जातकमाला · श्लोक 61-1
असदृशजनसङ्गाभ्यास दो षान् मयैव
प्रकृतिगुणविनाशो मन्दभाग्यस्य जातः ।
शठमतिभिर् अनार्यैर् विप्रलब्धो ऽस्मि वाक्यैर्
यद् इह गुणधनानां शोचनीयो ऽस्मि जातः
प्रकृतिरुचिरवृत्ताः साधवो नानुवृत्ताः
सुच ⏑ ⏑ ⏑ ⏑ मानां वाङ्मधूनां निमित्तम् ।
यद् अनयगहनान्तर्वर्तिना ं – ⏑ – –
व्यसनशरशतानां लक्ष्यताम् आगतो ऽहम्
विषयसुखलवाशापाशम् आमुच्य चित्ते तृणलवम् इव जीर्णं प्रोज्झ्य सद्वृत्तवन्तम् ।
परिणतिविरसानां कर्मणाम् आत्मनैव क्षितिधर इव तुङ्गा राशयः संचिता –
– – – ⏑ ⏑ – ⏑ – ⏑ ⏑ ⏑ – भू यो ऽपि मां धक्ष्यति
प्रोद्धूताकु ल लोलपिङ्गलशिखो वह्निः कथं नारकः ।
पापात्मा मृत एव नाम सततं यो ऽन्यो ऽपि वास्मद्विधो
मृत्युः किं मृतमारिकाम् अकरुणः कर्तुं व्यवस्येन् मयि
दिक्संमोहम् उपागतो ऽहम् अधुना गच्छामि कां वा दिशं
मज्जामीव भदन्त शोकसरसि व्या – ⏑ – – ⏑ – – ।
शैलो ऽयं स्फुटतीव पापचरितं माम् अद्य संधारयन्
युष्मत्पादसमाश्रयात् तु शतधा न त्व् एव याति ध्रुवम्
अथ स महात्मा तं राजानं संविग्नमानसम् अवेत्य पात्रम् अयं श्रेयस इति विनिर्धार्योवाच । तेन हि महाराज तम् एव भगवन्तं विनिपात ... जनावलम्बवत्सलम् अपा ... त्यक्तसकलसत्त्वधातुम् अखिलजगद्धिताधानाम्लानप्रयोगम् अपरिमितविशुद्धोदारातिशयगुणगणरत्नाधिवासं महाकारुणिकं सर्वज्ञं सर्वदर्शनं शाक्यमुनिं शरणम् उपैहि । तत एव ते दुःखपरंपरापर्यन्तो भविष्यति + + + + + + + + + + ।
सुक्षेत्रे बीजम् उप्तं भवति बहुफलं तिक्तम् आस्यप्रियं
वा क्षेत्रस्यासौ स्वभावो भवति समगुणः सर्वसस्यप्रसूतौ ।
एवं कारापकारा भगवति तनवो ऽप्य् आहिताः पापकाले
पर्यन्तं नाप्नुवन्ति व्युपरतसकलक्लेशसंतानकाले
अथ स भूपतिः प्रविजृम्भमाणकुशलमूलोपचयाभिलाषमृदुहृदयतया बुद्धे भगवति समुत्पन्नप्रेमगौरवप्रसादबहुमानः सप्रत्ययाश्रुसलिलबाष्पाविलदीनमृदुमुकुलितनयनयुगलवदनस् तं भिक्षुम् उदीक्षमाणो बाष्पगण्डूषोपरुध्यमानकषायकण्ठो धरणितलप्रतिष्ठितजानुमण्डलः कृतकरपुट इत्य् उवाच ॥
एषो ऽहं तम् ऋषिं व्रजामि शरणं प्राणैर् अपि प्राणिनाम्
एकं बान्धवम् एकम् एव सुहृदं शास्तारम् एकं परम् ।
त्राणं त्रैभुवनार्तिगह्वरदरीव्यावर्तिनां प्राणिनाम्
आचार्यं परमार्थतत्त्वविषये भूतार्थनाथं विभुम्
पुनः पुनर् अनुत्तरं पुरुषदम्यसत्सारथिं
प्रयामि शरणं शरण्यतमम् अप्य् अहं – ⏑ – ।
अचिन्त्यचरितं तम् एव भगवन्तम् अद्य कृत-
