जातकमाला · श्लोक 22-41
भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् ।
भवानुषङ्गो ऽप्य् अशुचेर् विवृज्यते नरैर् विदग्धाभरणानुलेपनैः
कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिम् अन्विच्छसि येन जन्मनः ।
जिजीविषुस् तीव्रविषाभिदूषितं प्रणीतम् अप्य् अन्नम् उपाददीत कः
अपि च हे भवाभिनन्दिन्
क्रिमेर् इवावस्करकर्दमान्तर् विवर्तमानस्य यथाकथं चित् ।
नरस्य मातुर् जठरान्तराले किं गर्भवासो न महान् अपायः
कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन ।
प्रजायमानस्य नरस्य दुःखम् अपायदुःखैर् अपि किं न तुल्यम्
दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरम् अस्थियन्त्रम् ।
कथं चिद् आयासनिपीतहर्षो न किं समो ऽपायशतैर् मनुष्यः
विदाहिभिर् निष्प्रतिकारघोरैः कृतान्तबाणैर् इव संपतद्भिः ।
विभिद्यमानस्वविषात्मभावो गदैर् इहैवानुभवत्य् अपायान्
प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः
शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना ।
बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा
क्रुद्धेनेव वितीर्यते ऽधिकतरं किं नाम दुःखं ततः
किं चायुष्मन्
कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो
नैवावीचिर् अपि व्यथाम् उपहरत्य् आर्यस्य तां दारुणः ।
धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो
यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः
अथ स विषयदौरात्म्यम् इवोद्भावयंस् तं महर्षिम् अब्रवीत् ।
विषयासङ्गिनी बुद्धिर् दुःखेन प्रतिवार्यते ।
गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा
अन्ये ऽपि बहवः शैक्षा भवसंभोगलालसाः ।
तर्पयन्तीन्द्रियग्रामं विषयैर् अविषादिनः
स चार्हंस् तैस् तद्वचोभिः सुतराम् उद्वेजितप्रतिभयस् तं शैक्षम् अवोचत् ।
प्रतिसंख्यानमहताम् अकृच्छ्रश् चित्तनिग्रहः ।
न चानुवर्तनीयास् ते विषयैर् ये पराजिताः
मयैव विषयोद्दामं ननु चेतो निवारितम् ।
अन्यैश् च व्रतिभिर् वीरैस् तत् कस्मान् नानुवर्तसे
विषयेषु यदि प्रमादम् एषे त्वम् अनार्याचरितेषु हन्त नष्टम् ।
अथ ते विरजन्ति नैव चेतस् तव को ऽर्थो वद तैर् अनर्थभूतैः
विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु ।
निकटे निवसन्ति सर्वदुःखान्य् अपरिज्ञातनिपातदारुणानि
विषयापचयानुपातिनीनाम् अपरिम्लानसुखामृतप्रदानाम् ।
छलितः पुरुषः प्रसङ्गदोषैर् न च संवेत्ति निरामिषं रतीनाम्
परिभूतिर् उपान्तिके नराणां भवसंभोगविषक्तमानसानाम् ।
विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि
परिणामरताम् अशान्तरूपां विपरीताल्पसुखानुरागरम्याम् ।
परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु
विनिगृह्य मनः प्रमाददोलाचलम् अध्यात्मरतिव्यपाश्रयेण ।
अनिराकृतयोगिनो रमन्ते बहुरूपैर् अतिमानुषैर् विहारैः
वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः ।
गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्य् अनार्याः
व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते ।
उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम्
क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्य् अपि
क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्य् अमेध्यानि च ।
कक्षैः के चन यापयन्ति परुषैर् लालाजलक्लेदितैर्
अन्ये ऽस्थीनि चिरोज्झितान्य् अधृतयः क्षुद्विक्षता भुञ्जते
ते राजान्तररक्षिणाम् अपि शिरस्य् आधाय पादं खगाः
क्षुद्दुःखोपनिपातविस्मृतभया हृत्वामिषं भुञ्जते ।
वेगेनाभिपतन्ति शस्त्रकलिलप्राकारदुःसंचराञ्
शूलामांसलवाभिलाषकृपणा गच्छन्ति के चित् क्षयम्
विविधान्य् अपि भोजनानि भुक्त्वा भवने स्वे मणिहेमभाजनेषु ।
शितकण्टकविक्षताग्रहस्ता बुभुजे सा बदराणि सत्यभामा
शापोत्सर्गानुग्रहा न् म्लानशक्तिर् दिक्पर्यन्तख्यातकीर्तिप्रकाशः ।
विश्वामित्रो यच् चखाद श्वमांसं क्षुद्दुःखानां तेन दत्तो नियोगः
बालः पुत्रः प्रेमसर्वस्वभूतो यत् कान्तारे खादितो दम्पतिभ्याम् ।
क्षुद्दुःखेभ्यो नास्ति दुःखं ततो ऽन्यज् जन्माटव्यां धावतां क्रूररूपम्
याच्ञादैन्यान् म्लानवक्त्रप्रसादा देहीत्य् एवं व्याहरन्त्य् अप्रगल्भम् ।
द्वारि स्थित्वा विद्विषां क्षुद्विलोलाः किं मन्यध्वे दुःखम् अस्माद् बलीयः
अथैषां पारावतः प्रोवाच । सत्यं बलवत् क्षुद्दुःखम् । अपि तु ममाभिप्रायः श्रूयताम् ।
राग एव महद् दुःखम् इति मे निश्चिता मतिः ।
क्षुत् करिष्यति किं यस्माद् भस्मनापि निवार्यते
अपि च
वाय्वम्बुजीर्णतरुपर्णभुजो ऽपि नाम दीर्घोपवासपरिकर्शितगात्रयन्त्राः ।
अन्धीभवन्ति मुनयः स्खलितप्रभावा रागेन दुःप्रतिविधानसमुद्भवेन
अम्लानचन्द्रकिरणास्व् अपि यामिनीषु प्रोत्फालिताभ्रविवरेष्व् अपि वा दिनेषु ।
अन्धो ऽधमो भवति रागपराजितात्मा तस्मान् न रागसदृशः कलिर् अस्ति लोके
लज्जां निमीलयति सर्वगुणाग्रभूतां कीर्तिं कलङ्कयति निर्विकलप्रसादाम् ।
धर्मात्मनाम् अपि च नाम तिरस्करोति श्रेयांसि मेरुशिखरप्रतिमानि रागः
नायं वयस् तुलयति प्रगतं नराणां नापेक्षते कुलविशुद्धिमयीं व्यवस्थाम् ।
लोकापवादगहनान्य् अपि लङ्घयित्वा संकल्परागतुरगः स्वमतेन याति
संमूर्छितः कुसुमहासिषु मल्लिकानां गुल्मेषु वारिकणकण्टकितो नभस्वान् ।
संतापयत्य् अनुपशान्तविकल्परागं चेतो नरस्य सुतराम् अपरीक्षकस्य
सूक्ष्माणि संधिगहनान्य् अपि चावगाह्य स्वप्रत्यया बहुविधानि मतान्तराणि ।
मेधाविनो ऽपि ननु रागपिशाचवश्याः संप्राप्नुवन्ति परमं स्मृतिविप्रलोपम्
हत्वापि रागविषबीजविजृंभितानि स्वभ्यस्तयोगपदवीस्थिरबुद्धयो ऽपि ।
योषिन्मुखान्य् अलकपल्लवितान्य् उदीक्ष्य भ्रष्टा भवन्ति तपसः पशुभिः समानाः
दृङ्मार्गहेयम् अवहत्य बलं मलानाम् एकावशिष्टभवबन्धनतन्तवो ऽपि ।
आर्या मनःस्थितिभिदानुगताः स्मरेण लज्जालवो ऽप्य् अनुभवन्ति दशाम् अनार्याम्
उच्चैः शिरो वहति तावद् अयं प्रजासु यावन् न कामकलिदुर्ललितान्य् उपास्ते ।
आलिङ्गितश् च पुरुषो मदनज्वरेण श्वा संकटस्थित इव प्रखलीकृतश् च
अपि च भद्रमुखाः
कण्ठोपान्तविरोधगद्गदतरं कूजञ् छनैः पृष्ठतो
रागाद् रक्ततरेक्षणः सचकितं निर्भ र् त्स्यमानो मुहुः ।
श्येनायातम् असंप्रधार्य दयिताम् अन्वेति पारावतो
रागाभ्यासकलङ्कितस्य मनसः का वञ्चना दूरतः
ये नैकाङ्गुलितर्जनाम् अपि गुरोः सोढुं समर्था नराः
मानात्युन्नतमानसाश् च सकलं पश्यन्त्य् अधस्ताज् जगत् ।
ते रागेन कदर्थिता धृतिभिदा पादैर् हता योषिताम्
आज्ञा मूर्धभिर् उद्वहन्ति कृपणा मालाम् इवाम्लायिनीम्
जित्वारातीन् समरविजयख्यातशौर्यावलेपान्
आयामिन्यो जगति वितता ः कीर्तयो यैः समन्तात् ।
भिन्नास् ते ऽपि प्रकृतिचपलैर् अङ्गनावाक्यबाणैर्
निर्मर्यादाः पुनर् अयशसा जीवलोकं स्फुरन्ति
परिचितम् अपि श्रुत्वा वाद्यध्वनिं रजनीक्षये
भवति सहसा यासां त्रासो गृहेषु सवेपथुः ।
मदनविहतास् ता गच्छन्ति क्षपास्व् अभिसारिका
बहलतिमिरच्छन्नान् देशाञ् छिवारुतभीषणान्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0