भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 10-29

10

सालोकं भुवनत्रयं नरपते सद्धर्मवागंशुभिर्
यावद् बुद्धदिवाकरस्य विलसत्कीर्तिप्रभामालिनः ।
निर्यातुं व्यसनान्धकारपटलच्छन्नान्तरालाद् भवात्
तावन् न्याय्यम् अतः पुरा ह्य् अतिमहत् पर्येति घोरं तमः

11

वातास्फालनचञ्चलानलशिखाज्वालावलीढाद् गृहान्
निर्यान्तं न निवारयन्ति पुरुषं तच्छान्तिकामा यथा ।
एवं दुःखमहाहुताशनशिखाग्रस्तात् समस्ताद् भवान्
निष्क्रामन्तम् अनर्थजालपिहितात् सन्तो विवृण्वन्ति न

12

अथ स पार्थिवस् तासां तेन सुहृत्स्वजनबन्धुनिरपेक्षरूक्षाक्षरेण स्वकायजीविताशाविधुरेण वचसा सुतरां समुपजातशोकदैन्यमानसः पुनर् व्याह ॥
तपांस्य् अकालेष्व् अभिवाञ्छितानि पुष्णन्ति नार्थान् मनसो ऽनुकूलान्
अकालगर्भा इव कन्यकानाम् अजातसारावयवाङ्गशोभाः

13

भवन्त्य् अकाले तपसः प्रयोगाश् चन्द्रोपरागा इव सोपसर्गाः ।
तस्माद् इतो बुद्धिर् इयं कुमार्यो निवर्त्यताम् उत्पथचारिणीव

14

सोढुं न दुःखानि वपूंषि शक्तान्य् अदृष्टदुःखानि सुखोचितानि ।
दन्ताभिघाता द्विरदाधिपानाम् अबद्धमूला इव चूतवृक्षाः

15

सवह्निगर्भैर् अशिवैः शिवारुतैर् विनादितं भीषणरावगह्वरम् ।
भयं भयस्याप्य् उपसंहरेद् भृशं श्मशानम् आक्रन्दविरावदारुणम्

16

क्व वो वपुर् बालमृणालकोमलं मतिः क्व चेयं करपत्त्रनिष्ठुरा ।
परोपकारव्यतिषक्तचेतसो विधेर् अहो मय्य् अनपेक्षरूक्षता

17

वैडूर्यनीलमृदुशाद्वलकञ्चुकानि नानाप्रकारकुसुमप्रकरोत्कराणि ।
एतानि वो मदकलालिकुलाकुलानि क्रीडावनान्य् अभिमतानि भवन्तु कन्याः

18

गृहोपवनदीर्घिकास् तटविलम्बिपुष्पद्रुमाः
समीरणचलत्तरङ्गरुचकावलीमेखलाः ।
विबुद्धकमलोत्पलाकरनिलीनहंसस्वना
रतेर् उपनिबन्धनं मघवतो ऽप्य् अलं कन्यकाः

19

उपवीजिता जलतरङ्गलासकैर् नवमालिकाकुसुमगन्धगन्धिभिः ।
पवनैर् इहैव गृहकानने रतिं कुरुताङ्गनाः परभृतोपकूजिते

20

एते जालगवाक्षपक्षविवरप्रोद्वान्तपुष्पासवा
नानामोदविदिग्धवासविकसन्निःश्वासवाता इव ।
प्रासादा वलभीविटङ्कवलयप्रस्वस्थसुप्ताण्डजा
युष्माकं रतये भवन्तु वनिताः संगीततूर्यस्वनाः

21

अथ ताः कुमार्यस् तत् पितुर् वचनम् अमृष्यमाणाः पुनर् व्याहुः ॥
न हि तत् सुखम् अस्ति किं चिद् अन्यन् नरलोकाधिपते दिवि क्षितौ वा ।
शतशश् च सहस्रधा च भुक्तं न यद् अस्माभिर् अनर्थपण्डिताभिः

22

विषयैर् न हि तृप्तिर् इन्द्रियाणां विषयाभ्यासविशेषघस्मराणाम् ।
भवतीति विचिन्त्य बुद्धिमन्तः प्रयतन्ते भवबन्धनक्षयाय

23

चपलान्य् अनवस्थितस्वभावान्य् अनिलोद्धूततरङ्गभङ्गुराणि ।
विनिवृत्तपुनर्भवाभिलाषा विजयन्ते यतयः षडिन्द्रियाणि

24

भवचारकसूकरास् तु बालाश् छलिताश् चित्तकलेर् विचेष्टितेन ।
प्रपतन्ति सुखाभिलाषलुब्धा व्यसनेष्व् एव दुरन्तभैरवेषु

25

अहम् इत्य् उपजातविभ्रमेयं जनता प्रज्वलितास्त्रयन्त्रकल्पान् ।
विषयान् उपसेवते हताशा परिणामायततीव्रदुःखहेतून्

26

जगद् अध्रुवम् एतद् अस्वतन्त्रं विषयाशीविषपूगसंनिरुद्धम् ।
अवगम्य भवेषु ये रमन्ते पशवस् ते नरविग्रहोपनीताः

27

चमरा इव वृक्षलग्नवाला निधनं कापुरुषा व्रजन्ति गेहे ।
विषयैर् उपरुद्धबुद्धिमार्गा वितथस्नेहलतानिबद्धचित्ताः

28

रतिकारणम् अत्र जीवलोके व्यसनोद्भेदनिरन्तरान्तराले ।
वद तात किम् अस्ति येन नः स्याद् भवनेष्व् एव रतिर् बहुच्छलेषु

29

भवनेषु नरेन्द्र भागधेयान्य् उपयुज्यानि भवान्तरार्जितानि ।
मुषिता इव हीनदीनचित्ता भवकान्तारपरायणा भवन्ति

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc