जातकमाला · श्लोक 70-89
अन्तरात्मानम् इच्छन्ति यम् अविद्यान्धबुद्धयः ।
विज्ञानधूर्तकः क्वासौ गतस् तीर्थविमोहकः
चिरं व्यामोहितं येन न तत्त्वेषु प्रतिष्ठितम् ।
जगत् क्व नु प्रयातो ऽस्माच् चित्तचित्रेन्द्रजालिकः
न जानन्ति गतिं यस्य कपिलाद्यास् तपोधनाः ।
चित्तविद्याधरः क्वासौ विषयाम्बरगोचरः
चचार यो ऽस्मिन्न् अशुचौ नवद्वारे चलाचले ।
शरीरपञ्जरे सो ऽद्य क्व नु चित्तविहङ्गमः
येनाविष्टा भवजलनिधौ क्लेशसंसर्पिसर्पे
तीव्रच्छिद्रव्यसननिवहक्षारवारिप्रपूर्णे ।
मज्जन्त्य् अज्ञा मरणमकरक्षोभचञ्चत्तरङ्गे
यातस् त्यक्त्वा क्व नु तनुम् इमां चित्तनक्तंचरो ऽसौ
अदान्तत्वाद् यो ऽसौ क्षिपति नरके व्यार्तम् अवशम्
स्फुरद्वह्निज्वालावलयकपिलद्वारविवरे ।
यमोपायं यस्य व्यपगतमदो वेत्ति भगवान्
क्व यातो ऽसाव् अस्मात् प्रकृतिचपलश् चित्ततुरगः
अथ कुलिशमरीचिश्यामपीनप्रकोष्ठः
सविनयम् उपगम्य प्रीतिविस्पन्दिताक्षः ।
अनुनयरमणीयं साधु साध्व् इत्य् उवाच
प्रकृतिसुभगवाचा वासवः कन्यकास् ताः
नववयसि भगिन्यो मन्मथावासभूते
नृपतिकुलविभूतिश्रीसुखं पर्युदस्य ।
ऋषिभिर् अपि पुराणैर् दुष्करं संप्रपन्ना
व्रतम् इदम् इति तुष्टो ऽस्म्य् अद्य वः किं वृणीध्वम्
करतल इव मन्ये कामधात्वीश्वरत्वं
त्रिदशपतिसुखं वा निश्चयस्यास्य वो ऽद्य ।
लघु वदत भगिन्यः किं करोम्य् एष वश्यः
स्फुरति मनसि यद् वो देवराजो ऽस्मि शक्रः
अथ विषयसुखेभ्यो निःस्पृहास् ताः कुमार्यः
प्रकृतिरुचिरभावास् तिर्यग् आलोक्य शक्रम् ।
जगुर् इदम् अनवद्यं सुष्ठु चित्रार्थवाचः
स्वकुशलपरिपाकाङ्गारधीरस्वभावः
न वयम् अमरबन्धो जन्मदुःखातुरत्वाद्
भवसुखलवलोलात् तन्तुसंताननेयाः । (?)
व्रतम् इदम् अनुबद्धाः शोकबाष्पाम्बुलेशैः
कलुषवदनशोभान् बान्धवान् अप्य् अपास्य
अपि तु जगद् अशेषं दुर्नयाविद्धतीव्र-
व्यसनशतसहस्राघातनिर्भिद्यमानम् ।
कृपणम् अभिसमीक्ष्य क्षीणदोषानुजातं
पदम् अभयम् अशोकं प्राप्तुम् अभ्युद्यताः स्मः
प्रभवसि शतमन्यो त्वं वरं संप्रदातुं
यदि जगदनुकम्पापेशलाध्याशयत्वात् ।
पदम् अजरम् अहार्यं ब्रह्मशान्तं तदार्यं
भवभयपरितप्ताः प्रापयास्मान् विमोक्षम्
कायावस्करनिर्झरस्रुतमलक्लेदोपदिग्धाश्रयो
निर्याणास्थिकटाहकार्पितशिरा मूर्च्छातुरो निष्पतन् ।
गर्भान् मातुर् अमेध्यपङ्कगहनाद् याम् अप्रहायाश्नुते
दुःखं दुःखपरंपरां च परतस् तां छिन्द्धि जातिं हि नः
जगन् निर्मर्यादा दशति शिरसि व्यावृतमुखी
जरा रक्षोयोषित् पलितसितदंष्ट्राङ्कुरवती ।
नृणां यासौ वीर्यस्मृतिधृतिमतिश्रीप्रमथिनी
ततस् त्रायस्वास्मान् प्रभवसि यदि त्वं सुरपते
श्वासोत्क्षेपचलत्कठोरजठरो व्यापाण्डुरूक्षच्छविः
संप्राप्तान् अपि भोक्तुम् अप्रतिबलो भोगान् विचित्रोज्ज्वलान् ।
येनादष्टवपुः सुरेश्वर ततो रोगाभिधानाद् भयात्
त्राता नो भव मृत्युदूतपुरुषाद् दित्सुर् वरं चेद् भवान्
प्रत्यावृत्तस्तिमितनयनो मर्मविच्छेददुःख-
क्षोभायासप्रतिहततनुः शीतविष्टब्धगात्रः ।
पश्यन् बन्धून् नयनसलिलस्नातगण्डाधरान्तान्
येनाघ्रातो व्रजति विलयं पाहि मृत्योस् ततो ऽस्मान्
येनालिङ्गितमानसः पशुर् इव व्याप्नोति शोच्यां दशां
कार्याकार्यविभागपेलवमतिर् निन्दास्पदं जायते ।
ह्लादं नैति तमालशीकरमुचाप्य् आलिङ्गितो वायुना
तन् नो रागहुताशनं वरद हे निर्वापयापायिकम्
यस्यावेशात् स्फुरितनयना दष्टदन्तच्छदान्ताः
पापाः पापं नरकम् अशिवं कुर्वते तत्क्षणेन ।
नैवोत्खातो मुनिभिर् अपि यः शीर्णपर्णाम्बुभक्षैस्
तन् नः शक्र व्यपनय मनःकोटरात् क्रोधसर्पम्
येनावारितलोचनः कुमतयस् त्यक्त्वा शिवां वर्त्मनीं
मिथ्यादृष्टिविषोपदिग्धमनसो मार्गान्तरं संश्रिताः ।
हेतुं यत् प्रवदन्ति भिन्नतिमिराः सर्वास्रवोत्पत्तये
तन् नश् छिन्धि मनोगृहान्तरचरं मोहान्धकारं हरे
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0