भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 53-10

53

अचेतनानाम् अपि पादपानां बभूव कम्पो रुदितेन तेन ।
मृदूकृतं तस्य न नाम चेतो मनाग् अपि क्रूरमनोरथस्य

54

अथ स दुरात्मा तद्वाक्यश्रवणज्वलितकोपानलादीप्तहृदयः कथापर्यवसानम् अविगणय्यैव बोधिसत्त्वं तीक्ष्णेन बाणेन मर्मदेशे ऽभिहत्य प्राणैर् वियोजयां बभूव ।
शिवाविरुतजर्जरा इव दिशो ऽभवंस् तत्क्षणं
ततान बहलं तमो द्विरदयूथनीलं जगत् ।
भयाद् इव चकम्पिरे विलुलितोपलाः पर्वताः
पपात शलभावलीवलयपिङ्गलं खाद् रजः

55

विशुष्कजलभैरवाः प्रदरगह्वराः सिन्धवो
द्वितीय इव भास्करे समुदिते ऽभवंस् तत्क्षणम् ।
पपात रुधिरं दिवो घटमुखैर् इवावर्जितं
हते कपिगणाधिपे सुचरितैकरत्नाकरे

56

अथ स दस्युस् तद् अतिदारुणं कर्म कृत्वा सद्यस् तद्विपाकचिह्नाकुलीकृतहृदयः स्वम् आवासम् अभिप्रतस्थे । तत्र च तत्कर्मापराधेन भैरवो निष्प्रतीकाररभसज्वालामालाकुलो महदग्निः प्रजज्वाल ।
दूराद् एव तम् आपतन्तम् अनिलप्रेङ्खोलनाचञ्चलैः
सद्यो ऽग्निः परिषष्वजे प्रियम् इव ज्वालाभुजैर् आयतैः ।
कर्म क्षेत्रविशेषबृंहितफलं कर्मान्तराव्याहतं
निक्षेपं वपुषो विपाकचपलं नोदीक्षते प्राणिनाम्

57

संशुष्ककक्षान्तविसर्पिणीभिर् ज्वालाभिर् अग्नेः पवनोद्धताभिः ।
आलिङ्गितो ऽसौ कठिनान्तरात्मा मुमोह हा हेति च संरुराव

58

अनिलाकुलितानलावलीढः कटुधूमौघनिरुद्धकण्ठतालुः ।
निपपात समुत्पपात चासाव् असकृन् मीन इवातुरस् तपस्वी

59

तस्यास्थिशेषम् अपि कापुरुषस्य दग्ध्वा
वह्निः सरोष इव नैव शशाम शीघ्रम् ।
तद्दूषितां वसुमतीम् अपि दग्धुकामो
जज्वाल धूमकपिशार्चिर् ⏑ – ⏑ अन्तः

60

ज्वालानां गगनतलावलम्बिनीनां संतानाः कुसुमितकर्णिकारगौराः ।
रेजुस् ते प्रलयविलीयमानसानोर् निर्यासाः कनकगिरेर् इव स्रवन्तः

61

दग्धो दुश्चरिताग्निभिः स परुषैर् दग्धः पुनः पावकैः
पापात्मा सकलत्रपुत्रविभवः शुष्को यथा पादपः ।
तं भूयो ऽपि ददाह दारुणतरः कर्मेन्धनो नारको
वह्निर् धूमकलाकलङ्कितमुखज्वालाकलापश् चिरम्

62

अवेत्य पापकर्मणाम् इदं विपाकवैशसं
विवर्जयेद् असत्क्रियां भुजङ्गमाङ्गनाम् इव ।
प्रसादयेच् च मानसं प्रसादनीयकर्मसु
जिनौरसेष्व् अकारणप्रजाहिताभियोगिषु

1

॥ इति श्रीकपीश्वरजातकं नवत्रिंशत्तमम् ॥
5. मैत्रकन्यक
मातर्य् अपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर् मातरः शुश्रूषणीयाः ।
तद्यथानुश्रूयते
विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव ।
परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः ।
तस्यार्यसत्त्वस्य नभस्य् अनभ्रे करा इवेन्दोः कुमुदावदाताः

2

तृष्णानलैः शोकशिखाप्रचण्डैश् चित्तानि दग्धानि बहुप्रकारम् ।
आशावतां सप्रणयाभिरामैर् दानाम्बुसेकैः शमयां बभूव

3

दृष्ट्वा लोकम् इमं धनक्षयभयात् संत्यक्तदानोत्सवं
लोभक्लेशपिशाचिकावशतया संदूषिताध्याशयम् ।
कारुण्यात् स ददाव् अनाथकृपणक्लीबातुरेभ्यो धनं
मत्वा वायुहतार्णवोर्मिचपलं स्वं जीवितं भूयसा

4

येषु व्यासज्य चेतो भुजगवरवधूभोगभीमेषु लुब्धा
गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम् ।
वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस्
तान् अर्थान् अर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः

5

तस्यापुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैर् असकृद् उन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनेव विगतनिखिलप्रतीकारदारुणप्रभावमहताशु कृतान्तालयैकपरायणाः क्रियन्ते स्म तदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुम् आरेभे ।
यस्मिन् यस्मिंस् तनयसरसि स्वच्छपुण्याम्बुपूर्णे
वव्रे वृद्धिं समुदितमहावंशलक्ष्म्यम्बुजन्म ।
तत् तत् तस्य प्रबालविरसां याति तीक्ष्णांशुमालैः
शोषं निन्ये रविर् इव जलं भागधेयार्कबिम्बम्

6

रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं
स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम् ।
गङ्गां शङ्खदलावदातसलिलां तां तांश् च देवान् असौ
पुत्रार्थी शरणं ययौ बहु पुनर् दानं द्विजेभ्यो ददौ

7

यद् यज् जनो मङ्गलदेशनाभिर् व्रतोपवासाधिगतैश् च दुःखैः ।
⏓ – ⏑ – – ⏑ ⏑ – ⏑ – – ⏓ – ⏑ – – ⏑ ⏑ – ⏑ – –

8

– – ⏑ – – ⏑ ⏑ – ⏑ – – – – ⏑ – – ⏑ ⏑ – ⏑ – – ।
पुत्रार्थसंसिद्धिनिमग्नबुद्धिर् विक्षिप्य खेदं स चकार तांस् तान्

9

एवम् अनेकप्रकारं कायचेतस्सोर् आयासकारिभिर् अपि व्रतोपवासमङ्गलैर् यदा नैव कदा चित् काले ऽस्य पुत्रा जीविनो बभूवुस् तदैवम् अतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश् चित् साधुपुरुषो ऽब्रवीत् ।
कर्माण्य् एवावलम्बन्ति देहिनां सर्वसंपदः ।
भूतानां तुङ्गशृङ्गाच् च विनिपातो न भूतये

10

संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना [!] ।
न च ते ऽद्यापि जीवन्ति तत्र किं परिखिद्यसे

53

अथ सा तैर् बोधिसत्त्ववचोऽद्भिर् आक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजम् उपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिर् अवोचत् ॥
आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः ।
त्रायस्व माम् आपदि वर्तमानां दीनाम् अनाथां जगदेकनाथ

54

अथ स राजा तद् अतिभासुरं वपुर् अवलोक्य किम् इदं कथं चेत्य् उत्पन्नजातसंभ्रमः सादरम् उत्थाय पर्यङ्कपृष्ठात् तां नागयोषितम् एतद् अवोचत् ॥
ध्यामीकृत्य मणिप्रदीपकिरणान् एतद् वपुस् ते स्थितं
व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश् च ते ।
का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञाम् इमां
मालां फुल्लदलाम् इवाद्य शिरसा सम्यक् प्रतीच्छाम्य् अहम्

55

अथासौ भुजगवधूस् तेन तस्य राज्ञो ऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ॥
आशावशानां नरदेव को ऽन्यो मनोरथं पूरयितुं समर्थः ।
त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर् वंशम् इवावतीर्णम्

56

नागाङ्गनां माम् अवगच्छ राजंस् त्वद्देशपर्यन्तकृताधिवासाम् ।
आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद् गरीय ः

57

राजोवाच ॥ भगिनि कस् तवासौ भुजगवरः ॥ सा प्रोवाच ॥
भर्ता मम प्राणधनेश्वरो ऽसौ न्यायोप्रदेष्टा च गुरुर् गरीयान् ।
पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश् च

58

अथ स भूपतिस् तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः ॥ प्रोवाच चैनाम् ॥
भक्तिर् भर्तरि दर्शिता घनरसा दाक्षिण्यम् उन्मीलितं
प्रेमोद्भावितम् आपदि स्थिरतरं प्रोद्घाटिता भद्रता ।
धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो
लोके साधुपतिव्रतत्वम् इति ते ख्यातिः स्थिता शाश्वती

59

त्यक्त्वा प्रियं जीवितम् अप्य् अतो ऽहं पुण्यप्रभावोपनतं च राज्यम् ।
संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम्

60

अथ स राजा तस्य ब्राह्मणस्यान्तिकात् तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टम् अभ्यर्चयाम् आस ॥ अथ बोधिसत्त्वस् तेन तस्य राज्ञो ऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ॥
असंस्तुते नाम तवायम् आदरो मयि प्रसादस्थिरभक्तिपेशलः ।
कृतोपकारेष्व् अपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु

61

प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस् त्वया ।
गुणे विवर्धस्व तद् उत्तरोत्तरैर् गुणेषु भद्रं जगतां अवस्थितम्

62

इति संराध्य राजानं तम् असौ भुजगेश्वरः ।
अनुबद्धो दयितया कृपयेव गृहान् ययौ

1

इति श्रीनागजातकं चत्वारिंशत्तमम् ॥ ः ॥
10. पुण्यराशि
अथाशोको महाराज उपगुप्तं यतिं गुरुम् ।
कृताञ्जलिपुटो नत्वा प्रार्थयच् च तथादरात्

2

भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम् ।
तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति

3

इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत्

4

शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर

5

नास्ति विपाकपर्यन्त उपकारापकारयोः ।
संबुद्धे सद्गुरौ तस्मात् कर्तव्यम् उपकारकम्

6

तद् यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा ।
कदा चित् ताव् उभौ ग्रामं गच्छन्तौ संगतौ पथि

7

संबुद्धप्रतिमां तत्र पुण्यराशिम् इवोत्तमाम् ।
तां समीक्ष्य तयोर् एकः प्रणत्वैवं तम् अब्रवीत्

8

अहो बत महापुण्यराशिर् अयं विराजते ।
भाग्येन दृश्यते ऽस्माभिर् अद्य मित्र प्रणम्यताम्

9

इति तेनोदितं श्रुत्वा दृष्ट्वापरस् तम् अब्रवीत् ।
अहो बत महान् मित्र पापराशिर् अयं न्व् इति

10

इति तेनोदितं श्रुत्वा प्रथमः स उपासकः ।
कर्णौ पिधाय हस्ताभ्यां तम् एवं पर्यभाषत

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc