भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 42-61

42

तद् अयं समयः कथं चिद् एव प्रतिलब्धः कुशलप्रयोगयोग्यः ।
प्रतिपत्तिविधौ भवान् प्रमाणं शकुनानां हि वनं विरावमात्रम्

43

स तम् अर्हन्तम् अब्रवीत् ।
शक्नुयां सुगतौ भोगस्पृहां यद्य् अप्य् उपेक्षितुम् ।
ब्रूयाः प्रवदतां श्रेष्ठ नैव मां त्वं पुनः पुनः

44

यतस् तु मां हरत्य् एषा कामतृष्णा निशाचरी ।
तेनातिवेलकृपया त्वं मां कुत्सयसे विभो

45

स तं महात्मा पुनर् अपि सानुक्रोशपेशलैर् वचोभिः संवेजयन्न् अब्रवीत् ।
खिन्ना वयं रुधिरबिन्दुम् उपाददानाः सांक्लेशिकेषु सभयेषु भवेषु वत्स ।
आयासिनीं च कटसीम् अभिवर्धयन्तो नैकान्तरायविवशाः स्वपराभवाय

46

क्रूरैः परस्परविरोधिभिर् अप्रशान्तैर् धातूरगैः प्रकुपितैर् इव कृष्णसर्पैः ।
आतुद्यमानवपुषाम् अपरायणानां कल्पायुतान्य् अभिगतानि च नो महात्मन्

47

प्रत्यर्थिकैर् इव समुद्यतमण्डलाग्रैः स्कन्धैर् हता वयम् अकारणबद्धवैरैः ।
आयासिताश् च विषयैर् विषकुम्भकल्पैस् तच् छिद्यतां भवसुखव्यसनानुरागः

48

स तम् अर्हन्तम् आह ।
नोपच्छेत्स्यामि यद्य् अत्र जन्मनि स्कन्धसंततिम् ।
उपपद्योद्धरिष्यामि त्वद्वाक्येन जिताधिना

49

स तं प्रत्याह । यद्य् अप्य् एतद् एवं तथापि
सकृन् मर्तव्ये त्वं पुनर् अपि च मृत्युं मृगयसे
स्फुटं दृष्ट्वालोकं तमसि विपुले मज्जसि पुनः ।
शिवं लब्ध्वा मार्गं कुसृतिम् उपयासि प्रतिभयां
भवान् यस् त्वं वाञ्छस्य् अमृतपुरम् उत्सृज्य सुलभम्

50

समुत्तीर्यागाधात् क्रिमिकुलचलत्पङ्ककलिलात्
कथं विज्ञाबालात् पिपतिषसि तस्मिन् पुनर् अपि ।
विमुक्तो रोगेभ्यः पुनर् अपि च रोगाय यतसे
भवेभ्यो दुःखेभ्यः स्पृहयसि पुनर् यस् त्वम् अघृणः

51

अ ना शान् अस्वन्तान् सुलभविनिपातप्रतिभयान्
स वैरान् सोद्वेगान् सपरिभवसंतापविरसान् ।
परित्यज्यायुष्मन् व्यसनविशिखापातविहतान्
भवान् सम्यग्मार्गं भवभयहरं भावय सदा

52

दृष्टसंसारदुःखो ऽपि सो ऽभ्यासाद् रागपाप्मनः ।
तम् उवाच महात्मानम् आरुजन्न् इव वाक्शरैः

53

भ्रमन्ति ते बहून् कल्पान् बोधिसत्त्वा भवाध्वनि ।
सुदान्ताः सप्तजन्मानि भ्रमतां कीदृशी व्यथा

54

स भिक्षुस् तेन वाक्येन प्रतोदेनेव विक्षतः ।
तम् अब्रवीद् भवास्वादकार्पण्योपहताशयम्

55

न तेन विदिता भिक्षो या व्यथा भ्रमतां भवे ।
अवज्ञाय वचो ऽस्माकं पुनर् अप्य् अवभोत्स्यसे

56

पुनश् च त्वां ब्रवीमि ।
ये जन्मैवाधिमुक्ताः शमसुखमहतीं निर्वृतिं शुद्धसत्त्वा
येषां क्लेशावशेषो ऽप्य् उपशमितबलो यो ऽप्य् उपादानम् एव ।
आत्मत्वेनाभ्युपेता जगद् इदम् अखिलं ये कृपाक्रान्तचित्तास्
तेषां श्लाघ्या प्रवृत्तिर् गतिषु न तु भवास्वादपर्यस्तबुद्धिः

57

स्पृश्यन्ते सत्त्ववन्तो न विषयरजसा ये विविक्ताशयत्वाद्
दुःखैर् नैव व्यथन्ते क्षितिधरगुरवो ये परार्थे चरन्तः ।
ते जन्मोपाददानाः परपुरपरिखासेतवो बोधिसत्त्वाः
शोभन्ते न क्षमं तु क्षणम् अपि गतिषु स्थातुम् आत्मंभरीणाम्

58

येषां सर्वे प्रयोगाः शशिन इव कलाः सर्वसत्त्वोपजीव्या
ये लोकान् पान्ति कृत्स्नान् पितर इव सुतान् दुःखपातालमग्नान् ।
तेषां जन्मोपदेशः सुचरितमहताम् उत्सवः श्रीविशेषः
स्वार्थोद्योगानुरागाद् अनुपतति भवान् मृत्यवे केवलं तु

59

येषाम् उत्पादकाले सुचरितकिरणैर् लिख्यमानं समन्ताद्
ध्वान्तं चेतः स्वरङ्गाविवरपरिचयस्फीतम् अप्य् अस्तम् एति ।
उन्मज्जन्तीव लोकाः प्रतिभयमहतो दुःखपङ्कौघमध्यात्
तेषाम् एवानुरूपा परहितविदुषां जन्मसंतानलीला

60

किं बहुना
सर्वेष्व् आचार्यवर्या नियमगुरुधरा धर्मयानाग्रधैर्याः
कारुण्योच्छ्रीतवीर्या रजनिकरनिभा भास्कराभाश् च दीप्त्या ।
जन्माटव्यानुयात्रा नमुचिविदरणा ज्ञानदीपोल्कधाराः
सर्वज्ञत्वाभिषेकाः पुरुषवरयुगाः सर्वदा बोधिसत्त्वाः

61

एवम् अप्य् असाव् उच्यमानः कुशलधर्मसाधनोद्योगविधुर एव व्याहार्षीत् ।
समुदागमवैगुण्यविरूक्षक्षामचेतसाम् ।
कुशलप्रत्यया बाह्याः किं करिष्यन्ति देहिनाम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc