जातकमाला · श्लोक 33-52
अर्थाय नेत्रव्यसनं तु जातम् अस्या न मां द्रक्ष्यति मार्यमाणम् ।
यद् अस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन
कृत्वा च यत् पापम् अयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि ।
एतन् मनो निर्दहतीव मह्यं प्राणोपरोधं स्वम् अचिन्तयित्वा
धिग् अस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिग् अनर्थपण्डितम् ।
विपत्तिपातालतले दुरुत्तरे वृथैव यल् लोकम् इमं विमुञ्चति
अथ स प्रकृतिशुद्धसत्त्वस् तदवस्थो ऽप्य् अनभिजातविषाददैन्यसंभ्रममनास् तं व्याधम् अब्रवीत् ।
अमोघो यद् अयं बाणस् त्वया तात समुद्यतः ।
मयि प्रहर निःशङ्कं मा कार्षीर् मृतमारिकाम्
अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायम् अवेत्य पाणिभ्यां हृदयम् अभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वम् आह ।
पुत्र मा साहसं कार्षीर् मय्य् एव प्रहरत्व् अयम् ।
मृतयापि मया किं स्याज् जरयापीतसारया
यद् अहं तात जीवामि दुर्मना दुःखभागिनी ।
त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत्
त्वयि जीवति जीवन्ति बहवो धर्मजीविनः ।
निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः
जराजनितसंवेगा विप्रोषितविलोचना ।
मृत्युम् एवाभिकाङ्क्षामि निश्वासैकपरायणा
त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया ।
त्वयि जीवति जीवन्तीं माम् अवेहि मृताम् अपि
उपायासि प्रपन्नाया जराकान्तारम् आयतम् ।
विश्रम्भस्थानवन् मृत्युर् भाग्येनैव ममागतः
अथ बोधिसत्त्वो ऽभिप्रणम्यानुनेष्यन्न् अनुकम्पाशीतलैर् अपि निर्दहन्न् इव वचोभिर् जननीं प्रत्य् आह ।
क्षुद्रजन्तोर् अपि कृते जह्यां देहशतान्य् अपि ।
मातुर् अर्थे त्यजेद् देहम् इतरो ऽपि गतव्यथः
कायव्रणम् इमं तीव्रव्यसनापातकातरम् ।
तवैव परिचर्यायै मातः परिहराम्य् अहम्
न च मे कायिकं दुःखं तथा जनयति व्यथाम् ।
मानसेनैव दुःखेन यथा पीड्ये विदाहिना
स्वकायपरिरक्षार्थम् अध्युपेक्ष्य वधं तव ।
दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम्
अपि चाम्ब ।
उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः
सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्व् इव ।
मृत्योर् अप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः
संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम्
अथ सा बोधिसत्त्वजननी शीतैर् अनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैर् अपरिम्लायमानगौरवप्रसादपेशलैस् तद्वचोभिः सुतराम् आक्लेदितहृदया व्यापिना स्वरेण तद् वनम् आपूरयन्ती सकरुणं विरुराव ।
अमूनि तव वाक्यानि शीतान्य् अपि दहन्ति माम् ।
हिमापाता इव लतां पाकपाण्डुपलाशिनीम्
हा मातृवत्सल रिपुष्व् अपि मैत्रचित्त
क्षुद्रेष्व् अपि प्रकृतिभद्र मृदुस्वभाव ।
पुत्रापहाय कृपणां क्व नु यास्यसि त्वं
माम् अद्य दुःखशतबाणशरव्यभूताम्
हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण ।
संरक्ष मां सुचिरम् एकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता
याताः क्व ते ऽद्य मुनयो ज्वलितप्रभावाः
सख्यः क्व ताः प्रतिगता वनदेवतास् ते ।
धर्माय रक्षति जगत् किल धर्मजीवी
कस्माज् जगन् मम निमीलति पुत्रशून्यम्
शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा
नद्यश् च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः ।
संशान्ता वनराजयश् च शिखिना सुद्योतिताश् चन्द्रकैर्
भानोर् अंशुकरालिताश् च दिवसा रक्षन्तु मे पुत्रकम्
इति सा रुराव कुररीव विक्लवा नयनाम्बुदुर्दिनमुखी तपस्विनी ।
वसुधातले गलितहारमेखला भुजगाङ्गना पतिवियोगशङ्किनी
अथ सुमना नाम योषिद् बोधिसत्त्वम् अन्वेषमाना वाराणसीं नगरीम् अनुप्राप्ता ददर्श चैनं महासत्त्वं परमदारुणाम् अवस्थाम् उपगतं दृष्ट्वा च तीव्रशोकायासव्यथितहृदया प्रोवाच ।
स्फुरितकिरणच्छायारम्याः शिरोमणयः क्व ते
क्व दयित गतास् तास् ता दंष्ट्रा बिसाङ्कुरधूसराः ।
वपुर् उपहतं दण्डाघातैर् नवोत्पलकोमलं
विगलितहृदया (?) क्रूरेणैतत् कृपात्मक केन ते
किं धर्मो ऽस्तम् इतः प्रजाहितकरः किं लोकपाला मृताः
तेजः कोपविषातिसङ्गरभसं किं प्रोषितं भोगिनाम् ।
शून्यं किं नु पतिप्रभाभिर् अधुना निःशुक्लमूलं जगद्
येन त्वं व्यसनं दुरुत्तरम् इदं प्राप्तो विनाशाय ते
नासीत् कस्य दया त्वयि प्रहरतो ऽनार्यस्य शान्तात्मनि
क्रौर्यं त्वय्य् अपि नाम साधुचरिते पापात्मनां जायते ।
त्वाम् आयासयतः कथं न पतितौ तस्य प्रकोष्ठात् करौ
नाथानाथ इवापदं कथम् इमां प्राप्तस् त्वम् आयासिनीम्
बोधिसत्त्वस् तु प्रत्यग्रकोपशोककलुषिताध्याशयात्मनाम् अवेत्य तूष्णीम् एव बभूव ॥ सा पुनर् अब्रवीत् ॥
कस्याप्रियं जीवितम् आद्यजातं कालेन केली ं सह कः करोति ।
त्वदप्रियारिष्टनिविष्टचेष्टो लोकान्तरं को ऽभ्यनुगन्तुकामः
शीताभिलाषी प्रविविक्षुर् अग्निं को मारुतोद्धतशिखाकलापम् ।
आदित्सते क्रूरविषं भुजङ्गं कः पुष्पदामाकृतिविप्रलब्धः
उदधिपरिखाम् अद्यैवैनां दहामि वसुन्धरां
सनगनगरग्रामारामां स्वदृष्टिहुताशनैः ।
न मम हृदयं शान्ति ं याति त्वदप्रियताडितं
दहति यदि न क्रोधाग्निर् मां पुरा निरवग्रहः
अथ बोधिसत्त्वस् तां तपस्विनीम् अविषह्यकोपाग्निप्रदीप्तमानसा ं ह्लादयन्न् इव तदामृतशिशिराभिर् वाग्भिर् इत्य् अब्रवीत् ॥
अलम् अलं मा गा भद्रे वै कोपस्य चेतोविदाहिनः ।
प्रकृतिदुःखेषु को भूयः सत्त्वेषु दुःखानि चिन्तयेत्
दुःखहेतौ वर्तमानेषु शोच्येषु संक्लेशभागिषु कः पराक्रमेत् ॥ दुःखाय स्वहितक्रमार्तेषु देहिषु न मम दंष्ट्रोत्पाटनाद् दुःखं न च दण्डसंपातजा रुजाः ॥ दुःखयन्ति मानसं चण्डि त्वद्वाक्कर्कशास् तुदन्ति माम् ॥ अपि च कान्ते ॥
बोधिसंप्राप्तये चित्तं यदैवोत्पादितं पुरा ।
वयं तदैव लोकानाम् आधेयक्रियतां गताः
कोपवह्निम्लायमाना पुनः सैव त्वम् अन्येव लक्ष्यसे ॥
चन्द्रलेखेव चाम्बरे विकसद्घनधूमसंबाधधूसरे
किं च ॥
कर्मापराधजनितं यदि दुःखम् एतत् कोपावकाश इह को नु मम द्विजातौ ।
कर्मेन्धनोद्धतशिखाशकलाकुलेभ्यः कुप्येत् कथं न मतिमान् नरकानलेभ्यः
तद् अलं कोपदैन्येन तव चेतोविदाहिना ।
स्वगृहान् एव गच्छस्व संत्यागं च कुरुष्व मे
सा भर्तुर् अभिप्रायं संपादयन्ती तद्वचनाप्यायितहृदया विगतकोपसंरम्भा बभूव ॥
कोपोपरागविगमे विवृतो ऽधिमात्रः स्नेहः प्रिये विषमवर्तिनि नागवध्वा ।
उद्घाटिताभ्रपटलस्फुटदिग्विभागे खे निःसपत्न इव चन्द्रमसः प्रकाशः
शोकाश्रुनयनपरिप्लुता चेति बोधिसत्त्वम् अब्रवीत् ॥
कुतो मे दुःखभागिन्या गेहं आर्य त्वया विना ।
इहैव शोषम् एष्यामि या गतिस् तव सा मम
विषमस्थं परित्यज्य त्वाम् अनाथ सुखैधितम् ।
कान्त केन सुखेनाहं द्रक्ष्यामि स्वजनं पुनः
सुखे समानतां गत्वा दुःखे जह्यां यदि प्रियम् ।
अनार्याम् अकृतज्ञां मां धारयिष्यति भूः कथम्
प्रतिभाति जगच् छून्यं त्वया विरहितं मम ।
त्वं मे जीवितसर्वस्वं त्वं बन्धुस् त्वं परायणम्
बोधिसत्त्वो ऽथ तां साध्वीं बहलस्नेहविक्लवाम् ।
अनुकम्पावशात् साधुर् ईदृशं प्रत्यभाषत
अदृष्टपूर्वव्यसना सुखसंवर्धिता प्रिये ।
परिक्लेशम् इमं सोढुम् अक्षमा त्वम् अनिन्दिते
मयि स्नेहो ऽस्ति यदि ते दुःखं मे यदि नेच्छसि ।
अदृष्टम् अद्य मां कृत्वा तद् गच्छ त्वं स्वम् आलयम्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0