जातकमाला · श्लोक 52-71
ततः सा माता समुत्थायाह । पुत्रक
मयि गमननिवृत्तिं कर्तुम् अभ्युद्यतायां
यद् उपचितम् अपुण्यं मच्छिरस्ताडनात् ते ।
व्यसनफलम् अनन्तं मा तु भूत् कर्मणो ऽस्य
पुनर् अपि गुरुवाक्यं मातिगाः स्वप्नतो ऽपि
अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतरान् अनेकनगरनिगमकर्वटग्रामादीन् अनुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलानिलबलविलुलितविपुलविमलसलिलम् अरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलम् असुरस्वरसमसुरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरङ्गभङ्गरौद्रं समुद्रम् अवततार ।
महानिलोत्क्षिप्ततरङ्गभङ्गैः समुल्लसद्भिः खम् इवोत्पतन्तम् ।
सरित्सहस्राम्बुरयप्रवाहैर् भुजैर् विलासैर् इव गृह्यमाणम्
प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम् ।
तन्मुर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छुरितोर्मिचक्रम्
अहिपतिवदनाद् विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम् ।
तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम्
तुङ्गतरङ्गसमुद्गततीरं तीरनिलीनकलस्वनहंसम् ।
हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम्
रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम् ।
वृद्धभुजंगमहाहवरौद्रं रौद्रमहामकराहतचक्रम्
खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम् ।
प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम्
तद् एव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटावर्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यम् अतिशयम् अम्भसाम् आलयम् अतिक्रमतस् तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर् विवर्तमानस्य समुत्थितैर् उर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर् महद्भिः सलिलनिवहैर् उत्पीड्यमानं तद् यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर् दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहसैव सलिलनिधेर् अधः प्रवेष्टुम् आरब्धम् ।
उर्वीधराकारतरङ्गतुङ्गैर् उग्रैर् युगान्तानिलचण्डवेगैः ।
तद् यानपात्रं जलधेर् जलौघैर् आस्फाल्यमानं विददार मध्ये
दंष्ट्राकराले झषवक्त्ररन्ध्रे कश् चिन् ममारार्तरवस् तपस्वी ।
के चिज् जलोद्गारनिरुद्धकण्ठा जग्मुर् निरुच्छ्वासगिरो व्यसुत्वम्
गत्वापि के चित् फलकैर् महद्भिर् अम्भोनिधेस् तीरम् अवेक्षमाणाः ।
दूराम्बुसंतानपरिश्रमार्तास् त्रासाकुला नेदुर् उदीर्णनादाः
अथ मैत्रकन्यको बोधिसत्त्वस् तेन महता व्यसनोपनिपातेनाप्य् अनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद् धैर्यपराक्रमं ससंभ्रमं फलकम् आदाय प्रससार ।
ततो ऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैर् इतस् ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश् चान्यैर् बहुभिर् अहोरात्रैर् यथा कथं चित् तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशम् आससाद ।
तीर्त्वा तम् अम्भोनिधिम् अप्रगाधम् आसाद्य तीरं फलकं मुमोच ।
संस्मृत्य मातुर् वचनं स पाणौ व्यासज्य मूर्धानम् इदं जगाद
शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम् ।
तेषाम् इमानि व्यसनानि पुंसां मायावहन्ति प्रभवन्ति मूर्ध्नि
तैर् एव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य ।
प्राप्तं फलं जन्मतरोः सुधीभिर् ये मानयन्तीह गिरो गुरूणाम्
मातुर् हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य ।
पुष्पं यद् ईदृग् भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य
हुतवहहतलेखात्यन्तपर्यन्तरौद्रं
गगनौग्रं विस्मयत्यन्तवज्रम् ।
गुरुशिरसि दधानः पादवज्रं खलो ऽहं
कथम् अवनिविदार्यश्वभ्ररन्ध्रे न लग्नः
ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः
श्रेयस् ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा ।
ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्ते ऽन्यथा
दुस्तरे व्यसनोदधौ निपतिताः शोचन्ति ते ऽहं यथा
ततो ऽसौ क्रमेण खदिरवटसरलनिचुलबकुलतमालतालनालिकेशरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुतालताजालदुःसंचरं क्व चित् क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथं चिद् अपि शबरमनुजजनचरणाक्षुण्णपर्यन्तम् अनुचरन् क्व चित् स्थित्वैवम् आह ।
एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला
हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः ।
सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान्
हत्वा पाणितालैः प्रयान्ति विवशाः फुत्कारभीताः पुनः
रम्ये कुङ्कुमशाखिनाम् अविरलच्छायाकुथाशीतले
मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे ।
वंशैस् तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः
संगीताहितचेतसः प्रमुदिता गायन्त्य् अमी किन्नराः
ततो नातिदूरम् अतिसृत्य महीधरवराकारं पर्वतं ददर्श ।
क्व चिद् उग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविवरम् ।
क्व चिद् उद्धतकिन्नरगीतरवं प्रतिबुद्धससंभ्रमनागकुलम्
चपलानिलवेल्लितपुष्पतरुं तरुमन्दिरमूर्ध्नि चलद्भ्रमरम् ।
भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0