प्रपञ्चविषबीजनिर्मलनिरुत्तराध्याशयम्
अप्य् अस्थितिस्हितिमतां शरणं प्रपद्ये
लोकोपकारकरणैकरसस्वभावम् ।
बुद्धं तम् एव शतधा च सहस्रधा चा-
– – ⏑ – ⏑ मकरालयकर्णधारम्
मन्ये पूतम् इवात्मभावम् अधुना शास्तुः प्रणामोद्भवैः
पुण्याम्भोभिर् अखण्डमण्डलशशिज्योत्स्नावलीनिर्मलैः ।
को वा तं प्रणिपत्य सान्द्रकरुणाप्रह्लादिताध्याशयं
तीव्रापायवतीं विषादमकरां तीर्णो न दुःखापगाम्
यत्रैको ऽप्य् अकृतधियो मनःप्रदोषः संसारं व्यसनशतैस् तनोति कृत्स्नम् ।
तत्रैकः कथम् अपि चेतसः प्रसादो नोच्छिन्द्याद् व्यसनसहस्रतन्तुजालम्
यं गत्वा शरणम् अहं जगत्प्रदीपं सर्वासच्चरितविरोधिनीं प्रपन्नः ।
आर्याणां नयपदवीं समन्तभद्रां तं वन्दे कृपणजनाधिकानुकम्पम्
इत्य् उक्त्वा व्यसनपराङ्मुखः स राजा संबुद्धे भगवति निश्चलप्रसादः ।
तं भिक्षुं क्षितितललग्नमौलिमूर्ध्ना वन्दित्वा स्वपुरवरोन्मुखो जगाम
संबुद्धे प्रतिलब्धवान् नरपतिः श्रद्धाम् असौ तादृशीं
यत् कर्मावरणाद्रिजालम् अकरोद् अल्पावशेषाश्रयम् ।
पापं यत् क्रियते जिने व्रजति तत् तैर् आर्य् अकार्यैः क्षय म्
ए केनैव हि शक्यते विलिखितुं वज्रस्वभावो ह्य् अयम्
अप्य् एव क्रकचैर् निशातदशनच्छेदावलीदन्तुरैस्
तस्याज्ञा प्रविचार्यमानतनुभिः कार्यैव शास्तुर् भवेत् ।
यस्मात् तद्विमुखा विशन्ति नरकान् ज्वालावलीदारुणान्
तस्याज्ञाप्रवणै ⏑ – नतसुखं संप्राप्यते शाश्वतम्
स्वाभिप्रायम् अतो ब्रवीमि सकलं संसारम् अप्य् उत्सहे
वस्तुं भीमभयानके ऽपि नरके लोके जिनालंकृते ।
न त्व् एवैकम् अपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य्
उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे
तद् यावन् न पतति सर्व एव लोको दुर्दृष्टिमतवितते प्रमादकूपे ।
सर्वज्ञप्रवचनभास्करे गते ऽस्तं तत् तावद् वचनरसायनं निषेव्यम्
सर्वज्ञे परमगुरौ निवेश्य भक्तिं श्रोतव्यं वचनम् ऋषेः समन्तशोभि ।
निक्षिप्य व्यसनमयीं कुकार्यचिन्तां नातो ऽन्यत् परम् अधिकं यतो ऽस्ति कृत्यम्
श्रवणकरकैः को ऽर्थस् तेषां असच्छ्रु ⏑ – ⏑ –
⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ – ।
⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ –
⏑ ⏑ ⏑ ⏑ ⏑ – ऽ; – – – – ऽ; ⏑ – ⏑ ⏑ – ⏑ –
2. भवलुब्धक
आपायानाम् अविच्छिन्नप्रायसंसारवर्त्मनाम् ।
कर्मक्लेशवशावश्या दुःखमय्यः प्रवृत्तयः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0