जातकमाला · श्लोक 47-66
कच् चिन् नोत्कण्ठयन्ति त्वां दक्सिणापथचन्द्रिकाः ।
प्रध्यानस्तिमिताताम्रपर्यन्तनयनाः प्रियाः
अनपायी भवेत् कच् चिद् अयत्नः सत्समागमः ।
कच् चिद् अत्राभिरमसे स्वदेश इव भूपते
अथ बोधिसत्त्वस् तं राजानम् अम्लानप्रणयशीभरैर् वचोभिः समुत्तेजयन्न् अब्रवीत् ॥
दृष्ट्वैव दर्शनीयं त्वां विश्रान्तो ऽहं महीपते ।
अनार्यस्यापि विश्रम्भः कस्य न स्याद् भवादृशे
त्वय्य् असंस्तुतसद्बन्धौ बान्धवे पुरतः स्थिते ।
किं चान्यद् वल्लभतरं ममोत्कण्ठानिबन्धनं
विदिताश् च महाराज मम प्रियसमागमाः ।
वितथाल्पसुखास्वादव्यसनायासहेतवः
ये ऽर्थाः स्वप्ने ऽनुभूयन्ते ये च निद्रापरिक्षये ।
तेसां निर्भुक्तिमुक्तानां विशेषो नोपलभ्यते
स्वप्नमायोपमानेषु मुहूर्तपरिणामिषु ।
प्रसङ्गं मतिमान् कुर्यान् न प्रियप्रणयेष्व् अतः
प्रियो ममेत्य् एवम् अनादिकालप्रवृत्तम् उद्वृत्तम् अनल्पगर्भं ।
सुखाभिधानं प्रवदन्ति दुःखं व्यतीतदुःखा मुनयः पुराणाः
कृपा कृपावस्तुषु संप्रतार्यते स्त्रियः कृपावस्तु विशेषतः सतां ।
अतो मतिर् मे करुणानुपातिनी प्रियासु राजन् न तु विभ्रमातुरा
स्वभावदीनाः परतन्त्रवृत्तयः सदातुरा मत्सरमानमन्मथैः ।
पथि प्रकीर्णा इव मांसपेशिकाः कथं नु न स्युः प्रमदाः कृपास्पदं
अथ स राजा प्रसादितमानसस् तैर् बोधिसत्त्ववचनकुसुमैः प्रणम्यैनम् अब्रवीत् ॥
आज्ञापय महाराज यत्र मां मन्यसे क्षमं ।
भवद्विधानां कृत्येषु वयम् आनम्रमूर्तयः
प्रसन्नमानसं स चैनम् अवेत्य बोधिसत्त्वः संप्रहर्षयन्न् अब्रवीत् ॥
तवैव सफलं जन्म सुजीवं त्वं च जीवसि ।
ऐश्वर्यं तव पात्रस्थं यथार्था श्रीस् तवैव च
यस् त्वम् एषां भगवतां भवसंभोगविद्विषां ।
सत्कारव्यपदेशेन तनोषि यशसा जगत्
सुहृदः संविभज्यन्ते दारैर् अपि धनैर् अपि ।
संविभागस् तु धर्मेण दुर्लभो भुवि नास्ति वा
धर्मातिथ्यम् अतो राजन् मम त्वं कर्तुम् अर्हसि ।
न हि संभावना सत्सु दृष्टा वन्ध्यफलोदया
स्वर्गो मोक्षः सुखान्य् अर्था धर्माद् एव यशांसि च ।
दधद् धर्मम् अतो युङ्क्ते स्वर्गमोक्षसुखादिभिः
सद्धर्मप्रगुणं मित्रं करणीयं बलाद् अपि ।
एषैव सुहृदां लोके साधोः साधीयसी स्थितिः
अतिथिर् मित्रम् अर्थीव सत्कारायतनं परं
मयि चैतत् त्रयं यस्माद् अतो मे ऽभ्यर्थनां कुरु
स्रवन्न् इव प्रसादस् ते लक्ष्यते मुखपङ्कजात् ।
पुण्यसंभोगवात्सल्यम् उद्गिरंल् लक्ष्यसे गिरा
अनुज्ञाता त्वया राजन्न् इमे प्रक्सीणकल्मषाः ।
वसन्तु दक्षिणीयाग्र्या दक्षिणापथभूमिषु
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0