जातकमाला · श्लोक 72-91
पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम् ।
सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिषेवितमत्तशकुन्तम्
मत्तशिखण्डिकलस्वनरम्यं रम्यगुहामुखनिर्गतसिंहम् ।
सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम्
क्व चिद् उपचितवारणदन्तशिखाशनिदारितशिखरतटं प्रविरूढविलासशिखागरुवृक्षवनं क्व चिद् उपरिपयोधरभारतरध्वनिञ्जितशिखिकुलविस्तृतपिच्छकलापविचित्रितचारुतटम् ।
क्व चिद् अनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिजलं कुसुमप्रबलप्रतिवासितसानुशिखं ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ ⏑ ⏑ ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ – ⏑ ⏑ –
तथापरं ददर्श ।
लिखन्तं करालैर् नभः शृङ्गजालैः क्षिपन्तं मयूखैस् तमः सागराणाम् ।
वहन्तं समुद्राम्बराम् अद्रिगुर्वीं क्षरन्तं क्व चित् काञ्चनाम्भःप्रवाहम्
फलितामलभूषणकल्पतरुं तरुखण्डविराजितसानुशिखम् ।
शिखरस्थितदेववधूमिथुनं मिथुनैर् दहतां वयसां मधुरम्
क्व चिद् अर्कमहारथचक्रनिर्वातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयमौलिभरावनतोन्नतभासुरवज्रधरं
क्व चिद् इन्द्रकरीन्द्रविमर्दतरङ्गरयभ्रमितप्रचलत्कलहंसकुलावलिहारनभःसरिदम्बुविधौतशिलं ।
क्व चिद् अण्डजराजविलाससमुच्छ्रितपक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरं
क्व चिद् एव सुरासुरसंयुगशस्त्रविपन्नमहासुर-
वैद्युतशोणितरङ्गमहावलयम्
दृष्ट्वैवम् आह ।
एते पर्वतशृङ्गचन्दनतरुच्छायास्थलं संसृताः
कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः ।
प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं
दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्
इत्य् एवम् असाव् अतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्न् अज्ञानतमःपटलावगुण्ठितम् इव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श ।
समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः ।
सुवर्णसालैर् मणिहेमशृङ्गैर् महीधराकारगृहैः सुगुप्तैः
निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः ।
कलप्रलापाण्डजरावरम्यैर् मन्दानिलैर् आवसथीकृतं सदा
सुरकरिकरदघ्नकल्पवृक्षैर् मरकतरत्नतृणैः शुकांशुनीलैः ।
मणिकनकलताबद्धशाखैः क्व चिद् उरुभिस् तरुभिः प्रकामहारि
विकसितनवकर्णिकारगौरैः कनकगृहैर् बहुरत्नशृङ्गचित्रैः ।
स्वकिरणरुचिरोरुरत्नसानोर् अचलपतेः सकलश्रियं दधानम्
क्व चिद् अमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम् ।
क्व चिद् उपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम्
ततस् तद्दर्शनात् समुत्पन्नजीविताशो ऽसौ रमणं नगरम् उपससर्प । तस्मान् नगराद् विनिःसृत्य चतस्रो ऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभारमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोर् विन्यासितशिरसः प्राहुः ।
सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय ।
कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्चयाय
अद्यैव दुह्खानि शमं गतानि [!] अद्यैव नो जीवितगात्रसारम् ।
निरत्ययप्रेमविशेषभद्राण्य् अद्यैव सौख्यानि पुरःस्थितानि
इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि ।
भवन्तम् आसाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि
यान्य् अर्जितान्य् अन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि ।
तेषां फलं वीक्षणम् एव ते ऽलं सङ्गस् त्वया किं पुनर् एव दीर्घम्
अद्यैव मा बन्धुसुहृद्वियोगशोकं कृथाः कस्य न सन्त्य् अपायाः ।
दास्यो वयं ते ऽप्सरश् चतस्रश् छाया न ते लङ्घयितुं समर्थाः
रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश् चारुतरा वयं च ।
संत्यक्तभर्ता सुरराजयोग्या शक्तिर् विधेनेह सुखं भजस्व
अपि च
दुःखे महत्य् अप्रतिकारघोरे ये वर्तमानाश् चिरम् उद्वहन्ति ।
ते दुःखभारोपनिपातमूढास् तत्रैव शीघ्रं निधनं प्रयान्ति
नित्ये वियोगे मरणात् पुरःस्थिते शोचन्ति ते दैवकृते वियोगे ।
संस्मृत्य रागोपनिपातमूढाः कामप्रहारं विषमं प्रपन्नाः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0