसम्

73

सा प्रोवाच ।
इमं हृदयसंतापं दीर्घकालानुषङ्गिनम् ।
दुर्जातं मम मन्दाया गच्छ च्छोरय बालकम्

74

इत्य् उक्त्वा सा बाष्पवेगोपरुध्यमानहृदया पृथिव्यां सहसा निपपात । परं च संमोहम् उपजगाम ।
सा तथेति प्रतिश्रुत्य तम् आदाय तपस्विनम् ।
उपहारम् इवापूर्वं विचिक्षेप महापथे

75

पुत्रक्रौर्यं विवृतम् अशिवं जन्मदुःखोपतप्तं
भर्तृस्नेहः चिरपरिचयाद् बद्धमूलो न दृष्टः ।
दग्धं वंशद्वयम् अपि मया दुर्नयाङ्गारवर्षैर्
हा कामानां प्रकृतिर् असती सर्वदुःखप्रसूतिः

76

नासौ रुरावामुषितस्मृतित्वाच् चुकोप मात्रे न च तत्त्वदर्शी ।
दृष्ट्वा तु ताम् आत्मगताम् अवस्थां स्वम् एव चित्तं विनिनिन्द बालः

77

नायं जनन्या मम कामचारो न चानिमित्तं व्यसनं ममेदम् ।
स्वयं कृतानि व्यसनान्य् अमूनि त्वयैव मे चित्त विमुञ्च दैन्यम्

78

अनार्य तां चित्तकले प्रतार्य प्रगाढदुःखोदयदारुणेषु ।
भवोपभोगेष्व् अधुना विषादं किम् एव मोहाद् असमीक्ष्यकारिन्

79

हितैषिणस् तस्य वचो ऽवधीर्य त्वम् अज्ञ निर्दग्धपुनर्भवस्य ।
बिभेषि दुःखाद् अधुना किम् एवं स्वकर्मनिर्माणम् इदं तवैव

80

न पूजयन्ति प्रतिपत्तिभिर् ये गिरो गुरूणाम् अनुकम्पकानाम् ।
इमानि चान्यानि च ते लभन्ते विषादनीनां विपदां शतानि

81

यथा यथा तीव्रद्वन्द्वोपनिपातजानि दुःखान्य् अनुभवति स्म तथा तथा सुतराम् उपजायमानसंवेगः साश्रुकण्ठ एव शुशोच विक्लवात्मा तपस्वी ।
प्रविरलतृणच्छन्नश्वभ्रप्रपातभयंकरान्
मम गुरुर् असौ त्यक्त्वा यातो भवाब्धिकदुर्भवान् ।
तनुसुखलवक्लिष्टात्मानो वयं तु हतत्रपा
भवजलनिधेर् दृष्ट्वाप्य् अन्तं पुनर् निधनं गताः

62

कठिनोपलशर्कराकरालेष्व् अनलप्लुष्टतृणाचलद्रुमेषु ।
मरणाशनिसंनिपातभीताः गिरिदुर्गेष्व् अपरायणा वसामः

63

रजसापि विरूक्षितात्मभावाः परुषैश् चोपहता गदप्रहारैः ।
महतीम् अपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः

64

हरिणो हरिणेव बन्धुमध्याद् अभिभूय प्रसभं विकृष्यमाणः ।
अविखण्डितपौरुषेण मृत्युद्विषता दुःखम् अयं परैति लोकः

65

परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्य् उदन्वतीनाम् ।
अनवाप्तजला मृगारिभीता वयम् उत्प्लुत्य दिशो दिशं व्रजामः

66

देशे देशे वयम् अशरणा व्याधम् उद्वीक्ष्य हिंस्रं
शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् ।
विन्ध्याटव्याम् अजगरदरीदारुणायाम् अनाथाः
शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः

67

तृणपुरुषकान् अप्य् आलोक्य द्रवन्ति मनांसि नो
न निशि न दिवा मृत्योर् भीताः सुखानि लभामहे ।
विततधनुषं दृष्ट्वा व्याधं कृतान्तम् इवापरं
न भवति भयत्रस्ताङ्गानां मनाग् अपि भोजनम्

68

तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः ।
हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः

69

स्थलीवासे तुष्टा नवजलतृणास्वादपटवः
सलीलं कान्ताभिः सह गमनविन्यासचतुराः ।
न लोकद्वेष्टारो न च न चकिता नापि भयदाः
प्रयत्नाद् वध्यन्ते तद् अपि हरिणा रौद्रमतिभिः

70

अटताम् अटवीष्व् अवारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् ।
वद कं नु समीक्ष्य वैरिभावं हरिणानाम् अपि विद्विषो भवन्ति

71

ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु ।
हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः

72

सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् ।
अवैमि मरणं तस्माद् उपसर्गदुरुत्तरम्

73

यतश् च ते महासत्त्वाः स्वं स्वं वादम् अभिनिविष्टा न कथापर्यवसानम् आसादयन्ति ततो बोधिसत्त्वम् उपेत्य न्यायतः प्रणम्येमम् अर्थम् ऊचुः । भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् । कस्य वास्माकं सुभाषितम् इत्य् अथैनान् स मुनिवर्यो ऽब्रवीत् ।
सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् ।
सर्वाण्य् एतानि दुःखानि रुजन्ति भुवनत्रयम्

74

अपि च भद्रमुखा ममाप्य् अभिप्रायः श्रूयताम् ।
अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते ।
आश्रमं मनसो दुःखम् इत्य् अवैमि ब्रवीमि च

75

स्पर्धमाना इवान्योन्यम् उपघ्नन्ति विदाहिनः ।
लोकान् एव निरालोकाञ् जन्मसंबन्धिनो मलाः

76

क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः ।
अपायफलसंधानदारुणं कर्मवैशसम्

77

व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः ।
भवन्ति करुणापात्रं पुरुषास् तत्त्वदर्शिनाम्

78

स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः ।
क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा

79

सर्वसत्त्वैर् विनाभावप्रवासो दीर्घकालिकः ।
भयम् आत्यन्तिकं हीदं मरणं सर्वदेहिनाम्

80

एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः ।
ते जातिम् अनुवर्तन्ते करुणाम् इव साधवः

81

मातापित्रोर् विप्रतिपत्तिं ................ ।
................. किं नाम ततः परं दुःखम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc