भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 109-128

109

कदा सरिन्निकुञ्जस्थास् तरङ्गैर् उदयव्ययम् ।
उज्झामो जीवलोकस्य भिद्यमानैर् मुहुर् मुहुः

110

सत्कायदृष्टिम् उत्पाट्य सर्वात्मदृष्टिमात्रिकाम् ।
निःस्पृहा भवभोगेभ्यो भविष्यामः कदा वयम्

111

अवभोत्स्यामहे लोकं कदा नु सचराचरम् ।
स्वप्नमायामरीच्यभ्रगन्धर्वनगरोपमम्

112

इति यासां प्रिया त्रातः स्पृहा हृदि विजृम्भते
वरेण तासां को न्व् अर्थः सामिषेण चलेन च

113

अपि च सुरेशान वरप्रदानचित्तक ।
मिथ्याविकल्पक्षणमात्ररम्याः स्वभाववामाः सुरनाथ कामाः ।
विवर्जिताः सद्भिर् उदारचित्तैर् महाप्रपाता इव सान्धकाराः

114

सर्वानयोपद्रवहेतुभूताः कामाः खलीकारकरा नराणाम् ।
जुगुप्सिताश् चैव भयावहाश् च पुरीषदिग्धा इव कृष्णसर्पाः

115

यान् सेवमाना निधनं प्रयाताः प्रयान्ति यास्यन्ति च सत्त्वकायाः ।
तान् वध्यघातप्रतिमान् भजेत को नाम कामान् अघहेतुभूतान्

116

शक्रे च ये पांशुपिशाचके च सुरेन्द्र तुल्यं दधति स्वभावम् ।
असद्विकल्पप्रणयोद्भवत्वात् सेवेद् धि कामान् मनसापि कस् तान्

117

वैडूर्यनीलहरितोद्गतशाद्वलानि त्यक्त्वा वनानि कुसुमोन्मिषितद्रुमाणि ।
तीक्ष्णाङ्कुशोल्लिखितजर्जरकुम्भदेशा भारान् वहन्ति विषयैश् छलिता गजेन्द्राः

118

शूलान्तलग्नवपुषः परिवीज्यमानाः पक्षानिलैर् नगरवायसमण्डलानाम् ।
व्याजेन मित्रनयनैर् अभिवीक्ष्यमाणा नाशं व्रजन्ति पुरुषा विषयाहिदष्टाः

119

प्रज्वाल्य कामदहनं स्वयम् एव बाला मिथ्याविकल्पपवनैः स्वमनोगृहेषु ।
आत्मानम् एव हि दहन्ति शरच्छतानि संघर्षजेन दहनेन यथैव वंशाः

120

अपि च कुलिशपाणे वैजयन्ते विहृत्य स्फुरितमणिमरीचिश्रीसमुन्मेषरम्ये ।
ज्वलदनलकरालां यान्ति भूयो ऽप्य् अवीचिं यदि विषयविषक्ताः स्वस्ति तस्मै सुखाय

121

भवतु कुगतिर् अन्ते स्वर्गवासस्य सा वा
च्यवनपतनदुःखक्लीबलोलेक्षणस् तु ।
यद् अनुभवति दुःखं देवलोकाभिनन्दी
ननु सुखम् अनुभूतं तेन पूर्वानुभूतम्

122

विकचकनकपद्मच्छत्त्रसंसुप्तहंस्यां
यदि सुरपुरवाप्यां रत्ननौभिर् विगाह्य ।
पतति पुनर् अकामः कर्मभिर् वैतरण्यां
क्वथितनरकरङ्कव्याकुलान्तर्जलायाम्

123

परिणतिविरसेभ्यः स्वप्नमायोपमेभ्यः
सुरभवनसुखेभ्यः का स्पृहा शक्र तेभ्यः ।
कुपितभुजगजिह्वाचञ्चलं जीवलोकं
सकलम् इति विदित्वा मोक्षकामाः स्थिताः स्मः

124

सुखम् इदम् इति मिथ्याकल्पनामात्रम् एतद्
भवगतिगहनान्तर्वर्तिनां बालिशानाम् ।
भवम् अवितथवादी दुःखम् इत्य् आह बुद्धः
सकलम् अपि यतो ऽस्मान् सर्वदुःखप्रसूतिः

125

प्रकृतिबहुलदुःखोपप्लुते जीवलोके
भवति यद् अपि सौख्यं काकतालीयम् अस्मिन् ।
व्रजति तद् अपि नाशं दुःखजालाभिभूतं
सलिलम् इव नदीनां प्राप्य सामुद्रम् अम्भः

126

यस्मात् स्त्रीणां करकिसलयैः पद्मपत्त्रोपमानैः
किंचित्स्थानं कलितवलयैश् चन्दनाश्लेषशीतैः ।
स्पृष्टः स्नेहश्लथमुकुलिताताम्रवृत्ताङ्गुलीयैर्
निद्रां प्राप्य व्यजनपवनव्यस्तमालोपहारः

127

भूयः शेते क्लमगुरुतनुर् दर्भसूचीकराले
मार्गे भस्मव्यतिकरखरैर् वीज्यमानो मरुद्भिः ।
तस्मान् मत्वा क्षणसुखलवं चञ्चलं जीवलोकं
त्यक्त्वा कामान् व्यसनफलदान् ब्रह्मशान्तं भजेत

128

दशशतनयनो ऽथ कन्यकानां हृषिततनूरुहकञ्चुको वचोभिः ।
व्यवसितम् अभिनन्द्य चैव तासां त्रिदशपुराभिमुखो ययौ क्षणेन

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc