भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 1-20

1

1. अजातशत्रु
महान्ति पापान्य् अभिभूय यस्माद् अजातशत्रुर् गुणवान् बभूव ।
उपेत्य सद्भिः सह संप्रयोगम् अतो निषेव्या गुणवन्त एव

2

अहो विभूतिर् गुणविस्तराणां गुणाब्धिकैर् यत् सह संप्रयुज्य ।
गुणैर् अभूतैर् विगुणो ऽभ्युपेति गुणप्रसिद्धिं गुणभूषनेषु

3

अभूतसंभावनया तया तु हतो ऽप्य् असौ कालवशेन भूपः ।
तुषारदग्धद्रुमवद् वसन्ते गुणप्रभावोज्ज्वलताम् उपैति

4

स्वभावसंसिद्धिर् इयं तथा हि जनस्य सद्वृत्तिनिरत्ययस्य ।
विजिह्मभावेष्व् अपि यत् प्रयाति गुणप्रसिद्धेः खलु हेतुभावम्

5

ब्रवीम्य् अतो ऽहं नरके ऽपि वासो वरं स्फुरद्वह्निशिखाकराले ।
न चैव सन्मित्रनिराकृतस्य सुरेश्वराणां सुखसंपदो ऽपि

6

तद्यथानुश्रूयते
राजा किलाजातशत्रुर् वनद्विरदवरोपग्रहनिमित्तं स्वनगराद् अभिनिःसृत्य ददर्श महान्तं कुञ्जरवरं वनाभिमुखम् अभिद्रवन्तम् । दृष्ट्वा च पुनस् तम् एव हस्तिनम् अनुजगाम । स च दन्ती
स्मृत्वा सरांसि कमलोत्पलमण्डितानि कादम्बपक्षपवनोद्धतशीकराणि ।
उद्भिन्नकोमलकसेरुलतावनानि वेगान् महीधरवनाभिमुखो जगाम

7

उत्कण्ठितः किसलयोज्ज्वलपादपानां वैडूर्यनीलहरितोद्गतशाद्वलानाम् ।
उद्धूतशीकरकरो द्विरदो वनानां तूर्णं ययौ पवननुन्न इवाम्बुगर्भः

8

अथ स महीपतिः पवनपटुजवातिशयतुरगवराधिरूढो दूराद् अपसृतबलसहायो न चिरेण खदिरबदरबिल्वेङ्गुदादिकण्टकद्रुमवनगहनां शरवणकाशकुशवंशजालजटिलदुःसंचारप्रदेशां जीर्णशीर्णविक्षिप्तास्थिकङ्कालशकलधवलभूमिभागां प्रतिभयगम्भीरश्वभ्रप्रपातस्थलस्थाणुवल्मीकदुर्निर्गमप्रवेशाम् अटवीं प्रपेदे । स च गजाधिपतिस् तस्य राज्ञो दर्शनम् अपजगाम ।
राजासौ विहतपराक्रमावकाशो ग्रीष्मोष्मक्लमशिथिलाकुलप्रयत्नः ।
भूरेणुव्यतिकरधूसराग्रकेशः संमोहं समुपजगाम साध्वसेन

9

तस्मिन् खड्गविषाणकोटिकष्ण – – ⏑ – – ⏑ –
सिंहव्याघ्रवराह – ⏑ महिषव्यालावकीर्णे वने ।
एकाकी स नृपो भ्रमन् रविकरज्वालाप्रतापातुरस्
तृष्णार्तः पदवीं ददर्श सहसा शैलेन्द्रसंप्रापिकाम्

10

तां च मुहूर्तम् अनुगच्छन् ददर्श दूराद् एव नीलविपुलस्निग्धपलाशनिचितविटपतरुवरगहनम् अचलसानुप्रदेशम् । दृष्ट्वा + + + + + + + + + + + + + + + + + + + + + + + यनः(?) प्रोवाच ॥
अस्मिन् नूनं प्रदेशे नवनलिनवनच्छन्नतोयं सरो वा
धारा शैलोदराद् वा पतति मणिदलस्वच्छशोभा जलस्य ।
वृक्षास् तत्संनिकर्षाद् उपचितविपुलश्यामशाखाप्रशाखा
येनैते शैलम् एतं जगद् इव सकलं सज्जनाः शोभयन्ति

