भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 90-109

90

वरम् एवंविधं शक्र भवन्तं प्रार्थयामहे ।
प्रतिज्ञातार्थविधुरं चेष्टन्ते न हि साधवः

91

अथ शक्रस् तेन तासां विषयप्रार्थनाकार्पण्यानपेक्षास्वच्छशोभिना वचसा प्रविजृम्भमाणविस्मयः प्रसादसंहृषिततनूरुहः प्राह ।
अशक्यम् अर्थं खलु याच्यमानो विघातदीनत्वम् उपैति लोकः ।
वरं वृणीध्वं नरदेवकन्या यद् एव शक्येत मया प्रदातुम्

92

अथ ता दारिकास् तेन तस्यान्तर्निगूढशाठ्यविकल्पितेन वचसा समुपजातसंवेगामर्षाः शक्रम् ऊचुः ।
उपलापयसे किमर्थम् अस्मान् उपगम्याद्य सहस्रलोचनैवम् ।
सुखमात्रकदुर्विदग्धबुद्धे प्रखलास् तेन वयं न चापि गम्याः

93

विदितो भवतो न राजवंशः किम् असौ दिक्षु विकीर्णकीर्तिपुञ्जः ।
धनदो ऽप्य् अयथार्थनामधेयो धनसारं समवेक्ष्य यस्य नूनम्

94

यम् अपास्य वयं जरार्तिमृत्युव्यसनायासविघातदैन्यभीताः ।
सुरनाथ दशाम् इमां प्रपन्ना न भयान् नापि च बालचापलेन

95

कृतपुण्य विहेठिताभिर् अर्थस् तव को ऽस्माभिर् अतीव दुःखिताभिः ।
उपजीव सबन्धुमित्रभृत्यो विभवन् नन्द च शक्र दीर्घरात्रम्

96

सुकृतोज्ज्वलभागधेययोगाद् यदि देवाधिपतिर् भवांस् ततः किम् ।
न हि संपदम् आप्नुवन्ति सन्तः परहेठाकरणाय देवराज

97

अथ महेन्द्रस् तासां स्फुटविचित्रमहार्थसारसूचकैर् वचोभिर् आप्यायितविस्मयः प्रसादाभिव्यज्यमानवदनशोभः पुनर् अपि भावजिज्ञासुर् अर्थान्तरातिशयशुश्रूषया वाचात्युवाच । मा तावद् भगिन्यः
नाथन्ते दर्शनस्यापि मम लोके तपोधनाः ।
किमर्थम् एवं वरदे मयि यूयं तु निष्ठुराः

98

अथ ताः कुमार्यः पुनर् अभ्यधिकतरजनितमन्युकोपाः सामर्षं रूक्षाक्षरं त्रिदशपतिम् ऊचुः ।
अन्यथैव सितापाङ्गमुखस्मितविलोकितम् ।
दृश्यते वदनं शच्या दीयते वरम् अन्यथा

99

वरप्रदाने यद्य् अस्ति शक्तिस् तव पुरन्दर ।
जहीहि प्रखलां तावद् विषयाशापिशाचिकाम्

100

अथवा दुस्त्यजाः कामा मिथ्यासंकल्पलोलुपैः ।
त एव सन्तु ते नित्याः प्रभावो ऽस्ति यदीदृशः

101

अध्रुवेषु सहस्राक्ष कामेष्व् आसक्तमानसः ।
वरं वद कथं नाम त्वम् अन्यस्मै प्रदास्यसि

102

उह्यमानः कथं नाम सरिता भीमवेगया ।
उत्तारयिष्यस्य् अपरान् परिक्षामजडाश्रयः

103

पांशुकूलाम्बरधरा व्यपनीतशिरोरुहाः ।
अरण्याद् ग्रामम् एष्यामः कदा नस् तद् भविष्यति

104

युगमात्रविलोकिन्यो मृत्पात्रव्यग्रपाणयः ।
सावधानं कदा भिक्षां चरिष्यामः कुलात् कुलम्

105

असक्ता लाभसत्कारपङ्के संक्लेशसंकटे ।
कदा विशोधयिष्यामो देयधर्मानुरागिणः

106

पलालपुञ्जाद् उत्थाय नीहारगुरुचीवराः ।
यथेच्छम् अन्नपानार्थे यास्यामो निःस्पृहाः कदा

107

तरोर् मूले शुकश्यामे मृदुशाद्वलकञ्चुके ।
कदा निषद्य प्राप्स्यामो दृष्टधर्मसुखोत्सवम्

108

कायजीवितयोस् त्यक्त्वा जरत्तृणलवेष्व् इव ।
अपेक्षां सुचिराभ्यस्ताः कदा लप्स्यामहे सुखम्

109

कदा सरिन्निकुञ्जस्थास् तरङ्गैर् उदयव्ययम् ।
उज्झामो जीवलोकस्य भिद्यमानैर् मुहुर् मुहुः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc