जातकमाला · श्लोक 33-52
अर्थाय नेत्रव्यसनं तु जातम् अस्या न मां द्रक्ष्यति मार्यमाणम् ।
यद् अस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन
कृत्वा च यत् पापम् अयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि ।
एतन् मनो निर्दहतीव मह्यं प्राणोपरोधं स्वम् अचिन्तयित्वा
धिग् अस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिग् अनर्थपण्डितम् ।
विपत्तिपातालतले दुरुत्तरे वृथैव यल् लोकम् इमं विमुञ्चति
अथ स प्रकृतिशुद्धसत्त्वस् तदवस्थो ऽप्य् अनभिजातविषाददैन्यसंभ्रममनास् तं व्याधम् अब्रवीत् ।
अमोघो यद् अयं बाणस् त्वया तात समुद्यतः ।
मयि प्रहर निःशङ्कं मा कार्षीर् मृतमारिकाम्
अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायम् अवेत्य पाणिभ्यां हृदयम् अभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वम् आह ।
पुत्र मा साहसं कार्षीर् मय्य् एव प्रहरत्व् अयम् ।
मृतयापि मया किं स्याज् जरयापीतसारया
यद् अहं तात जीवामि दुर्मना दुःखभागिनी ।
त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत्
त्वयि जीवति जीवन्ति बहवो धर्मजीविनः ।
निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः
जराजनितसंवेगा विप्रोषितविलोचना ।
मृत्युम् एवाभिकाङ्क्षामि निश्वासैकपरायणा
त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया ।
त्वयि जीवति जीवन्तीं माम् अवेहि मृताम् अपि
उपायासि प्रपन्नाया जराकान्तारम् आयतम् ।
विश्रम्भस्थानवन् मृत्युर् भाग्येनैव ममागतः
अथ बोधिसत्त्वो ऽभिप्रणम्यानुनेष्यन्न् अनुकम्पाशीतलैर् अपि निर्दहन्न् इव वचोभिर् जननीं प्रत्य् आह ।
क्षुद्रजन्तोर् अपि कृते जह्यां देहशतान्य् अपि ।
मातुर् अर्थे त्यजेद् देहम् इतरो ऽपि गतव्यथः
कायव्रणम् इमं तीव्रव्यसनापातकातरम् ।
तवैव परिचर्यायै मातः परिहराम्य् अहम्
न च मे कायिकं दुःखं तथा जनयति व्यथाम् ।
मानसेनैव दुःखेन यथा पीड्ये विदाहिना
स्वकायपरिरक्षार्थम् अध्युपेक्ष्य वधं तव ।
दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम्
अपि चाम्ब ।
उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः
सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्व् इव ।
मृत्योर् अप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः
संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम्
अथ सा बोधिसत्त्वजननी शीतैर् अनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैर् अपरिम्लायमानगौरवप्रसादपेशलैस् तद्वचोभिः सुतराम् आक्लेदितहृदया व्यापिना स्वरेण तद् वनम् आपूरयन्ती सकरुणं विरुराव ।
अमूनि तव वाक्यानि शीतान्य् अपि दहन्ति माम् ।
हिमापाता इव लतां पाकपाण्डुपलाशिनीम्
हा मातृवत्सल रिपुष्व् अपि मैत्रचित्त
क्षुद्रेष्व् अपि प्रकृतिभद्र मृदुस्वभाव ।
पुत्रापहाय कृपणां क्व नु यास्यसि त्वं
माम् अद्य दुःखशतबाणशरव्यभूताम्
हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण ।
संरक्ष मां सुचिरम् एकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता
याताः क्व ते ऽद्य मुनयो ज्वलितप्रभावाः
सख्यः क्व ताः प्रतिगता वनदेवतास् ते ।
धर्माय रक्षति जगत् किल धर्मजीवी
कस्माज् जगन् मम निमीलति पुत्रशून्यम्
शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा
नद्यश् च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः ।
संशान्ता वनराजयश् च शिखिना सुद्योतिताश् चन्द्रकैर्
भानोर् अंशुकरालिताश् च दिवसा रक्षन्तु मे पुत्रकम्
विरहव्यसनोपतापदीनैर् नयनैर् बाष्पतरङ्गधूसरान्तैः ।
दयिताः करुणं तम् ईक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः
स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या ।
अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः
स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर् गुरुः प्रजानाम् ।
पुरुषातिशयो गुणप्रकर्षान् नियतं दूरतरं समुत्पपात
तपोभिर् यां दीर्घैर् यमनियमसंस्कारगुरुभिर्
व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः ।
विभूतिं ताम् ऐन्द्रीं तृणम् इव परित्यज्य कृपया
तिरश्चां साभाग्यं स जगदुपकारार्थम् अगमत्
शुभाभ्यासाद् एव क्षपितकुकृतप्रत्ययतया
तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता ।
यथेच्छं यत्रेच्छं परहितसमाधानविदुषस्
तथा ह्य् अभूत् जन्मव्यसनशमनायैव जगताम्
स्वकामकारानुविधायिनीम् श्रियम् पटान्तलग्नाम् हुतभुक्शिखाम् इव ।
न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः
तस्योपपत्तिसमकालम् अथोच्चचार लोकं स्फुरन् ध्वनिर् इति श्रवणोपकारी ।
यः पाप्य् अयं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम्
श्रुत्वाथ ध्वनिम् अतिमानुषं मनुष्याः सांहत्यस्वरितम् उपेत्य तं प्रदेशम् ।
आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणम् अभीयुर् उद्विषाणाः
आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तान् अभिपततो जवेन गत्वा ।
हाहेति स्फुटविरसं विलेपुर् उच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः
मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् ।
न कश् चित् प्रतिहतमानसो वसासृग्मोको ऽयं क्षणम् इति सो ऽभवद् विकारी
तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर् या मनसि मनस्विनो जृम्भते ।
ताम् एव क्षितिधरसारधीः स मेने पर्याप्तं फलम् अतिदुष्करस्य तस्य
लोकानाम् अभिलषितोपकारम्यं मत्वासाव् उपचितमांसम् आत्मभवम् ।
एकान्तव्यसननिपातलक्ष्यभूते संसारे ऽप्य् अभिरतिम् आबबन्ध साधुः
ये ध्वस्ताः परहितसंविधानशून्यास् तद्देहाः क्षणभिदुरा भवप्रबन्धे ।
तान् मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुम् उपादधे महात्मा
तं मत्वा विततविकारम् एव धैर्यात् ते तीक्ष्णैस् तरुम् इव चिच्छिदुः कुठारैः ।
निःशङ्का गलितकृपाशिवैर् मनोभिः सो ऽप्य् आसीत् तरुर् इव चापनीतमन्युः
तद्रक्तव्यतिरेकपाटलाग्रहस्तास् तम् खड्गैर् अरय इवापरे विचक्रुः ।
सो ऽप्य् आसीद् अभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा
सुस्राव क्षतजम् अथास्य खड्गधाराच् छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् ।
संप्राप्तघनसमये विचित्रसानोर् विन्ध्याद्रेर् जलम् इव धातुनिर्झरेभ्यः
चक्षार व्रणमुखकन्दरेभ्यो यत् तस्य क्षतजम् इव क्षताशयस्य ।
तेनोहुर् घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः
तत् तस्य प्रणिधिबलावलम्बिनीनाम् आशानां कथम् अपि पूरणात् सुचेतः ।
संप्राप्ते ऽप्य् अम्रपुरे शरीरभेदात् प्रामोद्यं निरतिशयोपमं बभार
दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य ।
प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतम् इव कान्चनं सुमेरोः
तस्योग्रैर् युगपद् इतस् ततश् च शस्त्रैर् निःशङ्कं शकलितकोमलाश्रयाङ्गे ।
विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0