भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 32-51

32

दिने द्वितीये द्वात्रिंशत्कार्षापणान् उपार्ज्य सः ।
दक्षिणीयविशेषाय [!] मात्रे तान् अपि दत्तवान्

33

अथ हैरण्यिकापणिकाः पुरुषाः समेत्यागत्य च तं तस्मात् कर्मणो विनिवर्तनार्थम् आहुः ।
शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम् ।
कृपणां जीविकाहेतोर् वृत्तिम् आश्रयते भवान्

34

पर्भञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे ।
विवर्तितं श्लाघ्यम् अतिव पुंसां न तु स्ववृत्तेश् च्यवनं प्रवृत्तम्

35

महोरगश्वासविघूर्णितोग्रैस् तरङ्गभङ्गैर् विषमान् पयोधीन् ।
अगाधपातालविलग्नमूलान् पिता विगाह्यार्जितवान् धनं ते

36

यद् आश्रितं कर्म जनानुवर्तिना त्वया विदग्धेन धनेप्सुनाधुना ।
कथं न संप्राप्स्यसि भाग्यसंपदं पितुर् व्यतीते ऽपि विशालिनीं श्रियम्

37

वित्तेश्वरो ऽप्य् अर्थविभूतिविस्तरैर् नासासदर्था विबभार यस्य ।
तस्या [!] महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम्

38

ये मृत्युं गणयन्ति नैव विपदि ग्रामं भजन्ते न ये
गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः ।
ते तीर्त्वा जलधीन् अगाधसलिलान् आवर्तभीमान् बुधाः
प्राप्यार्थान् गजदन्तभङ्गसितया चिन्वन्ति कीर्त्या जगत्

39

अथ मैत्रकन्यको बोधिसत्त्वस् तेभ्यो ऽप्य् तथानुगुणिनीं कथाम् अवधार्य समुद्रावतरणकृतव्यवसायो मातरम् उपसृत्योवाच । अम्ब सार्थवाहः किलास्माकं पिता पुरा तद् अनुज्ञां प्रयच्छ यद् अहम् अपि महासमुद्रम् अवतरिष्यामीति । सा पूर्वम् एव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदया स्वतनयम् आह ।
वत्स केन तवाख्यातं विनाकारणशत्रुणा ।
जीवितं कस्य ते ऽनिष्टं त्वया क्रीडां करोति कः

40

दैवात् कथं चित् संप्राप्तं चक्षुर् एकं त्वम् अद्य मे ।
पुत्रक क्लेशभागिन्या मृत्युना ह्रियसे ऽधुना

41

न यावद् एकं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम् ।
कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैर् अमित्रैः

42

येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं
यैः संत्यक्तं कृपणहृदयैर् जीवितं भोगलुब्धैः ।
ते संत्यक्त्वा [!] नयनगलिताश्रुप्रवाहार्द्रवक्त्रान्
बन्धून् अज्ञा मकरनिलये मृत्यवे यान्ति नाशम्

43

तन् माम् अनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम् ।
संत्यज्य यातुं कथम् उद्यमस् ते मा सा कथा मानवरो मदीयम्

44

स्वप्राणसंदेहकरीम् अवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम् ।
संपत्तयो येन वणिग्जनस्य ततो ऽहम् एवं सुत वारयामि

45

स तस्या हितार्थं मधुराण्य् अपि वचनकुसुमानि तृणम् इवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किं चिद् ईदृशं प्रत्याह ।
वरं नैव तु जायेरन् ये जाता निर्धना जनाः ।
जातस्य यदि दुःखानि वरं मृत्युर् न जीवितम्

46

आशया गृहम् आगत्य दीनदीनास् तपस्विनः ।
अर्थिनो मम पापस्य यान्ति निश्वस्य दुर्मनाः [!]

47

ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते ।
लोकं पुनर् दुःखशतोपतप्तं द्रष्टुं न शक्नोमि चिरायमाणः

48

तस्माद् विलङ्घामि वचस् तवेदं यास्यामि तं त्वं प्रजहीहि शोकम् ।
तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य

49

अथ मैत्रकन्यको बोधिसत्त्वो मातरम् अप्रमाणीकृत्य निर्गत्य गृहाद् वाराणस्यां पुर्याम् आत्मानं सार्थवाहम् इत्य् उद्घोषयाम् आस ।
अस्याम् एव पुरा पुरंदरपुरीप्रस्पर्धिपुर्यां वणिङ्
मित्रो नाम बभूव यः सुरनरप्रख्यातकीर्तिध्वजः ।
पुत्रस् तस्य महासमुद्रम् अचिराद् यास्यत्य् अमुष्मिन् दिने
यातुं ये वणिजः कृतोपकरणास् ते सन्तु सज्जा इति

50

अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणाम् उपहृतमङ्गलविधानानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार । माता चैनं गच्छतीति श्रुत्वाह । ममैकपुत्रक क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरम् उरः प्रगाढम् अभिताडयति । बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी [!] अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरम् अभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवम् आह । मा मां पुत्रक परित्यज्य यासीति ।
अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम् ।
सतां हिताधानविधानचेतसां गिरो ऽपि शृण्वन्ति न भूतवादिनाम्

51

मैत्रकन्यको ऽपि
धरणि तल निमग्नां मातरं शोकवश्यां
शिरसि कुपितचित्तः पादवज्रेण हत्वा ।
मुहुर् उपचितशोकः कर्मणा प्रेर्यमाणस्
त्वरितमतिर् अभूत् – संप्रयातुं वणिग्भिः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc