भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 43-62

43

वेपन्ते नववारिचूर्णशिशिरैः स्पृष्टाः कदम्बानिलैर्
बाला जालगवाक्षपक्षविसृतैर् या रम्यहर्म्याश्रिताः ।
धारापातविशीर्णपुष्परचना ः सारङ्गपर्याकुलास्
ता पङ्काङ्कितमूकनूपुररवा रात्रौ व्रजन्त्य् अध्वना

44

शस्त्रापाता कुवलयदलस्पर्शकल्पा भवन्ति
ज्वालाश् चाग्नेर् गतघनशरच्चन्द्रिकाश्लेषशीताः ।
कामान् प्राप्य श्वसनचपला मूर्तयः पन्नगानां
साम्यं यान्ति भ्रमरविरुतैर् दामभिर् मालतीनाम्

45

सर्वायतनोन्माथी तस्माद् रागो महद् दुःखम् इत्य् उक्ते भुजगो ऽब्रवीत् । ननु खलु दुःखम् रागश् चित्तविपर्यासकृद् दुराचारः । क्रोधं तु दुःखतरम् इत्य् अवैमि चेतोज्वलं तु मूलम् । कुतः
विक्षिप्ताम्बुदसान्द्रचन्द्रकिरणप्रक्षालिताट्टालके
वीणावेणुरवानुबद्धमधुरस्त्रीगितरम्ये गृहे ।
विद्धः क्रोधशिलीमुखेन पुरुषो नाप्नोति निद्रां यतः
क्रोधाद् दुःखतरं न दुःखम् अपरं किं चित् ततो विद्यते

46

योगाभ्यासविशेषशान्तमतिभिर् वाय्वम्बुमूलाशनैर्
विश्रम्भायतनत्वम् अभ्युपगतैः प्रायस् तिरश्चाम् अपि ।
दग्धाः क्रोधहुताशनैर् जनपदाः क्रूरैर् इवाशीविषैर्
यन् मोहाद् ऋषिभिर् न दुःखम् अपरं क्रोधात् ततो विद्यते

47

त्रासायासविशेषलोलनयनस्त्रीबाष्पपर्याकुलं
बालैश् च स्तनचूचुकार्पितमुखैः सावेगम् उन्नादितम् ।
संरम्भस्फुरितेक्षणत्रयशिखिज्वालापिशङ्गाननो
रुद्रो यत् त्रिपुरम् ददाह विघृणः क्रोधस्य तद् वैकृतम्

48

तीव्रातङ्कविलोलमूलवलया नैवाञ्जलिप्रग्रहाः
स्त्रीणां बाष्पकणाः करालतरला नो पक्ष्मला दृष्टयः ।
कुर्वन्त्य् आवरणं ललाटपटलव्यावर्तमानभ्रुवां
राज्ञां क्रोधविषाशिवस्य मनसः किं नाम दुःखं ततः

49

गर्भाधारणयन्त्रणाम् अविगणय्यापायिकां मातरं
सत्कारातिशयक्षमं च पितरं स्नेहद्रवाध्याशयम् ।
यद् विश्रम्भनिरत्ययां श् च सुहृदो घ्नन्ति क्षताध्याशयाः
क्रोधस्यैव विपाकदारुणतरास् ता वृत्तयः साधवः

50

उत्पद्यन्ते परममतयः शुद्धये ये प्रजानां
दुःशोधानाम् अविकलमलालीढगूढाशयानाम् ।
तान् अप्य् आर्यान् परहितसुखप्रक्रियामात्रहार्यान्
क्रोधाविष्टा वचनविशिखैः संमुखं घ्नन्त्य् अनार्याः

51

क्रोधाघ्रातो भवति पुरुषो दग्धलावण्यवक्त्रो
ज्वालाचक्रक्रकचकलिलान् क्रोधनो यात्य् अपायान् ।
तेभ्यो भ्रष्टो भवति जगतो लोचनातङ्कभूतः
श्रीविद्वेषो न रिपुर् अपरः क्रोधतुल्यो ऽस्ति यस्मात्

52

यस्मिन् रक्तो भवति पुरुषस् तत्र कुर्यात् प्रियाणि
द्विष्टो यस्मै तदधिकतराण्य् अप्रियाण्य् एव धत्ते ।
अल्पावद्ये ऽविगतरजसा तेन रोष ः प्रविष्टः
क्रोधं क्रोधोपशमकुशला वद्ययोनिं वदन्ति

53

त्रासोत्फुल्लमुखीं मृगीम् इव वने लज्जालसभ्रूलतां
संरम्भापहृतोत्तरीयवसनां विच्छिन्नकण्ठेगुणाम् ।
चिक्लेश प्रचुराङ्गनाम् इव सतीं दुःशासनो द्रौपदीं
स्फीते यत् सदसि प्रकामचपलाः क्रोधस्य ता विप्लुषः

54

शान्तात्मा विजने वने प्रतिवसन् निक्षिप्तदण्डो ऽपि सन्
लोकानाम् अनिमित्तपेशलरसः स्नेहार्थकारी सुहृत् ।
खड्गेनार्द्र इव द्रुमः शकलितो यत् क्षान्तिवादी मुनी
राज्ञा दुर्जनवल्लभस्य निकषं क्रोधस्य तत् प्राहृतम्

55

अनेकादीनवमयो विनिपाती मनोज्वलः ।
इत्य् एवं सर्वदुःखानां क्रोधारिर् धुरि वर्तते

56

मृगो ऽब्रवीत् । सम्यग् वक्तुम् एतद् भुजगपते क्रोधवैशसं तीव्रम् । मरणभयाद् अधिकतरं दुःखम् अहं नावगच्छामि । कुतः
मरणोपनिपातकातराणां कमनीयान्य् अपि मारबन्धनानि ।
न मनो रमयन्ति यज् जनानां न ⏑ – दुःखम् अतः परं परैमि

57

सुहृदां वदनानि वीक्षमाणो घनबाष्पाम्बुतरङ्गदुर्दिनानि ।
लभते व्यसनं यद् अन्तकाले न ततो दुःखम् अवैमि कष्टम् अन्यत्

58

पवनैर् अविधेयदुःखशीलैः करपत्रैर् इव पाट्यमानदेहाः ।
परलोकमहाप्रपातशङ्काः कृपणा दुःखम् अवाप्नुवन्ति तीव्रम्

59

परिपाण्डुकपोलमण्डलानि श्वसनम्लानविपाटलाधराणि ।
दयितावदनानि नानुकम्पां जनयन्त्य् अन्तकदन्तविक्षतानाम्

60

जननी मलपङ्कदिग्धवेणी सुतविश्रम्भनिरत्ययोपचारा ।
उपमृत्युम् उदीक्ष्य शोकपङ्के विनिमज्जत्य् अपरायणा रुदन्ती

61

चलतां तृणपर्णपल्लवानां ध्वनिम् आकर्ण्य वने मृगा वसन्तः ।
अनपेक्ष्य परस्परं द्रवामः स्वसुतान् अप्य् अवधूय मृत्युभीताः

62

कठिनोपलशर्कराकरालेष्व् अनलप्लुष्टतृणाचलद्रुमेषु ।
मरणाशनिसंनिपातभीताः गिरिदुर्गेष्व् अपरायणा वसामः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc