जातकमाला · श्लोक 67-86
अथासौ महीपतिर् बोधिसत्त्वम् अब्रवीत् ॥
शक्ये तत् कुशलं दातुं स्वसंतानगतं यदि ।
दद्यां तद् अपि सुव्यक्तं भवते कृतवेदिने
वयं राज्यं च दातारो यद् वान्यत् साधु मन्यसे ।
तथैव प्रभुतां तत्र नावगन्तव्यम् अन्यथा
मया यत् पुण्यम् आर्याणाम् एषाम् अपचितेश् चितं ।
त्वदभ्यागमनाकालकौमुदी तत् कृतैव मे
मित्रम् एकान्तकल्याणं बन्धुर् अत्यन्तवत्सलः ।
गुणवान् दक्षिणीयस् त्वं नाथश् चानुत्तरो मम
क्षुद्रसत्त्वो ऽपि को नाम त्वदाज्ञाम् अभिलङ्घयेत् ।
द्रष्टव्यरत्नं दृष्ट्वा च न प्रसीदेद् भवादृशं
एकं त्व् अत्र महाराज वैधुरम् अवगच्छामि । येन मे वक्तुम् अस्त्य् एतान् महर्षीन् अस्मिन् प्रयोजने संकुचति मानसम् ॥ एते हि महात्मानो विवेकरतिप्रियत्वाद् अभिरमन्ते हिमवति शैलराजे ॥ पश्य महाराज ॥
अमी हि हिमवत्प्रस्थाः कदलीखण्शमण्डिताः ।
विवेकायैव साधूनां शङ्खधात्रा विनिर्मिताः
हरिणा लुञ्चितोपान्तशाद्वलश्यामनिर्झरान् ।
देवदारुद्रुमान् पश्य कूटागारान् इवोद्गतान्
ख्यापयन्तीव लोकानां विनिपातं हिमापगाः ।
तरङ्गैः कूलपाषाणभिद्यमानैर् मुहुर् मुहुः
एताः स्निग्धच्छदच्छायाः पद्मकद्रुमराजयः ।
यतीन् आश्वासयन्तीव संसारोद्विग्नमानसान्
क्लान्तानां व्रतिनाम् एष स्वेदबिन्दून् अपोहते ।
प्रालेयकणसंपर्कशिशिरो वनमारुतः
उपत्यकाः पद्मकपुष्पपाटलाः शिलीन्ध्रकापादपवारितातपाः ।
इमा हिमाद्रे रमयन्ति मानसं निवृत्तसंरागविषं विपश्चितां
हिमाचलस्योपनितम्बरोहिणां निरीक्षमाणाः सरलाशिखावतां ।
वनानि चेतःस्थितिम् आप्नुवन्त्य् अमी सुमेधसः कामविवेकपेशलां
बोधिसत्त्वः प्रोवाच ॥
तिमिरद्रुमसंछन्ना विविक्ताभोगकन्दराः ।
तत्राप्य् अनुगुणा सन्ति वेलाशैलः प्रहाणिनां
तालहिन्तालमालिन्यः सरितो हरितोपलाः ।
सन्ति तत्रापि हारीतपक्षविक्षोभितोर्मयः
तरङ्गिनीनाम् उपकण्ठरोहिणां पलाशिनाम् पुष्पभरातुराः शिखाः ।
विधूय तत्रापि यतीन् निषेवते समुद्रवेलाजलशीतलो ऽनिलः
सरसमरिचवल्लीश्यामरोधो वनस्य ध्वनिर् अचलसुरुङ्गामुर्च्छितो ऽप्य् अम्बुराशेः ।
अविरलपरिपातो ऽभ्यासयोगानुपाती स्थिरयति किल भिक्षोस् तत्र चेतःसमाधिं
निर्धौतोपलसानुर् अञ्जनशिलानीलैः पयोधेर् जलैर्
वातायासितचन्दनद्रुमलताविक्षिप्तसूर्यातपः ।
शैलेन्द्रो मलयो ऽस्ति नाम जलदच्छेदावलीशेखरश्
चेतः संयमिनाम् अलं रमयितुं शान्तप्रपञ्चज्वरं
चित्रोत्सङ्गो विषमनिचितैर् धातुपाषाणखण्डैः
शष्पोद्भेदैस् तरुणतरुणैः श्यामपर्यन्तलेखः ।
बद्धामोदो मदजलमुचां दन्तिनां दानगन्धैर्
विन्ध्यो ऽप्य् अद्रिः प्रशममहतां योगिनां संनिवासः
सह्याद्रेर् विलसत्तमालहरिताः प्रस्थाः प्रहाणक्षमा
निःशब्दाक्षरदच्छनिर्झरजलप्रक्षालितप्रस्तराः ।
संन्यस्तव्यवहारशान्तमनसां जन्मप्रबन्धद्विषाम्
आर्याणाम् अनपायिनीं विदधति प्रत्यात्मवेशां रतिं
तीरान्तानतबालवेतसतरुश्रेणीनिरुद्धातपा
नद्यः स्वच्छजलान्तराल विल सन्मीनावलीमेखलाः ।
सख्यः प्रेमनिरत्यया इव सखे तत्राप्य् अलं योगिनाम्
आक्षेप्तुं विषयाभिलाषविमुखं प्रध्यानधीरं मनः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0