भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 87-106

87

अपि च महाराज ॥
येषाम् अस्मीत्य् अयम् अपगतश् चेतसो विप्रलम्भो
यैर् अध्यस्तंगमितम् अशिवं स्कन्धसंतानबीजं ।
ये पश्यन्ति व्यसनदहनैर् आ भवाग्रात् प्रदीप्तं
लोकं तेषां न भवति मनो लोकचित्रानुपाति

88

नित्यस्राविणम् अग्निमध्यनिहितं कुम्भं यथा मेदसां
ये लोकार्थम् अनर्थभारविरसं सन्तो वहन्त्य् आश्रयं ।
तेषां रत्नशिलालवालवलयाः कल्पद्रुमा नन्दने
लूतातन्तुवितानधूमशिखरैः कान्तारवृक्षैः समाः

89

आविर् भवन्ति तनवो ऽपि परोपकारा यस्मिंस् तद् एव रमणीयम् उपैति साधुः ।
दुःखेष्व् अनात्मसु चलेष्व् अपरायणेषु किं वा भवेषु रतिकारणम् अस्ति राजन्

90

स्वार्थानुरागकृपणा मतयो नराणां तुच्छे ऽपि वस्तुनि रतिं परिकल्पयन्ति ।
उत्पाद एव महतां हि जगद्धिताय येषां पुरन्दरपुरे ऽपि न ते रमन्ते

91

प्रकृतिचञ्चलाकुलप्रसरं यैश् चित्तम् एतद् वशीकृतं ।
रतिर् उदेति नान्यतस् तेषां अध्यात्मचिन्ताविहारिणाम्

92

रमयन्त्य् अनुद्धृतविकल्पसायकान् सरितः सरांसि गिरयो वनानि च ।
अविकल्पगोचरविचारिणो यतेर् वनम् एव शान्तम् इति निश्चिता मतिः

93

अजितात्मनाम् अनुपतन्ति बुद्धयो विविधान् बहिर्मुखमनोनिबन्धनान् ।
अधिचित्तयोगविदुषां तु योगिनां अतिमानुषे चरति गोचरे मतिः

94

रजसां विपूयपरिणाहिमण्डलं परमाम् अवाप्य वशितां स्वचेतसि ।
अनपायिनीम् अनुभवन्ति ये रतिं भवनं वनं च समम् एव तान् प्रति

95

विषयान्तरान्तरितविभ्रमं मनः प्रशमे रमेत कथम् इत्य् अतो यतेः ।
उपदिश्यते वनतरुप्रतिश्रयो महतां समं तु विषयं मनःसुखं

96

रमणीयम् एतद् इति विकृतं मतेः प्रवदन्त्य् अ वन्ध्य वचसः पुरातनाः ।
कृतिनां मनो हतविकल्पवासनं न समाधिजेष्व् अपि सुखेषु रज्यते

97

जगतां हितेषु चरतां महीपते करुणैकतानमनसां मनस्विनाम् ।
भवति व्यथातनुपरिश्रमैस् तनोर् न च कायजीवितनिकान्तिविद्विषाम्

98

गगनोपमानमनसां स्पृशन्त्य् अमी न मनः सुखारतिविकल्परेणवः ।
सुखम् अन्यद् एव तद् अपाकृतोपमं यद् उपासते सुकृतिनो रणंजहाः

99

व्रतिनाम् अदूरपरिसर्पिणी मनःस्थितिर् एव नाम जननीव वत्सला ।
सुखम् आदधाति तद् अतीतमानुषं न मरुत्पतेर् अपि यद् अस्ति वज्रिणः

100

विहतप्रियाप्रियविकल्पविभ्रमः पृथिवीसमेन विहरन्ति चेतसा ।
नृप यत्र तत्र भवभोगनिःस्पृहा मुनयो ऽतिशान्तसुखमौनलाभिनः

101

अनिकेतसंस्तवपरिग्रहाग्रहाः स्वजने जने च समताविहारिणः ।
त्रिभवोपपत्तिगहनान्तदर्शिनो हिमवद्वनेषु रतिम् आप्नुयुः कथं

102

सुखदुःखयोर् अविषमप्रवृत्तयो नृप येन तेन परितुष्टमानसाः ।
सततं मृगा इव निसर्गतापसा विहरन्त्य् अनावृतविहारगोचराः

103

विसृतां भवद्रुमशिखावलम्बिनीं विविधोपतापपरुषां विषक्तिकां ।
उपहात्य ये पदम् उपासते शिवं त्रिदिवे ऽपि ते नरकवाससंज्ञिनः

104

अनुबन्धिनिं प्रतिनिवार्य संहतिं तमसां किम् अप्य् अनुभवन्ति ये सुखं ।
न सनत्कुमारभवने ऽपि ते रतिं विरतोपसर्गरतयः प्रकुर्वते

105

वनराजयः कुसुमचित्रपादपाः गिरयः कदम्बतरुचुम्बिताम्बुदाः ।
सरितश् च हंसकुलभिन्नवीचयः परिदुर्बले मनसि लब्धप्रवृत्तयः

106

शिरःकंपोल्लसच्चारुकुण्डलः स महीपतिः ।
साधु साध्व् इति संराध्य प्रतिजग्राह तद्वचः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc