भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 15-34

15

व्यवसायम् इति ज्ञात्वा तस्यात्यद्भुतकर्मणः ।
तद्वियोगाभिशङ्कार्ता विचुक्रुशुर् अथामराः

16

कृपालो दुःखितान् अस्मान् परित्यज्य क्व यास्यसि ।
विषमस्थान् इव पिता वत्सलो बालपुत्रकान्

17

सद्धर्मसलिलोत्सेकैर् वर्धयन् पादपान् इव ।
अस्मान् अनागसस् त्यक्त्वा मा यासीः प्रियदर्शन

18

विषयास्वादचपलैर् हृतान् इन्द्रियवाजिभीः ।
स्वामिन् मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः

19

प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् ।
अथामरान् अश्रुपरिप्लुतेक्षणान् स सान्त्वयन्न् इत्य् अवदन् मरुत्पतिः

20

न मे न युष्मास्व् अनुरागपेशलं मनो न चायं स्वहितोदयादरः ।
विकासिनीनां विपदां मुखे स्थितं जगत् परित्रातुम् अयं तु निश्चयः

21

तद् अप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनताम् उपेष्यति ।
विसंवदन्त्य् एव समागमाः प्रियैर् निपातरम्याः परिणामदारुणाः

22

स्थित्वापि कालम् अतुलं विविधोपभोगसंभोगविस्तरसुखैस् त्रिदशाधिवासे ।
कर्मक्षयाद् विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः

23

मन्दाकिनीम् अपि विगाह्य सहाप्सरोभिर् उन्निद्रहेमकमलोच्छुरितोपकण्ठाम् ।
क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर् यदि च वैतरणीं भजन्ते

24

को नाम तेषु मतिमान् स्वमनो निदध्याद् उत्क्षेपणीयकुसुमावयवोपमेषु ।
स्वर्गोपभोगजनितेषु सुखेषु येषाम् अन्तेष्व् अपायवडवामुखसंनिवेशः

25

कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु ।
साकं प्रियाभिर् अनुभूय सुखानि भूयस् तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति

26

संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः ।
यद् धीन्द्रियार्थपरिभोगसुखानि तस्माद् यत्नं सुराः कुरुत पुण्यपरिग्रहाय

27

एधोभिर् अग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर् विषपानकल्पैः ।
तस्माद् उपाद्ध्वम् अनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै

28

अनाथानां दैन्यग्लपितमनसां दुःखाशीविष-
गणोपघ्रातानां परशुभिर् इवोत्कृत्तवपुषाम् ।
प्रशान्त्यै भूतानां वयम् अपि तिरश्चाम् अनुकृतिं
करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम्

29

अविचलप्रतिबन्धो दीर्घकालानुषङ्गी
मम जगदुपकारप्रार्थनासंनिवेशः ।
सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं
न खलु कुशलविघ्नं कर्तुम् अर्हन्ति सन्तः

30

अतिमानुषम् अप्य् अपास्य चित्रं महिमानं कृपया विकृष्यमाणः ।
स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा

31

करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् ।
प्रभवा इव कल्पपादपानाम् उदया लोकहिताय सज्जनानाम्

32

विनयानतरत्नमौलिरश्मिच्छुरितास् तं न मरुद्गणप्रणामाः ।
मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः

33

विरहव्यसनोपतापदीनैर् नयनैर् बाष्पतरङ्गधूसरान्तैः ।
दयिताः करुणं तम् ईक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः

34

स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या ।
अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc