भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 21-40

21

पर्यन्तेषु स्फुटितशकलच्छेदसंपर्करूक्षस्
तोयाभ्याशे स्रुतजलतया न द्रवो नातिशुष्कः ।
किंचिच्छेषाकलुषसलिलाप्लावितो मध्यभागे
पङ्कः शोषं स्फुरितशफरीजालगर्भः प्रयाति

22

किंचिच्छेषविवर्णपर्णशबला मूले कठोरारुणा
मन्दश्यामपलाशसंचयवती मध्ये समार्द्रच्छविः ।
घर्मश्यामविभुग्नपल्लवदला प्रान्ते लता नर्तकी
म्लानिं यात्य् अनिशं कलाव् इव युगे सत्पौरुषी धर्मता

23

छत्त्रैर् व्यभ्रशशाङ्कमण्डलसितै रत्नप्रभाभास्वरैर्
विक्षिप्ताः किरणा यद् अस्य बहुशो निर्याणकाले मम ।
तद् वैरं हृदयेन संचितम् अयं नूनं वहत्य् अंशुमान्
यस्याग्निर् दहतीव दुर्जनवचस् तीक्ष्णैर् मयूखाङ्कुरैः

24

अथ स भिक्षुः कथान्तरविवक्षया स्मितम् आविश्चकार । + + + + + + + + + + + + + स राजा समन्ततो निरीक्ष्यान्यम् अनीक्षमाणो माम् एवाधिकृत्य प्रव्रजितेन स्मितम् आदर्शितम् इति विनिश्चित्य कुतूहलाक्रान्तमतिस् तम् अब्रवीत् ॥
विनयधीरम् इदं च वपुस् तव स्मितम् इदं च भदन्त विधार्यते ।
चलति बुद्धिर् इयं पवनाहता वनलतेव किम् अत्र नु कारणम्

25

+ + + + + + + + + + + + + + + + + + + + । अथ स पार्थिवः सुतराम् उपजातविमर्शसंभ्रमोद्भ्रान्तमानसः पुनर् अपि तं भिक्षुं स्मितप्रयोजनं पर्यपृच्छत् । स च भिक्षुस् तदुपकारकामतयैव राज्ञः प्रोवाच ॥
सूर्यातपो दहति वत्स शरीरकं ते तस्मात् सुखोचितम् इदं तु रोगनीडम् ।
दुः ख ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – – – – ⏑ – ⏑ ⏑ ⏑ – अ भितापितानाम्

26

वस्त्रातपत्रतरुमन्दिरचन्दनाम्बुहारादयस् तदुपघातनिमित्तभूताः ।
दुःखं त्व् अनागतम् अवीचिसमुद्भवं ते नाशं प्रयास्यति नराधिप कैर् उपायैः

27

प्राणोपरोधसमकालम् अवश्यभावि यत् प्राप्स्यसि त्वम् अकृत ज्ञ बहुप्र कारम् ।
दुःखं यदा क्षण य – ⏑ ⏑ – ⏑ – – – त् तव तद्गजभया ⏑ ⏑ – क्षणेन

28

कर्मेन्धनः स्फुरति तत्र (?) सदा हुताशो दुर्वृत्तशोणितवसासवपानशौण्डः ।
यो बान्धवान् इव परिष्वजते प्रगाढं ज्वालाभुजैर् अविरलैः स्वकृतापराधान्

29

वीचिं वदन्ति विवरं न च तत्र का चिद् दुःखस्य वीचिर् अपि तिर्यग् उपर्य् अधो वा ।
यस्माद् अवीचिर् इति तेन च संप्रसिद्धः शीर्णस् त नोति भ वनो नरकान्तरेषु

30

यत्र त्वयातिथिजनप्रणयो निषेव्यो ज्वालासखीशतपरिष्वजनोचितेन ।
स त्वं व्यथाम् उपगतो रविरश्मितप्तो हाराद् बिभेषि न तु घोरविषाद् भुजङ्गत्

31

यस्योत्सङ्गे क्षितितलरजोधूसरस् त्वं निषण्ण
– – – – ⏑ ⏑ ⏑ ⏑ ⏑ – ⏕ ⏑ ⏕ ⏕ ⏑ ⏕ ⏕ ।
प्रेम्णा येनाकरुणहृदयो वर्धितः पालितश् च
तं त्वं हत्वा यदि न पतितस् तत्क्षणं चित्रम् एतत्

32

बाल्ये लालासलिलमलिनं पाणिना वक्त्रपद्मं
येनामृष्टं विकचकमलच्छेदताम्रोदरेण ।
त्वां कृत्वाङ्के कृपण भवतः कुञ्चिताः काकपक्षा
ये – – – ⏑ ⏑ ⏑ ⏑ ⏑ – – ⏑ – – ⏑ – –

33

स त्वं हत्वा पितरम् अपि ते धार्मिकं धर्मराजं
कामास्वादव्यसनमदिरापानविक्षिप्तचित्तः ।
स्वस्थावस्थश् चरसि नरकद्वारशालां प्रविष्टो
ज्वालाहस्तैर् नरकशिखिनः स्प्रष्टुम् इच्छन्ति हि त्वाम्

34

ज्वलदनलशीखावलीपिङ्गलान्तःस्थलं सर्वतस् तुङ्गनिःसङ्गनिश्छिद्रलोहाद्रिजालावृतच्छिन्नसंभिन्नसंविग्नसंकूजितोत्कृष्टनिष्पिष्टनिष्पीडितोत्क्षिप्तविक्षिप्तलुप्तावलुप्ताश्रयप्राणिसंघाकुलभीषणं
कृपण क नरकं पदा यास्यसि प्रेरितो दारुणैः कर्मवातैर् अनेकोग्रदुःखप्रकर्षातिसंतापितो दीनकण्ठो ⏑ – ऊर्ध्वबाहुर् ज्वलच्छूलचक्रासिकुन्तप्रहारव्रणोद्वान्तरक्तोक्षितस् तत्र चाकामकः संवसन् ।
ज्वलदनलकमण्डलाकोटरस्तब्धनेत्रैः स्फुरत्कोपसंदष्टदन्तच्छदैर् उद्यताग्रायुधैर् अन्तकाज्ञाकरैस् तिष्ठ तिष्ठेति निस्तर्जितो भीतभीतो दिशः प्रेक्षमाणः स्थितो ऽस्मीति कृच्छ्राद् अभिव्याहरन् काम् अवस्थाम् अभिप्राप्स्यसि त्वं धृतो दुष्कृतैः कर्मभिर्
यदि समनुविचारयेत् तद् भवान् नूनम् – – ⏑ – – ⏑ पादोपमाः स्युर् निदाघे ऽतितीव्रा अमी भूपते न त्व् अनभ्याहता यान्ति संवेगम् अज्ञा जनाः प्रायशो दुःखयन्त्रान्तरस्थास् तु शोचन्ति मोघं प्रलापार्तिशोकाभिभूता भृशम्

35

अपि च हे पुत्रक ॥
कान्ताकराग्रविधृतानि मधूनि पीत्वा निश्वाससंचितदलोत्पलचन्द्रिकाणि ।
संदंशयन्त्रविवृतास्यपुटान्तरालस् ताम्रं कथं कथय पास्यसि वह्निवर्णम्

36

स्नात्वा त्वं गृहदीर्घिकाम्भसि हसत्पद्मोत्पलालंकृते
तीरान्तानतपुष्पपादपलताच्छायासमालिङ्गिते ।
क्लिन्नस्विन्ननरास्थिपञ्जरवसानिर्यासपर्याकुले
तप्ते वैतरणीजले निपतितो दुःखात् कदा मोक्ष्यसे

37

प्रासादे शरदभ्रशुभ्रशिखरे पुष्पावलीमण्डिते
वीणावेणुमृदङ्गगीतमधुरे संप्राप्य चित्रं सुखम् ।
नित्यं प्रज्वलितस्फुटानलशिखासंतानजालाकुलं
प्राप्यावीचिम् अनेकदुःखविहतः किं नाम कर्ता भवान्

38

लज्जामात्रविभूषणां सविनयां चारूपचारां प्रियां
दृष्ट्वा प्रीतिविजृम्भमाणनयनो विश्रम्भनिर्यन्त्रणाम् ।
क्रोधप्रज्वलिताक्षिकोशविषमभ्रूभङ्गरौद्राननान्
आलोक्यान्तककिंकरान् अभिमुखान् संमोहम् आयास्यसे

39

श्रीमच्चामरचारुभासुरनरैर् नानाविधैर् वाजिभिः
कालिङ्गैश् च विचित्रितोत्तरकुथैर् गन्धोपवाह्यैर् गजैः ।
तीव्रक्रोधविषैस् तृ – ⏑ ⏑ ⏑ – – – ⏑ – – ⏑ –
– – – ⏑ ⏑ के विशीर्णचरणो वोढासि दीप्तान् रथान्

40

धृतश् चूडापीडो बकुलकुसुमामोदसुभगस्
त्वया मूर्ध्ना येन स्फुटमणिकरालं च मुकुटम् ।
स्फुरद्वह्निज्वालावलयकपिलं चक्रम् अशिवं
वहन् मूर्ध्ना तेन त्वम् अनुभविता चापलफलम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc