भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 13-32

13

अथ कदा चिद् अन्यतमो व्याधो धन्वी पृष्ठावापी प्रगाढावबद्धपरिकरो मालुतावतानसंयताकुलकेशभारभासुरः श्वापदान् अभिद्रवंस् तं देशम् अभिजगाम ।
क्रोधारक्तविलोचनं गिरिशिलाश्यामायतोरःस्थलं
वल्लीकुण्डलकावबद्धकपिलव्याधूतकेशाशिवम् ।
दृष्ट्वा मृत्युम् इवापतन्तम् अथ तं तद्गोचराः प्राणिनो
याताः क्वापि विलङ्घ्य कण्टकलतानद्धान् प्रपातान् अपि

14

अथ स दुरात्मा विफलप्रयासतया सुतरां क्रोधाग्निना प्रदीप्तमानसः सशिरःप्रकम्पं निश्वस्य च पलाशिकयावगृह्य ललाटपुटप्रस्वेदसलिलं तम् एवानुकम्पमानं तं वानराधिपतिं ददर्श पादपैकदेशावस्थितम् । दृष्ट्वा च भृशतरं क्रोधवह्निना प्रजज्वाल ।
अशक्नुवन्तो बलिनः प्रबाधितुं खलाः स्वदौरात्म्यविरूक्षदृष्टयः ।
अकारणक्रोधविषाशिवाशिवा भवन्ति साधुष्व् अपकारदारुणाः

15

अथ स दुरात्मा धनुषि निशितं सायकं संधाय वेगेन बोधिसत्त्वम् अभिदुद्राव । स च महात्मा लोभनीयतरं वपुर् अवेत्य मयि च नास्यायं निर्बन्ध इति । शक्तो ऽपि प्रत्यवस्थातुम् अपगतसंरम्भमानसः खग इव महता जवेन तद्बाणपथम् अतिचक्राम ।
मुष्टिप्रहारेण स शैलशृङ्गं शक्तो ऽपि संचूर्णयितुं महात्मा ।
जाल्मं तम् एव त्व् अनुकम्पमानस् तद्बाणसंपातपथाद् व्यतीतः

16

स च पुरुषाधमस् तीव्रतरसंरम्भमन्युवेगाकुलीकृताशयस् तां बोधिसत्त्वजननीं प्रत्याकृष्टतीक्ष्णबाणाशनिर् अभिससाद ।
अभ्यासयोगात् कठिनीकृतानि मनांस्य् अनार्यैश् चरितप्रसङ्गैः ।
पापक्रियायाम् अविचार्य कार्यं चरन्ति लोकस्य निरङ्कुशानि

17

अथ बोधिसत्त्वः पुरायं मे मातरं व्यापादयतीत्य् अविगणितस्वप्राणात्ययः ससंभ्रमद्रुततरगतिर् अभिगम्य तं व्याधं सानुनयप्रशममधुरम् इत्य् अब्रवीत् ।
तिष्ठ तिष्ठ महासत्त्व मा वधीर् जननीं मम ।
कस् तवेमां गुणो हत्वा वृद्धां प्रोषितलोचनाम्

18

तवापि नूनम् आयुष्मन् माता हृदयवल्लभा ।
आत्मस्नेहानुमानेन मा व्यात्सीर् मम मातरम्

19

फलमूलजलाहारां वसन्तीं विजने वने ।
व्यापादयितुम् अम्बां मे साधोस् तव न युज्यते

20

स्पृष्टदृष्टापचारे ऽपि पुरुषास् तुङ्गमानसाः ।
प्रहरन्ति न शौटीराद् दैन्योपहतचेतसि

21

पुरातनैर् एव हतां कर्मभिः परुषैर् इमाम् ।
घ्नतो निरपराधां ते कथं नोत्पद्यते दया

22

अपि चेदं मृगेन्द्रासृक्कलङ्कितमुखं शरम् ।
न लज्जसे कथं नाम मुञ्चञ् छाखामृगीतनौ

23

स्फीतावलेपौ करिमस्तकेषु भुजाव् इमौ ज्याकठिनप्रकोष्ठौ ।
नियुज्यमानौ कृपणाश्रयेषु दौर्भाग्यम् उद्भावयतः स्फुटं ते

24

अमुक्तपूर्वो हरिणाङ्गनास्व् अप्य् अक्षूणलक्षस् तव कङ्कपत्त्रः ।
शिलीमुखो ऽयं प्रतिकुञ्जरीव नियुज्यमानः कपिदुर्गतायाम्

25

अभ्यर्थ्यमाना रिपुणापि धीरा बाष्पाम्बुविष्यन्दिविलोचनेन ।
भवन्ति तत्कालविनीयमानक्रोधोपरागाधिकरम्यशोभाः

26

तस्माद् उद्वीक्षस्व परं च लोकम् इमां च वृद्धाम् अपरायणां त्वम् ।
मा गा वशं रोषनिशाचरस्य लोकद्वयानर्थशतावहस्य

27

एवम् अप्य् असाव् उच्यमानः क्रौर्याभ्यासकठोरहृदयपाषाणस् तद् बोधिसत्त्ववचनम् आकर्ण्यैवावधीरयाम् आस ।
पापप्रसङ्गपरुषीकृतमानसेषु व्यर्था गिरो गुणिजनाभिहिता भवन्ति ।
विप्रस्रुता जलधरेभ्य इवाम्बुधारा वज्राग्निदग्धशिखरेषु महीरुहेषु

28

अथ वानरेश्वरस् तम् अनार्यकर्माणम् अनुनयविधुरम् अवगम्य चिन्ताम् आपेदे ।
मातर्य् अयं यदि मम प्रहरत्य् अनार्यः संपश्यतो मम वधः सकलः स एव ।
त्यक्त्वा स्वजीवितम् अतः परिपालयामि वृद्धाम् इमां कुमुदिनीधवलां च कीर्तिम्

29

कामं मृते मयि मरिष्यति विक्लवेयं
हा पुत्रकेति कृपणा करुणं रुदन्ती ।
युक्तस् तथापि मम पूर्वतरं विनाशो
द्रष्टुं गुरुव्यसनम् अस्ति न मे प्रभुत्वम्

30

जातश् च नाम न विनक्ष्यति वेत्य् अयुक्तम् उत्पाद एव नियमेन निपातहेतुः ।
तुल्ये च नाम मरणव्यसनोपतापे मृत्युर् वरं परहितावहिताशयस्य

31

तद्गर्भसंधारणसंभृतस्य स्नेहानुबद्धस्य परिश्रमस्य ।
अस्याः क्रमेणैव ममाभ्युपेतो निर्वेशकालातिशयोत्सवो ऽयम्

32

दुःखं तु निर्गारयतीव चेतो ममैकम् एवाविनिवार्यवीर्यम् ।
अम्बा मृतं मां यद् इयं विदित्वा दुःखेन संत्यक्ष्यति जीवलोकम्

13

भवदुःखशिलीमुखक्षतानाम् अपि मतेव पितेव च प्रजानाम् ।
अहम् एव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः

14

यावद् दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं
कालाहेर् आस्यकोशं सकलजगदनुग्राससंभोगभीमम् ।
तावद् द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं
प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि

15

व्यवसायम् इति ज्ञात्वा तस्यात्यद्भुतकर्मणः ।
तद्वियोगाभिशङ्कार्ता विचुक्रुशुर् अथामराः

16

कृपालो दुःखितान् अस्मान् परित्यज्य क्व यास्यसि ।
विषमस्थान् इव पिता वत्सलो बालपुत्रकान्

17

सद्धर्मसलिलोत्सेकैर् वर्धयन् पादपान् इव ।
अस्मान् अनागसस् त्यक्त्वा मा यासीः प्रियदर्शन

18

विषयास्वादचपलैर् हृतान् इन्द्रियवाजिभीः ।
स्वामिन् मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः

19

प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् ।
अथामरान् अश्रुपरिप्लुतेक्षणान् स सान्त्वयन्न् इत्य् अवदन् मरुत्पतिः

20

न मे न युष्मास्व् अनुरागपेशलं मनो न चायं स्वहितोदयादरः ।
विकासिनीनां विपदां मुखे स्थितं जगत् परित्रातुम् अयं तु निश्चयः

21

तद् अप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनताम् उपेष्यति ।
विसंवदन्त्य् एव समागमाः प्रियैर् निपातरम्याः परिणामदारुणाः

22

स्थित्वापि कालम् अतुलं विविधोपभोगसंभोगविस्तरसुखैस् त्रिदशाधिवासे ।
कर्मक्षयाद् विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः

23

मन्दाकिनीम् अपि विगाह्य सहाप्सरोभिर् उन्निद्रहेमकमलोच्छुरितोपकण्ठाम् ।
क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर् यदि च वैतरणीं भजन्ते

24

को नाम तेषु मतिमान् स्वमनो निदध्याद् उत्क्षेपणीयकुसुमावयवोपमेषु ।
स्वर्गोपभोगजनितेषु सुखेषु येषाम् अन्तेष्व् अपायवडवामुखसंनिवेशः

25

कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु ।
साकं प्रियाभिर् अनुभूय सुखानि भूयस् तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति

26

संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः ।
यद् धीन्द्रियार्थपरिभोगसुखानि तस्माद् यत्नं सुराः कुरुत पुण्यपरिग्रहाय

27

एधोभिर् अग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर् विषपानकल्पैः ।
तस्माद् उपाद्ध्वम् अनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै

28

अनाथानां दैन्यग्लपितमनसां दुःखाशीविष-
गणोपघ्रातानां परशुभिर् इवोत्कृत्तवपुषाम् ।
प्रशान्त्यै भूतानां वयम् अपि तिरश्चाम् अनुकृतिं
करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम्

29

अविचलप्रतिबन्धो दीर्घकालानुषङ्गी
मम जगदुपकारप्रार्थनासंनिवेशः ।
सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं
न खलु कुशलविघ्नं कर्तुम् अर्हन्ति सन्तः

30

अतिमानुषम् अप्य् अपास्य चित्रं महिमानं कृपया विकृष्यमाणः ।
स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा

31

करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् ।
प्रभवा इव कल्पपादपानाम् उदया लोकहिताय सज्जनानाम्

32

विनयानतरत्नमौलिरश्मिच्छुरितास् तं न मरुद्गणप्रणामाः ।
मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc