जातकमाला · श्लोक 35-54
स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर् गुरुः प्रजानाम् ।
पुरुषातिशयो गुणप्रकर्षान् नियतं दूरतरं समुत्पपात
तपोभिर् यां दीर्घैर् यमनियमसंस्कारगुरुभिर्
व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः ।
विभूतिं ताम् ऐन्द्रीं तृणम् इव परित्यज्य कृपया
तिरश्चां साभाग्यं स जगदुपकारार्थम् अगमत्
शुभाभ्यासाद् एव क्षपितकुकृतप्रत्ययतया
तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता ।
यथेच्छं यत्रेच्छं परहितसमाधानविदुषस्
तथा ह्य् अभूत् जन्मव्यसनशमनायैव जगताम्
स्वकामकारानुविधायिनीम् श्रियम् पटान्तलग्नाम् हुतभुक्शिखाम् इव ।
न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः
तस्योपपत्तिसमकालम् अथोच्चचार लोकं स्फुरन् ध्वनिर् इति श्रवणोपकारी ।
यः पाप्य् अयं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम्
श्रुत्वाथ ध्वनिम् अतिमानुषं मनुष्याः सांहत्यस्वरितम् उपेत्य तं प्रदेशम् ।
आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणम् अभीयुर् उद्विषाणाः
आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तान् अभिपततो जवेन गत्वा ।
हाहेति स्फुटविरसं विलेपुर् उच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः
मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् ।
न कश् चित् प्रतिहतमानसो वसासृग्मोको ऽयं क्षणम् इति सो ऽभवद् विकारी
तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर् या मनसि मनस्विनो जृम्भते ।
ताम् एव क्षितिधरसारधीः स मेने पर्याप्तं फलम् अतिदुष्करस्य तस्य
लोकानाम् अभिलषितोपकारम्यं मत्वासाव् उपचितमांसम् आत्मभवम् ।
एकान्तव्यसननिपातलक्ष्यभूते संसारे ऽप्य् अभिरतिम् आबबन्ध साधुः
ये ध्वस्ताः परहितसंविधानशून्यास् तद्देहाः क्षणभिदुरा भवप्रबन्धे ।
तान् मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुम् उपादधे महात्मा
तं मत्वा विततविकारम् एव धैर्यात् ते तीक्ष्णैस् तरुम् इव चिच्छिदुः कुठारैः ।
निःशङ्का गलितकृपाशिवैर् मनोभिः सो ऽप्य् आसीत् तरुर् इव चापनीतमन्युः
तद्रक्तव्यतिरेकपाटलाग्रहस्तास् तम् खड्गैर् अरय इवापरे विचक्रुः ।
सो ऽप्य् आसीद् अभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा
सुस्राव क्षतजम् अथास्य खड्गधाराच् छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् ।
संप्राप्तघनसमये विचित्रसानोर् विन्ध्याद्रेर् जलम् इव धातुनिर्झरेभ्यः
चक्षार व्रणमुखकन्दरेभ्यो यत् तस्य क्षतजम् इव क्षताशयस्य ।
तेनोहुर् घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः
तत् तस्य प्रणिधिबलावलम्बिनीनाम् आशानां कथम् अपि पूरणात् सुचेतः ।
संप्राप्ते ऽप्य् अम्रपुरे शरीरभेदात् प्रामोद्यं निरतिशयोपमं बभार
दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य ।
प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतम् इव कान्चनं सुमेरोः
तस्योग्रैर् युगपद् इतस् ततश् च शस्त्रैर् निःशङ्कं शकलितकोमलाश्रयाङ्गे ।
विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः
परिचयकृतमार्गास् तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे ।
क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर् न च मनसि विषादो नापि खेदो बभूव
अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास् तस्य विस्तारिणीषु ।
तनुविवरतरेषु व्याडसंघा विचेरुर् न च मनसि विषादो न च खेदो बभूव
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0