भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 30-49

30

पुरुषाः प्रसमीक्ष्य कारिणो ऽपि व्यवहारेषु विचक्षणाः प्रकृत्या ।
गृहचारकम् एत्य यान्ति नाशं नृप मीनाः कुपिनीमुखं यथैव

31

बहुभिर् नरलोकपाल यत्नैर् भवनानि द्रविणानि चार्जितानि ।
अपहाय नरः क्षणेन याति स्वकृतादेशितमार्ग एक एव

32

अत एव जगाद लोकनाथो नृप कर्मस्वकम् एव जीवलोकम् ।
मरणाभिमुखं नरं स्वकर्म स्तनपो वत्स इवानुयाति धेनुम्

33

तद् अलं परिणामदारुणैस् तैः प्रियबन्धो प्रियसंगमाभिलाषैः ।
ध्रुवम् एव हि विप्रयोगदुःखं प्रियसंयोगरताशया लभन्ते

34

अपि चापरिनिष्ठितस्वभावे प्रियता का नरवीर जीवलोके ।
परमार्थविचारपेलवानां प्रिय इत्य् एव हि विभ्रमो मतीनाम्

35

यदि तु प्रियतास्ति का चिद् अस्मास्व् अनुजानीष्व महीपते ततो ऽस्मान् ।
अनवद्यम् अहार्यम् आर्यजुष्टं सुखम् आस्वादयितुं हि नो मनीषा

36

अथ स राजा सुगतशासनाभिप्रसन्नो धर्मान्तरायभीरुर् जातस्नेहाक्रान्तहृदयः स्वा दुहितॄः पूर्वजन्मानुस्मरणावगमितप्रयोजना जातिस्मराः खल्व् एता इति परिविचिन्त्य सुचिरं तूष्णीं बभूव ॥
निर्बन्धम् इति विज्ञाय तासां स नरपुङ्गवः ।
गच्छतेत्य् अपरिव्यक्तं कथं चिद् अनुजज्ञिवान्

37

अथ ता दारिका व्यपनीतस्रगनुलेपनाभरणाः विनयनिभृतवपुषः सितसूक्ष्मप्रलम्बाम्बरधराः पवनबलचलितसलिलफेनावलीमालिन्य इव सरितः सान्द्रचन्द्रचन्द्रिकापटावगुण्ठिता इव शरन्निशाः स्वकिरणजालोत्तरीया इव सप्तर्षितारकाः क्रमेण विरचितचिताग्निमध्यविन्यस्तसिमिसिमायमानोच्छूनशवामगन्धबीभत्सं निशितगृध्रतुण्डखण्डितशिरोघटीविवरविनिर्गतविगलितमस्तिष्करसविलिप्तवदननरकरङ्काक्रान्तपर्यन्तभीषणं जीर्णशीर्णविवर्णास्थिकङ्कालशकलनिकरखरभूमिभागदुःसंचरं मूर्तिमन्तम् इव निर्वेदकर्मान्तम् इवान्तकस्यारतिशोकदैन्योपायासास्पदभूतं श्मशानम् अनुप्राप्ताः ॥ भवति चात्र ॥
संप्राप्तास् ताः श्मशानं नररुधिरवसाविस्रगन्धान्धगृध्रं
व्यालुप्तान्त्रोदरार्द्रैर् अरतिभयकरैः संनिरुद्धं शवाङ्गैः ।
कुन्दापीतावदातैर् हसद् इव सततं जर्जराङ्गैः कपालैर्
जीर्णन्यग्रोधरन्ध्रव्यवहितविविधोलूकहूङ्कारभीमम्

38

सवह्निकवलोद्धतस्फुटशिवारुताभीषणं
क्व चित् सितकरङ्कजालपरिणद्धदुःसंचरम् ।
स्फुरत्कृमिकुलाकुलप्रचलनीलनासादरी-
निलीनबहुमक्षिकाशतशवाकुलोपत्यकम्

39

सितास्थिशकलारुणप्रबलमारुताभ्याहत-
स्फुरत्स्फुटचिताग्निशुष्कतरुमूललीनोरगम् ।
क्व चिन् निशितशूलभिन्ननरविग्रहोग्राश्रयं
महानसम् इवान्तकस्य सततप्रवृत्तोत्सवम्

40

क्व चिन् नरशिरोघटीविवरनिर्गतासृग्धरा-
वसासवविकारघस्मरपिशाचिपूगाकुलम् ।
क्व चित् सिमिसिमायमानचितिकानलालिङ्गित-
स्फुरन्नरकलेवरोदरविनिर्गतान्त्रोरगम्

41

संवेगानद्धहृदया विचेरुस् तत्र ताः स्त्रियः ।
स्वभावं जीवलोकस्य चिन्तयन्त्यश् चलाचलम्

42

विवृतविकृतपूतिगुह्यदेशं धरणिरजोऽरुणरूक्षकेशपाशम् ।
खगनखमुखखण्डिताक्षिकोशं ददृशुर् अथोज्झितम् अङ्गनायाः

43

मुहुर् उपागतसाध्वसचञ्चलैः कुवलयावयवैर् इव लोचनैः ।
तम् अभिवीक्ष्य कलेवरपञ्जरं बहुविधानि वचांसि बभाषिरे

44

इयम् असौ स्फुटचन्द्रकराङ्कुरच्छुरितसौधविमाननिवासिनी ।
प्रियतमाङ्कपरिष्वजनोचिता स्वपिति या वसुधातलमण्डले

45

प्रियभुजान्तरपञ्जरशायिका जलधरस्तनितेष्व् अपि कातरा ।
सदहनाद् अशिवाच् च शिवारुतात् कथम् इयं न बिभेति तपस्विनी

46

गुरुनितम्बभरालसगामिनी ललितहासविलासविलोकिनी ।
इयम् असौ स्वगृहाङ्गनचन्द्रिका गतघृणैर् विहगैर् अवलुप्यते

47

नरकरङ्कशताकुलचत्वरे पितृवने भगिनि त्वम् इहोज्झिता ।
अकरुणेन कथं दयितेन हे धिग् अनवस्थितहार्दम् इदं जगत्

48

स्वजनबन्धुसुहृत्कमलाकरभ्रमरिका दयिताङ्कविवर्तिनी ।
कथम् इयं क्षणदाचरभैरवे पितृवने रमते ऽद्य वराकिका

49

संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा
कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा ।
चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां
संत्रासं विहगापनीतनयना कष्टं करोत्य् अङ्गना

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc