जातकमाला · श्लोक 41-60
किं च भूयः ॥
कलेर् आज्ञाभङ्गो भवति सुचिराज् जन्मसमये
मुनेर् यस्य प्राणिप्रियहितसमाधानविदुषः ।
जगन्नाथे तस्मिन् भगवति भवोपद्रवहरे
प्रदुष्टानां का वा भवतु गतिर् अन्या परम् अतः
उन्मीलिता इव दिशो दश यस्य दीप्तैः
कीर्त्यंशुभिर् घनतमःपटलावनद्धाः ।
तस्मिन् प्रदोषम् उपगच्छति यस् तपस्वी
स्वैर् एव कर्म भिर् असौ प्रहतः क्षतात्मा
यो मातेव पितेव बान्धव इव प्राणिष्व् अनुक्रोशवान्
आत्मस्नेहपराङ्मुखेन मनसा जन्माटवीगह्वरे ।
प्रज्ञावीर्यकृपाभ्युपायसचिवः क्लेशैर् अनाकम्पितः
प्राप्तो बोधिम् अनुत्तरां स भगवान् कां सत्क्रियां नार्हति
जगद्धिताधानविधानदीक्षां बभार शास्ता भृशदुर्वहां यः ।
मनःप्रसादायतने ऽपि तस्मिन् कथं नु चित्तानि विदूषयन्ति
असज्जनसमागमस्य कटुकावसानं फलं
नरेन्द्र समुपस्थितं तद् अधुना तवापायिकम् ।
इदं समनुचिन्त्य साधुजनसंगमः सेव्यतां
ततस् तव भविष्यति व्यसनपञ्जरान् निर्गमः
एवं गते ऽपि क्रियताम् प्रयत्नः पापप्रहाणे कुशलोदये च ।
अप्य् एव नाम व्यसनाम्बुराशेः स्यात् ते ऽवसानं नरलोकपाल
अनेकरूपव्यसनोपमृष्टां समुद्रवेलाजललोलशीलाम् ।
नरेन्द्रलक्ष्मीम् उपगुह्य पापं कृतं त्वया दुःखशतावसानम्
बहुप्रकारात्ययदारुणेषु विचार्यमाणाल्पसुखोदयेषु ।
विषज्य कामेषु मनस् त्वयात्मा स्वयं कृतो दुर्गतिदुःखसाक्षी
अभिसन्धिकृतस्य कर्मणो न हि नाशं प्रवदन्ति सूरयः ।
अपि कल्पसहस्रकोटिभिः फलदं तन् नियमेन जायते
अत एव जगौ जगद्वरो जगदालोककरः कृपामयः ।
भगवान् भवभोगनिःस्पृहः स हि कर्मस्वकतां शरीरिणाम्
सलिलानलराजतस्करैर् धनम् अत्रैव विलुप्यते नृणाम् ।
प्रभवन्ति तु तेन कर्मणा स्वम् अतः कर्म नृणां शुभाशुभम्
परिवर्तति निश्चलेक्षणः क्षणमात्रप्रतिबद्धजीवितः ।
मरणाभिमुखो यदा नरो ननु कर्मैव तदा परायणम्
स्वजनो जनवन् निवर्तने गृहवित्ताद्यपरैर् विलुप्यते ।
स्व कृतं त्व् अनुयाति देहिनां भवसंक्रान्त्यनुकूलवर्तिनाम्
अपि च हे महाराज ॥
मरणवशगतस्य जन्तोर् विवृद्धोल्बणश्वासशुष्कौष्ठकण्ठस्य
हिक्काप्रवेशानुबन्धाद् विनिर्धूयमानोरसः
कलविकलपदाक्षरे भाषिते विह्वले चक्षुषि च्छिद्यमानेषु
मर्मस्व् अनामन्त्र्य रोषाद् इव प्रस्थि तैर् वा युभिः ।
महति शिथिलतां गते सन्धिसंघातयन्त्रे रुजातीक्ष्णसूची-
निपातान्तरे क्वापि गन्तुं कृताभ्युद्यमे जीविते
तिमिरगहनसंकटं निर्जनं मार्गम् आक्रामतो नास्ति पुण्याद्
ऋते कश् चिद् अन्यः सखा तत् प्रयत्नं कुरु श्रेयसि
अपि च महाराज ॥
अवश्यं त्यक्तव्यः परमदयितो बान्धवजनः
प्रवेष्टव्यं घोरं सभयम् असहायेन गहनम् ।
प्रवासे वस्तव्यं सुचिरम् अपि चासंस्तुतजने
तद् अस्मात् कर्तव्यं बहुकुशलपाथेयम् असकृत्
अथ स राजा तेन भिक्षुणा तथा संवेजितो यथा क्षणेनोपलब्धकुशलमूलोपचयाभिलाषस् तीव्रभयविषादव्याकुलमानसश् च प्रोवाच ॥
तद् अधुना करवाणि भदन्त हे वद वदास्ति दया यदि ते मयि ।
निपतितं महति व्यसनार्णवे कृपणकं कृपयोद्धर मां यते
जलदमारुतचन्दनशीतलैर् अपि वयं वचनैस् तव तापिताः ।
स्वकृतदुष्कृतशङ्कुशतक्षता विषयलौल्यपराजितमानसाः
विपरिणामकटूनि मया पुरा विषयसङ्गसुखान्य् अकृतात्मनाम् ।
समुपगुह्य कृतं बहु दुष्कृतं दहति यन् मम संप्रति मानसम्
धिग् अवरं विषमं विषयाश्रयं सुखम् अनार्यनिषेवितम् अध्रुवम् ।
यद् उपगम्य नरा विषयद्विषाम् इह भवन्ति सदा करुणास्पदम्
अविनयो ऽनुगतो मृदितं यशो न गणितं कुलम् आयतिर् उ ज्झिता ।
⏑ ⏑ ⏑ – कलुषं विवृतो ऽनयो विषयलौल्य तया ⏑ ⏑ यागया
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0