भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 19-38

19

विलम्बितुं नाथ न युज्यते ऽधुना विशीर्यते नौर् इयम् अम्बुताडिता ।
स्फुरन्त्य् अमी वीर समन्ततो झषाः प्रमृष्टगुञ्जाफलरक्तलोचनाः

20

अथ स महात्मा तेन दुर्विषहेण परव्यसनेनोपतप्तमानसः स्वप्राणात्ययम् अविगणय्य निष्प्रतिकारदारुणां तां महाजनव्यापत्तिम् अवेत्य कृपापरिगतात्मा प्रकृतिधीरतया तदवस्थो ऽप्य् असंभ्रान्तचेतास् तत्कालातिशयध्यायिना वचसा तान् सहायान् आश्वासयन्न् अब्रवीत् ।
मृतेन सार्धं न वसन्ति सागराः प्रसिद्धिर् एषाम् इयम् एव शाश्वती ।
अतो ममाश्रित्य मृतं कडेवरं तरन्तु सन्तो ऽम्बुनिधिं सुदुस्तरम्

21

संयुक्तसंयोगम् उपेत्य सर्वे निराकुलाः प्रोज्झ्य विषाददैन्यम् ।
आत्मानम् उत्तारयितुं यतध्वं महार्णवान् मां च परार्तिपङ्कात्

22

आपद्गतानां सुहृदां प्रियाणां चिरानुबद्धप्रणयाशयानाम् ।
को ऽन्यो ऽस्त्य् उपायो रमणीयरूपस् तत् कार्ष्ट मा स्नेहमयं विषादम्

23

शत्रोर् अपि व्यापदम् आपतन्तीं स्वप्राणमूल्येन निवारयेयम् ।
प्राग् एव युष्माकम् अनल्पकालसंवर्धितस्नेहपरिग्रहाणाम्

24

ममात्मभावैर् अपवृत्तसौख्यैः स्याच् चेत् सुखी कुन्तपिपीलिको ऽपि ।
जरत्तृणानीव तथापि जह्याम् अहं शरीराणि निरस्तखेदः

25

त्राणाशयायां समुपाश्रितानां गुणैः पवित्रीकृतमानसानाम् ।
हिताय देहं त्यजतो ममैकं दयापरीतं किम् इवात्र चित्रम्

26

परार्थचर्याविगुणं शरीरं वृथा गुरुं भारम् इवोद्वहन्तः ।
व्रजन्ति खेदं परिशुद्धसत्त्वाः कृपाकलत्रीकृतजीवलोकाः

27

एवंविधे यदि न कायम् इमं प्रयोक्ष्ये पुण्यागमे निरुपमानसुखानुबन्धे ।
को ऽर्थो ऽमुना परिहृतेन कडेवरेण वाताहताम्बुनिधिबुद्बुददुर्बलेन

28

त्यक्ष्यामि नेमं यदि पूतिकायं भवद्धिताधानविधानकाले ।
संत्याजयिष्यत्य् अबलं बलात्मा जगद्विनाशावहितः कृतान्तः

29

त्यजामि युष्मान् किम् उदीक्षमाणो यशो ऽथ वा मानगतं च धर्मम् ।
देहं कलीनां पदबन्धभूतं उतावशो मृत्युकराभिमृष्टम्

30

तद् अत्र शोकाय मतिर् न देया भवद्भिर् आसन्नपराभवाय ।
मम क्रमेणैव समागतो ऽयं महोत्सवः पुण्यविशेषरम्यः

31

बहुसुखलवनानातन्तुसंताननेयास् तृणम् इव गतशङ्का देहम् उज्झन्त्य् असन्तः ।
अतिसृजति परार्थं कायम् आसन्ननाशं यदि सुचरितपूर्वं दुष्करं किं नु तत्र

32

अथ ते पुरुषास् तेन तस्याद्भुतेनाभिप्रसारितमानसाः सुतरां तद्वियोगशङ्काव्यथितहृदया विषाददैन्यविधेयाश् चिन्ताविषयातीतगोचरम् अविषह्यम् अतिविस्मयनीयं च तत्कर्म तं महासत्त्वम् अविरताश्रुधाराप्रक्षालितनयनदीनवदनाः पादयोः संपरिष्वज्य प्रणम्य च सर्वाङ्गैर् इत्य् अवदन् ।
कामम् अत्रैव निधनं सर्व एव महोदधौ ।
यास्यामो न तु शक्यामः कर्तुम् एतद् अनार्यकम्

33

एवंविधस्य व्यसनानि दृष्ट्वा सुहृद्विशेषस्य सुदुर्लभस्य ।
प्राणैर् धनैर् वा किम् इहास्ति कृत्यं तत् साहसाद् वारय धीरचेतः

34

उत्तीर्णान् अपि तोयौघाद् अस्मान् अस्माद् दुरुत्तरात् ।
मग्नान् दुश्चरितावर्ते कः समुत्तारयिष्यति

35

नूनं कर्मण एवायं विपाकः प्रत्युपस्थितः ।
येनापद् इयम् आयाता निष्प्रतीकारदारुणा

36

अध्युपेक्ष्य सुहृत्पीडाम् एतां पापानुबन्धिनीम् ।
दुःखान्तम् उपयास्यामः कैर् उपायैः पुनर् वयम्

37

दयामृदुकसंतानं कुर्याद् अन्तावसायिनम् ।
इदं कर्मावदानं ते प्राग् एवार्य सुहृज्जनम्

38

अथ बोधिसत्त्वः सुतरांस् तैस् तेषां सौजन्यसूचकैर् वचोभिः प्रविजृम्भमाणतीव्रप्रसादप्रेमगौरवकारुण्यस् समनुनेष्यंस् तान् सहायकान् अनुकम्पामृतवारिभिः सिञ्चन्न् इव तृप्तिविसर्गैर् इत्य् अब्रवीत् ।
भवद्भिर् अनधीष्टो ऽहं स्वभूत्यै देहसंज्ञकम् ।
त्यजाम्य् अनर्थं तत्र स्याद् युष्माकं किम् अनार्यकम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc