जातकमाला · श्लोक 39-58
अकाले कौमुदी ह्य् एषा नैवैतद् व्यसनं मम ।
प्रतीकारो मया लब्धो विपदाम् एष शाश्वतः
सौहार्दविश्रम्भनिरत्यया वो यद्य् अस्ति का चिन् मयि चित्तवृत्तिः ।
न कर्तुम् अर्हन्ति ततो भवन्तो धर्मस्य कीर्त्याभरणस्य विघ्नम्
चित्तं बलाद् अपि हिते विनियोजनीयम् आर्यैर् अनार्यम् अहिताच् च विवेचनीयम् ।
तस्मात् प्रवृत्तिम् इह कर्मणि साधुजुष्टे नार्हन्ति विघ्नयितुम् अश्रुमुखा भवन्तः
अनुपादानम् एवास्य परार्थं चापरिग्रहः ।
मां संप्रतीक्षते कायकले रन्ध्रप्रहारिणः
उपात्तो ऽप्य् अयम् अस्माभिर् अनादेयो न नीयते ।
यदि सत्त्वार्थसाचिव्यं को ऽनेनार्थः प्रणाशिना
यदि नाभ्युद्धरिष्यामि युष्मान् अस्माद् दुरुत्तरात् ।
कथम् उत्तारयिष्यामि लोकं संसारसागरात्
एतानि चान्यानि च बोधिसत्त्वाः कुर्वन्ति कर्माण्य् अविपन्नसत्त्वाः ।
परार्थचर्याविषये चरन्तः कृपानुभूताः स्वसुखानुरागाः
अनावृतद्वारम् इदं निकेतनं दुरावहाणां भवदुःखपत्त्रिणां ।
चिरात् प्रमोदायतनी करिष्यते मया शरीरं सुहृदां हितागमे
भवत्परित्राणमये सुखोदये नियोज्य कायं नियतं मयाप्स्यते ।
अभेद्यम् अच्छेद्यम् अहार्यम् अव्ययं निरुत्तरं धर्मशरीरम् अव्रणम्
अमित्रभूतं यदि मित्रसाद् इमं कलिं करिष्यामि न कायसंज्ञकम् ।
विधक्ष्यते विप्रतिसारवह्निना मनो विनिश्वासशिखेन मे चिरम्
गतविक्लवा भवन्तो मदीयम् उद्गतप्राणं शरीरं प्लवम् इवालम्ब्यान्योन्यसंसक्तिकया वारिवेगवशेन येन वातेन वा दिग्भागेन स्थलम् उपगम्य पर्णमूलफलजलादिभिर् यापयन्तः परस्परम् अविपन्नसौहृदाः कर्मस्वकतावलम्बिनो लोकस्वभावम् अवेक्षमाणा विनीतविवादशोकदैन्याः कार्यावसानम् आगमयत । सुखम् अनुभूय दुःखम् अप्य् अनुभूयते । संपत्तिम् अप्य् उपास्य विपत्तिर् उपास्यते । संसारचारकावचराणां हि एतद् एव पर्याप्तं व्यसनम् अतः प्रतिकष्टतराण्य् अप्य् अत्र कृच्छ्राण्य् आसाद्यन्ते श्रुतिमनोविदाहिनी । न ह्य् एनम् अनुपतन् कश् चित् सुखी नाम । प्रबलानिलाकुलानलज्वालाकलापमध्यगतस्यानुक्तसिद्धं दाहदुःखम् । तृष्णाविधेयमनसां चाभिमुखः पराभव उत्सङ्गगतानि सर्वदैन्यान्य् आसन्नवर्ती परिभवो भयम् उपरि व्यवस्थितम् अभितो विप्रलम्भवैकृतानि । संक्षेपतः सर्वम् अशिवजालम् उपगृह्य तृष्णा नरम् उपबध्नाति । स च मद्वियोगदैन्यावकाशो न हृदि करणीयः । ईदृशो हि लोकस्वभावो वियोगदुःखानुगता एव हि प्रियजनसंयोगाः ।
दीर्घकालपरिचयाद् दृढस्नेहनिबद्धान्य् अपि सौहृदानि क्षणेन विश्लिष्यन्ति । प्राणिनां विपर्यासश् चैष चेतसः प्रियो ऽयं ममेति । दृश्यन्ते कारणान्तरविपर्ययात् परिवर्तमानानि प्रियाप्रियाणि जीवलोके । तस्मान् न परतन्त्रेष्व् अपरिनिष्पन्नस्वभावेषु प्रकृतिभेदवर्तिषु विप्रलम्भपदस्थानेषु क्षणविपरिणामलोलशीलेषु शोकायासमयेषु प्रियसमागमेष्व् अभिनिविश्यात्मा खेदयितव्यः । तत्र सुखं धैर्यम् एव परुषाणाम् आपत्स्व् अवलम्बो भवति विषादम् अवधीरयति शोकम् उपरुणद्धि विघ्नयति आपदम् आपतन्तीं प्रज्ञानसहितं च तद् एवाभिमतम् अर्थम् आनयति ।
शोकानिवृत्तिस् तु निष्प्रयोजनम् आश्रयं संतापयति कृत्यम् अन्तरयति कान्तिम् आच्छिनत्ति प्रतिभानम् आयासयत्य् आसन्नस्नेहदुःखं सुहृज्जनं .... धर्मार्थयशःसुखानि चोपहन्ति । मत्कृतम् अनुपश्यद्भिस् तु भवद्भिः पुण्येष्व् आदरः करणीयः । पुण्यम् एव हि प्राणिनाम् इहामुत्र च निरत्ययो बन्धुर् आपत्सु विषादी सहायः पाथेयम् अयत्नवाह्यं प्रदीपस् तमसि प्रपातेषु संक्रमं भयस्थानेष्व् आरक्षा मङ्गलम् अद्वैधसिद्धम् अत्यन्तिकं सिद्धं सूपचरः स्वामी परायणम् आपद्गतानाम् आयतनम् अविपरिणामिनां सुखानां क्षेत्रं दिशाविदिशान्तव्यापिनां यशसां आकरः प्रशंसानाम् अनभिभूतं वैशारद्यम् । पुण्यावष्ठम्भाद् एव च पुरुषो दुरवगाहे ऽपि सुखम् अवगाहते । परलोककान्तारे विषादपदस्थाने ऽपि नाम मरणसमये न विषीदन्ति पुण्यकर्माणः । कण्टकप्रचयकर्कशान्य् अपि जन्मदुर्गाणि प्रायेणाक्षताः संचरन्ति पुण्यबलिनः । पुण्यैर् एव चाखिलजगद्धितसुखाध्याशयप्रवृत्तिविस्तीर्णाम् आकर्षयन्ति सकलभुवनाधिपत्याभिषेकमहतीं सर्वलोकसाधारणां ताथागतीं गुणसमृद्धिं प्राग् एव प्रतनुसुखानवकाशादीनवां प्रचुरजनमनोविकारिणीम् अनन्तदुःखबाणसंनिपातदूषिताम् आयासिनीम् इह परत्र च बालिशानां प्रतिक्षणव्ययानुबन्धादूषिताम् अनेकरूपवैरकृतानुषङ्गदारुणां भवभोगमयीम् अशिवाम् अखिलां विपरीतसुखाभिनिवेशखलां संपत्तिसंज्ञान्तरितां विपत्तिम् अकारणभ्रंशमनोविदाहिनीम् इत्य् अलम् इति प्रसङ्गेनातिपतति । कार्यकालश् चरमसंदेशो ऽयं भद्रमुखा इत्य् उक्त्वा बोधिसत्त्वो मुहूर्तम् एकाग्रमनो बभूव ।
निवार्यमाणो ऽपि शतैः सुहृद्भिर् बाष्पाम्बुविस्यन्दिविलोचनान्तैः ।
साधुः स्वदेहाश्रयणीम् अपेक्षां तत्याज लोकव्यसनोपतप्तः
आर्तस्वरैर् अविरतैर् अविभक्तवर्णैस् तेषां विषादपरिलुप्तमनःस्थितीनाम् ।
आपूर्यमाणसलिलप्रदरान्तरालः संचुक्षुभे भृशतरं लवणाम्बुराशिः
बोधिसत्त्वो ऽपि महासत्त्व इति प्रणिधिम् उपबृम्हयाम् आस शान्तये सर्वसत्त्वानाम् ।
दिव्या तावत् प्रकृतिचपला सोपसर्गा विभूतिः
प्राग् एवान्या परिमितसुखप्रत्ययप्रत्यपाया ।
तस्मान् नार्थो मम ⏑ ⏑ सुखैः स्वप्नमायोपमानैः
पुण्याद् अस्मान् न च शमसुखं प्रार्थये प्रोज्झ्य लोकान्
मोहावर्ते मरणमकरे मानपाषाणगर्भे
तृष्णातोये मदनकलुषे क्रोधसंसर्पिसर्पे ।
मग्नं लोकं भवजलनिधौ शोकवातावधूते
पुण्याद् अस्माद् अहम् अशरणं कृत्स्नम् उत्तारयेयम्
एवं कृत्वा प्रणिधिम् अचलं साद्रिसारस्थिरात्मा
त्यक्तापेक्षः सुचरितशतोपार्जिते ऽपि स्वदेहे ।
निस्त्रिंशेन प्रमुदितमनाः पाटयाम् आस कुक्षिं
स्वां शोकार्तिव्यथितहृदयः प्राणिनां तारणाय
अथ शुश्रुविरे गिरः शुभाः सुरविद्याधरयक्षरक्षसाम् ।
इति चित्रमनोहराश्रयाः पतितास् तस्य गुणोपसंहिताः
सत्त्वार्थप्रतिपत्तिकौशलम् अहो ही धीरता चेतसः
पुण्याभ्यासविशेषपुण्यमहताम् आश्चर्यरूपस्थितिः ।
साधूनां स्वसुखानुरागविगमस्वच्छा बत प्रक्रिया
– – – ⏑ ⏑ – ⏑ – बत कृपा नापेक्षते स्वाश्रयम्
लोको ऽयं विनिमीलितो ऽपि विदुषा प्रोन्मीलितः सर्वतः
कीर्त्या चन्द्रमयूखधौतकुमुदच्छाया ⏑ – – ⏑ – ।
एतेनैव निमज्जतापि भुवनं मग्नं समभ्युद्धृतं
जन्मावस्करकर्दमे स्फुरदुरुक्लेशक्रिमिव्याकुले
तिर्यग् विक्षिप्यमानं नवजलशिशिरैर् मन्दमन्दैर् मरुद्भिर्
दिव्योद्यानद्रुमेभ्यः कुसुमम् अविरतं तच्छरीरे पपात ।
अभ्युद्गम्याम्बुराशेः स्फुटमणिकिरणश्रीकरालैः शिरोभिर्
व्याभुग्नोपान्तमध्यैः कुवलयमृदुभिस् तं भुजङ्गाः प्रणेमुः
लक्ष्म्या समालब्धम् इव प्रकामं प्रमृष्टचामीकरचारुवर्णम् ।
समुद्गतप्राणम् अपि प्रसन्नं रराज तत् तस्य विभोः शरीरम्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0