11

दूरत्वाद् अ ⏑ – ⏑ – ⏑ ⏑ ⏑ – ऽ; – – ⏑ – – ⏑ –
– – – ⏑ ⏑ – ⏑ भारगुरवो जीमूतपुञ्जा इव ।
एते वृद्धिम् उपागताः खलु पराम् आसाद्य तोयाशयं
सन्मित्रं समुपेत्य साधव इव प्रध्वस्यमानारयः

12

तद् इतो गच्छामीति संप्रधार्योपेत्य च तं प्रदेशं समन्ततो विलोकयन् ददर्शान्यतमस्मिन् तरुवरगहनविवरे + + + + + + + + + + + + + + + + + + + + + + + + + + + + कोपहाराभिदर्शने विपुलशिलातलाभोगनिषण्णकृताहारप्रयोजनम् उपशमनिभृतेन्द्रियप्रचारसौम्यवपुषं शाक्यभिक्षुं दृष्ट्वा समाश्वासप्राप्तः प्रह्लादित इव विश्रान्त इव च वाजिनम् एकान्ते निबध्य सप्रश्रयमःधुरो + + + + + + + + + + + + + + + + + + + + + + + + + + क्त इव च विकचकमलवनरेणुपिञ्जरसुरभिशिशिरसमीरणेन तं भिक्षुम् अब्रवीत् । भदन्त सलिलाशयप्रदेशम् उपदेष्टुम् अर्हतीति । तेन चोपदिष्टम् । अथ स राजा तम् उपदिष्टं सलिलाशयम् उपगम्य विगतपिपासाक्लमपरि + + + + + + + + + + + + + + + + + + + ॥
– – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – मयूखैः प्रस्वेदवारिकणिकार्द्रललाटभित्तिः ।
पीत्वापि वारि कमलोत्पलनालशीतं तीव्रक्लमातुरमना न धृतिं जगाम

13

अथ स भिक्षुः सान्द्रकरुणामृतरसार्द्रशीतलेन चक्षुषा तं राजानम् अभिसमीक्ष्याब्रवीत् । क्लीबसत्त्वम् इव व्या + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + प्र वादो लोकवृत्तातिवृत्तप्रभावेष्व् अप्य् उपलक्ष्यते । न खलु सुखोचिताः परदुःखानि जानन्तीति । ननु भदन्तावैषि ॥
दग्धापि भू रविकरैः स्फुटदीप्तिमद्भिर् दन्दह्यते गतघृणेन दवानलेन ।
भर्तुः प्रवासविरहे वनितेव दुःखैस् त – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – –

14

– – ⏑ – ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ – – ः संतापिता रविकरैः सुतरां प्रचण्डैः ।
कल्याणमित्रविकलास् तु विचारशून्या रागात्मका इव नराः प्रमदाविलासैः

15

घर्मातुरो भयम् अनागतम् अप्रधार्य च्छायां समाश्रयति भोगिफणस्य भेकः ।
आपातमात्रसुख – ⏑ ⏑ – ⏑ – – – – ⏑ – ⏑ ⏑ ⏑ – म् इव राजलक्ष्मीम्

16

संशुष्कसालतरुकोटरसंनिलीनो व्यर्थं विरौति परिशुष्कगलः कपोतः ।
अज्ञानगह्वरनिरुद्ध इवात्मवादी बालः पुनर्भवतृषाविषमूर्छितात्मा

17

एते गजा रविकरोत्करतापितेषु नैव स्थलेषु न जलेषु धृतिं लभन्ते ।
ग्रामेषु पुष्पविकचेषु च काननेषु पारिप्लवाल्पमतयो यतयो यथैव

18

अम्ब्व् एव (?) पल्वलजलं क्षयम् अभ्युपैति संशुष्कशैवलरजोऽरुणपङ्कलेशम् ।
मन्दागमस्य सदसीव विजृम्भमाणं वाक्कौशलं स्वमतिशक्तिनिराकृतस्य

19

एते खगा वनतरून् परिवर्जयन्ति संशीर्णपर्णनिचयोर्ध्वविशुष्कशाखान् ।
विस्मृत्य पूर्वपरिभोगसुखान्य् अनार्या वेश्या विलुप्तधनसारम् इवाल्पसत्त्वम्

20

दावाग्निभस्मपरुषैः पवनैर् उदस्तम् एतद् भ्रमत्य् अविरतं तरुपर्णचक्रम् ।
उत्पीड्यमानम् अनिशं निरवग्रहेण संसारचक्रम् इव कर्मसमीरणेन

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc