भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 129-18

129

प्रव्रज्याम् अथ समुपेत्य ताः कुमार्यस् तत्त्वार्थप्रविचयशुद्धबुद्धिनेत्राः ।
उत्तेरुर् मदविरसं चलत्तरङ्गं संसारव्यसनमहार्णवं दुरन्तम्

130

सर्वार्थप्रकृतिविभागनिश्चितात्मा सर्वेभ्यो मुनिर् इतिवृत्तकं जगाद ।
मोहान्धे जगति समन्तचक्षुर् एकं सत्त्वेभ्यो भवभयकण्टकक्षतेभ्यः

1

॥ इति श्रीसप्तकुमारिकावदानं समाप्तम् ॥
॥ कृतिर् आचार्यभदन्तगोपदत्तस्य ॥
13. सार्थवाह
जरत्तृणानीव शरीरकाण्य् अपि त्यजन्ति सन्तो न च लीनमानसाः ।
कृपाजलक्षालितदेहमत्सरा जगद्विपत्तिज्वलनोपशान्तये

2

तद्यथानुश्रूयते ।
बोधिसत्त्वभूतः किल भगवान् संतोषाभ्यासाद् अपगतभवोपभोगविशेषाभिलाषः सुपरिज्ञातसंस्कारस्वभावत्वात् स्वदेहे ऽप्य् अस्तमितस्नेहानुबन्धस् तृष्णादोषप्रत्यक्षज्ञानतया तदभिधेयमानसो जन्मान्तराभ्यस्तविविधलाभकुशलत्वाद् उपायान्तरेणापि धनार्जनसमर्थः समुपचितपुण्यसम्भारतया चाभिप्रायमात्रेणापि द्रविणविभूत्याकर्षणप्रभुः प्रभूतवित्तोपकरणो ऽपि सन् केवलम् उदधिगतजगद्व्यसनोपरित्राणायविअ संकेतप्रचारसांयात्रिकपरिवृतो महासमुद्रम् उपजगाम ।
अथावगाढाः पयसां निधानं गम्भीरभीमायतपङ्क्तिरन्ध्रम् ।
वेलाचलोपघ्नविशीर्णफेनसितान्तलेखं वणिजः क्रमेण

3

तत्कर्मभिर् वा परिणामरौद्रैः स्वभावतो वाम्बुनिधिः क्षणेन ।
पर्याददानो हृदयानि तेषां संवर्तकालाधिकदारुणो ऽभूत्

4

खरमकरकराग्रच्छिन्नबालप्रवालद्रुमरसपरिभोगापाटलावर्तचक्रम् ।
वियद् इव नवसंध्यारञ्जिताम्भोदजालं सलिलनिधिम् उदीक्ष्य त्रासमूकास् त आसन्

5

वनम् इव कुमुदानां धौतम् इन्दोर् मयूखैर् विषमितसितफेनच्छेदविन्यासचित्रम् ।
लवणसलिलराशिं वीक्षमाणाः समन्तान् न रतिम् उपययुस् ते प्राणसंदेहकाले

6

विवृतदशनशङ्खध्वानवित्रस्तमीनो भुजगभुवनशृङ्गप्रान्तभिन्नोर्मिजालः ।
हृदयम् उदधिर् अल्पस्थाम तेषां बिभेद स्फुरितविकृतनक्राक्रान्तविस्तीर्णकुक्षिः

7

अनिलबलविभक्तैः शैलतुङ्गैस् तरङ्गैर् नभ इव निगिरन्तं सार्कनक्षत्रचन्द्रम् ।
तम् उदधिम् अवलोक्य प्राणसंदेहदोलां कृपणकमनसस् ते सर्व एवाधिरूढाः

8

भुजगम् इव विषाग्निच्छेदमालाकरालं श्वसनविकचभोगं क्रुद्धम् उद्वीक्षमाणाः । लवणजलनिकेतं तं दुरालोकपारं मरणभयविषण्णास् ते परं मोहम् ईयुः

9

निचयम् इव घनानां वारिभारालसानां तिमिरम् इव वमन्तं वीचिचूर्णप्रवेगैः ।
जलनिधिम् अवगाढास् ते निराक्रन्दभीमं मुषितवदनशोभा बोधिसत्त्वं प्रणेमुः

10

अदृष्टपूर्वैर् अथ तन्निमित्तैर् भयंकरैर् आकुलिता विचित्रैः ।
इत्य् ऊचुर् आगद्गददीनकण्ठास् तं बोधिसत्त्वं समुदीक्षमाणाः

11

अयं जनस् त्वत्प्रतिबद्धसर्वप्रयोजनाशाविनिवृत्तचेष्टः ।
यद् अत्र कृत्यं क्रियतां तद् आशु प्राणात्ययः संप्रति वर्तते नः

12

निरीक्षमाणस्य पुरो जनस् ते निरुद्यमो मज्जति तोयराशौ ।
कालातिपातो ऽत्र न युक्तरूपः पराक्रमस्व स्वबलेन तस्मात्

13

त्वत्पादमूलानुचरो न कश् चित् संस्पृष्टपूर्वो व्यसनैः कदा चित् ।
त्रायस्व तस्माद् विपदां मुखेषु भ्रमन्तम् एनं नरवीर लोकम्

14

पितेव पुत्रान् अनुकम्पमानस् तन् नो भयान् मृत्युकरोदरस्थान् ।
विमोचयास्मान् परमार्यसत्त्व त्वं नः परित्राणम् उपद्रवेभ्यः

15

न देवतानाम् अपि भूमयस् तास् तव प्रभावा न चरन्ति यासु ।
तद् एष कालः कृपणान् अनाथान् अस्मान् परित्रातुम् अवन्ध्यशक्ते

16

मन्यामहे त्वं समनुस्मृतो ऽपि त्राणं परं सर्वजगद्भयेभ्यः ।
प्राग् एव साक्षाद् अभिवीक्ष्यमाणस् तत् पौरुषं दर्शय लोकबन्धो

17

अमी दंष्ट्राचक्रक्रकचकलिलव्यात्तवदना
जिघांसन्ति क्रूराः पृथुविवरविस्तीर्णजठराः ।
पुरास्मान् अत्राणांस् तिमिमकरचक्रा भयमयाः
परित्रायस्वेमं निकटविनिपातं जनम् अतः

18

स्वपुच्छविच्छिन्नतरङ्गसंकला निशातदन्तान्तविलग्नशुक्तयः ।
अभिद्रवन्त्य् आर्य पुरा तिमिङ्गिला जनान् इमांस् त्वच्चरणाश्रितान् अपि

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc