जातकमाला · श्लोक 11-31
कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस् तुष्टिवशाद् इहेयुः ।
ये यैर् विना नात्मभवं लभन्ते ते तैर् विना जन्म कथं भजेरन्
ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्
ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः ।
त्वं केनापि विडम्ब्यसे जडमतिः पुत्राशयोन्मत्तको
यस् त्वं द्याम् अधिगन्तुम् इच्छसि बृहत्सोपानमालाश्रयात्
विधिम् अपरम् अहं ते बोधयामि प्रसिद्ध्यै
त्वम् अपि च कुरु तावत् संप्रसिद्ध्यै कदा चित् ।
यदि भवति सुतस् ते कन्यकानाम तस्य
सकलजनपदे ऽस्मिन् ख्यापयस्व प्रसिद्ध्यै
अथ तस्य कालान्तरे गगनतलम् अंशुमालीव स्वकिरणनिकरैर् विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयां बभूव । स च
निर्वान्तामलहेमशैलशिखरप्रच्छेदगौरद्युतिः
संपूर्णामलचन्द्रमण्डलसमच्छत्त्रोरुभास्वच्छिराः ।
मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो
भिन्नेन्दीवरफुल्लपत्त्रनिचयश्यामारुणान्तेक्षणः
भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः
प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर् लक्षणैः ।
मूर्तिस् तस्य रराज मेरुशिखराद् धेमं यथा भूच्युतं
प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर् वेष्टितम्
भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं
समविपुलललाटं श्रीमदुत्तुङ्गनासम् ।
तनयम् उदितचेता मैत्रकन्याभिधानं
दशदिवसपरेण ख्यापयाम् आस लोके
शरीरिणां वृद्धिकरैः समृद्धैर् विशेषयुक्तैर् विविधान्नपानैः ।
सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम्
धात्रीभिः स समुन्नीतः क्षीरैश् च सर्पिमण्डकैः ।
पुपोष सुन्दरं देहं ह्रदस्थम् इव पङ्कजम्
अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः ।
द्रव्यैर् वहनम् आरोप्य जगाहे तोयधिं मुदा
तिमिङ्गिलक्षोभविवर्धितोर्मिमहोदधौ मीनविपन्नपात्रे ।
पितुर् व्यतीते जननीं जगाद चकार किं कर्म पिता ममेति
ततो ऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्ताम् आपेदे ।
आशापाशशताकृष्टो जनो मृत्युं न पश्यति ।
विषयास्वादकृपणो वारण इव बन्धनम्
यद्य् अपि कथयिष्यामि पितरं यानपात्रिकम् ।
एषो ऽपि मम मन्दाया नाशम् एष्यति तोयधौ
यावच् चायं जनपदम् इमं तस्य वृत्तिं न भूतां
पृच्छत्य् अस्मै कथयति न वा सर्व एवैष लोकः ।
तावद् युक्तं मम सुतम् इमं मृत्युवक्त्रान्तरालं
नानादुःखव्यसनगहनं व्याधिसक्तं निषेद्धुम्
परो ऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम् ।
निवारणीयः स मताज् जनेन प्रयत्नतः किं पुनर् एव पुत्रः
ततो जनानि कथयां चक्रे ।
पुत्रकौकरिकत्वेन पिता ते माम् अपूपुषत् ।
यद्य् अहं सुखिता कार्या कारयौकरिकापणम्
अथ मैत्रकन्यको बोधिसत्त्वो मातुर् वचनं कुसुममालाम् इव शिरसा समभिवद्यान्यस्मिन्न् अहनि [!] औकरिकापणं प्रससार ।
पुण्यसंभारमहतस् तस्य सत्त्वदयावतः ।
प्रथमे ऽहनि संपन्नं चतुष्कार्षापणं धनम् ॥
स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै ।
दरिद्रदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै
अथ ये तस्मिन् पुरवरे चिरंतना औकरिकास् ते तस्य तम् अभिवर्धमानं क्रयविक्रयलोकम् अविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसं तस्मिन् महासत्त्वे व्यवहारार्थम् आपतन्तम् अवलोक्य तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः ।
गान्धिकापणिकः श्रेष्ठी पिता ते ऽस्मिन् पुरे पुरा ।
स त्वं तां वृत्तिम् उज्झित्वा श्रयसे ऽन्यां कया धिया
अथ बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय गान्धिकापणं चकार ।
यस्मिन्न् एव दिने चक्रे स साधुर् गान्धिकापणम् ।
कार्षापणाष्टकं तस्य तस्मिन्न् एवोपपद्यते
तम् [!] अपि मात्रे प्रतिपादितवान् । अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयाम् आसुः ।
गान्धापणं क्लीबजनाभिपन्नं पिता न वैमद्यपुरे चकार ।
तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो
अथ मैत्रकन्यको बोधिसत्त्वस् ताम् अपि जीविकाम् अपहाय हैरण्यिकापणं चकार ।
तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस् तान् अभिभूय सर्वान् ।
लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0