भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 63-82

63

रजसापि विरूक्षितात्मभावाः परुषैश् चोपहता गदप्रहारैः ।
महतीम् अपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः

64

हरिणो हरिणेव बन्धुमध्याद् अभिभूय प्रसभं विकृष्यमाणः ।
अविखण्डितपौरुषेण मृत्युद्विषता दुःखम् अयं परैति लोकः

65

परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्य् उदन्वतीनाम् ।
अनवाप्तजला मृगारिभीता वयम् उत्प्लुत्य दिशो दिशं व्रजामः

66

देशे देशे वयम् अशरणा व्याधम् उद्वीक्ष्य हिंस्रं
शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् ।
विन्ध्याटव्याम् अजगरदरीदारुणायाम् अनाथाः
शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः

67

तृणपुरुषकान् अप्य् आलोक्य द्रवन्ति मनांसि नो
न निशि न दिवा मृत्योर् भीताः सुखानि लभामहे ।
विततधनुषं दृष्ट्वा व्याधं कृतान्तम् इवापरं
न भवति भयत्रस्ताङ्गानां मनाग् अपि भोजनम्

68

तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः ।
हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः

69

स्थलीवासे तुष्टा नवजलतृणास्वादपटवः
सलीलं कान्ताभिः सह गमनविन्यासचतुराः ।
न लोकद्वेष्टारो न च न चकिता नापि भयदाः
प्रयत्नाद् वध्यन्ते तद् अपि हरिणा रौद्रमतिभिः

70

अटताम् अटवीष्व् अवारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् ।
वद कं नु समीक्ष्य वैरिभावं हरिणानाम् अपि विद्विषो भवन्ति

71

ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु ।
हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः

72

सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् ।
अवैमि मरणं तस्माद् उपसर्गदुरुत्तरम्

73

यतश् च ते महासत्त्वाः स्वं स्वं वादम् अभिनिविष्टा न कथापर्यवसानम् आसादयन्ति ततो बोधिसत्त्वम् उपेत्य न्यायतः प्रणम्येमम् अर्थम् ऊचुः । भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् । कस्य वास्माकं सुभाषितम् इत्य् अथैनान् स मुनिवर्यो ऽब्रवीत् ।
सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् ।
सर्वाण्य् एतानि दुःखानि रुजन्ति भुवनत्रयम्

74

अपि च भद्रमुखा ममाप्य् अभिप्रायः श्रूयताम् ।
अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते ।
आश्रमं मनसो दुःखम् इत्य् अवैमि ब्रवीमि च

75

स्पर्धमाना इवान्योन्यम् उपघ्नन्ति विदाहिनः ।
लोकान् एव निरालोकाञ् जन्मसंबन्धिनो मलाः

76

क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः ।
अपायफलसंधानदारुणं कर्मवैशसम्

77

व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः ।
भवन्ति करुणापात्रं पुरुषास् तत्त्वदर्शिनाम्

78

स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः ।
क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा

79

सर्वसत्त्वैर् विनाभावप्रवासो दीर्घकालिकः ।
भयम् आत्यन्तिकं हीदं मरणं सर्वदेहिनाम्

80

एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः ।
ते जातिम् अनुवर्तन्ते करुणाम् इव साधवः

81

मातापित्रोर् विप्रतिपत्तिं ................ ।
................. किं नाम ततः परं दुःखम्

82

................. ........................ ॥
................................... ।
किं नाम ततः परं दुःखम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc