जातकमाला · श्लोक 22-41
भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् ।
भवानुषङ्गो ऽप्य् अशुचेर् विवृज्यते नरैर् विदग्धाभरणानुलेपनैः
कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिम् अन्विच्छसि येन जन्मनः ।
जिजीविषुस् तीव्रविषाभिदूषितं प्रणीतम् अप्य् अन्नम् उपाददीत कः
अपि च हे भवाभिनन्दिन्
क्रिमेर् इवावस्करकर्दमान्तर् विवर्तमानस्य यथाकथं चित् ।
नरस्य मातुर् जठरान्तराले किं गर्भवासो न महान् अपायः
कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन ।
प्रजायमानस्य नरस्य दुःखम् अपायदुःखैर् अपि किं न तुल्यम्
दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरम् अस्थियन्त्रम् ।
कथं चिद् आयासनिपीतहर्षो न किं समो ऽपायशतैर् मनुष्यः
विदाहिभिर् निष्प्रतिकारघोरैः कृतान्तबाणैर् इव संपतद्भिः ।
विभिद्यमानस्वविषात्मभावो गदैर् इहैवानुभवत्य् अपायान्
प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः
शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना ।
बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा
क्रुद्धेनेव वितीर्यते ऽधिकतरं किं नाम दुःखं ततः
किं चायुष्मन्
कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो
नैवावीचिर् अपि व्यथाम् उपहरत्य् आर्यस्य तां दारुणः ।
धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो
यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः
अथ स विषयदौरात्म्यम् इवोद्भावयंस् तं महर्षिम् अब्रवीत् ।
विषयासङ्गिनी बुद्धिर् दुःखेन प्रतिवार्यते ।
गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा
अन्ये ऽपि बहवः शैक्षा भवसंभोगलालसाः ।
तर्पयन्तीन्द्रियग्रामं विषयैर् अविषादिनः
स चार्हंस् तैस् तद्वचोभिः सुतराम् उद्वेजितप्रतिभयस् तं शैक्षम् अवोचत् ।
प्रतिसंख्यानमहताम् अकृच्छ्रश् चित्तनिग्रहः ।
न चानुवर्तनीयास् ते विषयैर् ये पराजिताः
मयैव विषयोद्दामं ननु चेतो निवारितम् ।
अन्यैश् च व्रतिभिर् वीरैस् तत् कस्मान् नानुवर्तसे
विषयेषु यदि प्रमादम् एषे त्वम् अनार्याचरितेषु हन्त नष्टम् ।
अथ ते विरजन्ति नैव चेतस् तव को ऽर्थो वद तैर् अनर्थभूतैः
विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु ।
निकटे निवसन्ति सर्वदुःखान्य् अपरिज्ञातनिपातदारुणानि
विषयापचयानुपातिनीनाम् अपरिम्लानसुखामृतप्रदानाम् ।
छलितः पुरुषः प्रसङ्गदोषैर् न च संवेत्ति निरामिषं रतीनाम्
परिभूतिर् उपान्तिके नराणां भवसंभोगविषक्तमानसानाम् ।
विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि
परिणामरताम् अशान्तरूपां विपरीताल्पसुखानुरागरम्याम् ।
परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु
विनिगृह्य मनः प्रमाददोलाचलम् अध्यात्मरतिव्यपाश्रयेण ।
अनिराकृतयोगिनो रमन्ते बहुरूपैर् अतिमानुषैर् विहारैः
वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः ।
गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्य् अनार्याः
व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते ।
उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0