जातकमाला · श्लोक 2-21
तद्यथानुश्रूयते ।
द्वौ भिक्षू स्रोतापन्नौ बभूवतुस् ताभ्याम् एकेनाशेषसंयोजनोपक्षयाद् अर्हत्त्वम् अधिगतम् । तद्द्वितीयस् तन्मात्रसंतुष्ट एवासीत् । स तेनार्हतोच्यते स्म । भद्रमुख शेषक्लेशविषोपशमाय यत्नम् आरभस्वेति । दुःखैकरसा भवा दुष्टपापसिद्ध्युपायानि श्रेयांसि क्षणलवपरिणामाविश्वसनीयं जीवितम् अपरिनिष्पन्नप्रकृतयो मायोपमास् तत्त्वविरोधिनः कामाः सभयाः सवैराः सोपायासाः पापक्रियाम् एवाङ्गीकृत्य प्रवृत्ताः परिभवायतनम् अकृतबुद्धीनां कृतात्मनाम् अप्य् अवहास्यताम् आवहन्ति । लेशेनाप्य् अनुगम्यमाना महद् दुःखम् आकर्षन्ति । नैतान् अनुपतन् कश् चिद् अक्षतो ऽनुपहतो वा । ह्रीमन्तो ऽप्य् एभिर् आविष्टाः पशुसहधर्मतां प्रतिपद्यन्ते । नैते तुलयन्ति वयसां परिणामवैकृतम् । यतिजनम् अप्य् एते प्रगल्भा व्यामोहयन्त्य् एव । श्रेयसो वधकाः प्रत्यमित्राश् चामी व्यतीत्य विनयनियमश्रीभराम् आर्यमर्यादाम् अनार्यकम् एवोद्भावयन्ति । समुदितकान्तिशोभम् अपि क्षणेन मलिनयन्ति पुरुषस्य शीलसौष्ठवम् । विपातिते च शीले सर्वविषयाय द्वारभूते हतोपनिषत्समाधिर् नालं प्रज्ञासंपदे । सकल एव च संसार एषां दुरन्तरायाणां पर्येषणाभिर् अतीतः । ये च श्वसूकरादीनाम् अपि साधारणा रतिप्रसङ्गदोहदाः कस् तान् साधुजनो मनसापि प्रार्थयेत् । स तम् अर्हन्तम् अब्रवीत् । भद्रमुख
भवा दुःखात्मकाः सन्ति श्रेयो दुरभिसंभवम् ।
जीवितं चलम् अत्यन्तं कामा दोषशताकराः
अपाया मम संक्षीणाः किञ्चिच्छेषो भवार्णवः ।
अनुभूय सुखं दिव्यं निर्वास्यामि नियोगतः
अपि चाकृतपुण्यानां भवेभ्यो जायते भयम् ।
पुण्यसम्भारयुक्तानाम् उत्सवातिशयो भवः
नानाविपत्तिगहनेष्व् अनयप्रपातेष्व् अन्धान् इवाशु पिथिते पथि संनिपात्य ।
आर्यान् अपि प्रतिभयेन पथा हरन्तः प्रख्यापयन्त्य् अशुचयो विषयाः स्वशक्तिम्
अथ सो ऽर्हन् मन्दसंवेगापन्नो ऽयम् आयुष्मान् इति विदित्वा तम् आह ।
आयुष्मन् सप्रतिद्वन्द्वाः परीत्तास्वाददूषिताः ।
भवा निशितनिस्त्रिंशधारासंपातदारुणाः
नोपादानक्षमास् तात भवाः क्रुद्धा इवोरगाः ।
विषाग्निकवलालोककरालमुखशक्तयः
दग्धप्रवृत्त्युपादानवासनामलमानसैः ।
प्रवृत्तयो जगन्नाथैः सर्वा एव विवर्जिताः
भवान् परिहरन्त्य् आराद् आत्मकामाः परीक्षकाः ।
परिच्छन्नतटागाधाञ् श्वभ्रापातभयंकरान्
रतीनां सोपतापानां मुखे स परिवर्तते ।
अभिनन्दत्य् अनादेयान् क्षणिकान् अपि यो भवान्
विच्छिन्नाशेषसंस्कारप्रवाहप्रतिसंधयः ।
प्रतिसंधिम् उपायासमूलम् आहुस् तथागताः
विसंवादिन्य एवैता गतयो महताम् अपि ।
विविधानर्थनाराचसंनिपातखलूरिकाः
आदीप्तः सर्व एवायं संसारविषपादपः ।
विष्वग्विकासिदुःखाग्नेर् ज्वालामालाकदम्बकैः
भवोपभोगस्पृहलालसाः स्वयं प्रविश्य संमोहतमिस्रदुर्दिनान् ।
चरन्ति मत्ता इव भग्नलोचना घनान्धकारे विपरीतबुद्धयः
हितोद्यतानाम् अवकीर्य भारतीं निपातरूक्षां परिणामपेशलाम् ।
अनर्थपङ्कौघनिमग्नशक्तयो भवन्ति निश्वासपरायणा नराः
लतां द्विरेफा इव पुष्पहासिनीम् उपासते ये तु सतां सरस्वतीम् ।
अकार्यनिर्मोकम् अपास्य ते कलेर् मुखं न पश्यन्ति पुनर् विभीषणम्
स तम् अर्हन्तम् अब्रवीत् । निरुत्तराण्य् अमूनि वो वचनकुसुमानि । किं तु
आपायिकानि व्यसनानि यानि मयानुभूतान्य् अतिदारुणानि ।
तेषां प्रतीकारनिमित्तभूतं सुखं भदन्तानुभवामि तावत्
अथ स महात्मा तेन तस्य वचसा सुतराम् उपजनितसंवेगो ऽब्रवीत् ।
न वर्णयन्ति क्षणिकाम् अपीश्वरा भवाभिनिर्वृत्तिम् अवन्ध्यवादिनः ।
तथा ह्य् अयं स्कन्धकदम्बकोद्भवः समुद्भवो नैकविधस्य पाप्मनः
भवप्रबन्धप्रणयो मनस्विनो जगद्धिताधानपरस्य युज्यते ।
अनुत्तरज्ञाननिबद्धचेतसां भवोद्भवो भावसुखाद् अपि प्रियः
पुनर्भवास्वादलवाकुलाशयः प्रवृत्तिम् अन्विच्छति यस् तु मोहनात् ।
मुधा स सर्वायतनोपतापिनीं विपत्तिम् अन्विच्छति सर्वतोमुखीम्
भवाः सशोकाः सभयाः सविग्रहा विवर्जिताः सद्भिर् उदारमानसैः ।
नरैर् मरुद्धूतशिखा विषद्रुमा भुजङ्गमाधिष्ठितकोटरा इव
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0