भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 80-14

80

अत इह भवनं वनं च तुल्यं जगदुपजीव्यविभूतिविस्तराणाम् ।
अविकलभुवनोपकारपारप्रणयकृतव्यवसायमानसानाम्

81

तेन दत्तं समादाय स्वराज्यं लोकसारथिः ।
धनं राजा स विप्राय वाञ्छितात्यधिकं ददौ

82

तस्याश्चर्यम् उदारधर्मसुरतिं चाकर्ण्य विप्रोदितं
त्यक्त्वा वैरविकारदुःसहतरं क्रोधाभिधानं विषम् ।
धृत्वा मौलिम् इवोन्नते ⏑ ⏑ ⏑ – – – ⏑ राजा स्वयं
चक्रे तच्चरणाम्बुजप्रणयिनीम् उष्णीषमालां क्षणात्

83

तस्मिन् गते निजपुरं विनयप्रपन्ने संप्राप्य राज्यम् अरिहीनम् उदारपुण्यः ।
धर्मेण कीर्तिधवलाम्बुधिफेनमालावेलादुकूलललितां पृथिवीं शशास

84

चरितम् अतिगतोपमानशोभं न हि विभवो ऽस्त्य् अनुगन्तुम् ईश्वराणाम् ।
मम कृपणमतेस् तथापि चैतत् कृतम् अतिसाहसम् आत्मनो हिताय

85

कुशलम् उपचितं कृपात्मकानां चरितम् इदं विनिबध्य यन् मयाद्य ।
भवतु भुवनशान्तये तद् आशु ज्वलतु तथागतशासनं ततश् च

1

इति सर्वंददजातकम् ॥
श्वन् = गोश्व्
एद्. मिछएल् हह्न्.
च्f. मिछएल् हह्न्. देर् ग्रोस्से लेगेन्देन्क्रन्z महज्जातकमाला. wइएस्बदेन् 195 (असिअतिस्छे fओर्स्छुन्गेन्, 88). नो. 8: सोमजातकावदान
16. श्वन्
(247ब्6) परदुःखकातरा देवराज्यम् अप्य् अवधीरयन्ति साधवः ॥
तद्यथानुश्रूयते
बोधिसत्त्वभूतः (248अ) किल भगवान् स्वपुण्यपरिपाकविशेषोपनतम् अमरपुराधिपत्यम् कारयाम् आस । नपरिद्यूतहृदयेन सर्वलोकातिशयिनापि महिम्ना केवलं पुण्यानाम् अवन्ध्यफलम् आविष्कुर्वन्न् अमरपुरनिवासिनां चानुग्रहाय ॥
जगद् दृष्ट्वानन्तव्यसनकुलिशापातविहतं
न स स्वर्गे रेमे प्रकृतिरमणीये ऽपि भगवान् ।
तदा ह्य् एनं सा धीर् हृदि तुदति निःसङ्गम् अनिशं
परार्थप्राग्भारा परमविधुरा स्वादुविधुरा

2

अकृतकुशलव्यापारानां स्वभूतिनिबन्धनं
कृपणमनसां – – यद् वा मनो बहु मन्यते ।
स्वचरितपरिप्राप्तैश्वर्यं जगद्धितकारिणा
न विषयसुखेष्व् आस्थं चेतो महत्य् अपि रक्ष्यते

3

स कदा चिज् जम्बूद्वीपम् अवलोकयन् ददर्श [!] एवं लोकम् अशक्यप्रतीकारव्याधिदुःखोपप्लुतं विषमविरसकृतवैद्यसामर्थ्यं समरणम् आवर्ज्ज(?)व्यवसायविक्लवं रोमन्थमानम् इव पिशिताशनैर् इहैव नरकदुःखान्य् अनुभवन्तं विस्मृतस्नेहबन्धुमित्रसुहृच्छौचाचारप्रयोजनम् ॥
कृतान्तकर्मान्त इव प्रवृत्तस् तदा स रोगान्तरकल्पतुल्यः ।
अशक्यरूपप्रतिकारभीमो महात्ययो व्याधिकृतो विकारः

4

क्षुत्तृष्णाचेतनपरिगताः सानुबन्धं स्तनन्तो
विक्षिप्ताङ्गाः क्षितितलरजोगुण्ठितोद्धस्तकेशाः ।
स्मारं स्मारं जलकणमुचां मल्लिकामालुतानां
– – – – मधुकरगणैर् मार्ग आसन्नपाताः

5

श्वासाध्मातबृहत्कठोरजठरव्याभिन्ननासापुटाः
सृक्कान्तप्रतिबद्धशुष्कविरसश्लेष्मानना भीषणाः ।
रूक्षस्थूलशिराप्रतानजटिलत्वक्स्नायुशेषाश्रयाः
के चित् पूर्वकृतं निनिन्दुर् अशुभं कर्माभिसंधिस्थिरम्

6

क्वथितपिशितरन्ध्रप्रोद्वमत्पूयधारा मलिनविकृतदेहाः के चिद् अप्रेक्षणीयाः ।
क्रिमिकुलपरिलुप्तप्रायबाहूदरोरुश्रवणनयननासाः प्रार्थयन्ते स्म कालम्

7

संशुष्काधरकण्ठतालुविवरास् तृष्णाग्निना दाहिना
रूक्षक्षामविदारिताननपुटाः प्रेता इवायासिनः ।
आमत्तालिकुलोद्धतोत्पलवनच्छन्नाम्बुविष्यन्दिनां
वीक्षन्तः सरसां पयांसि विविशुः के चित् कृतान्तालयम्

8

दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्राः ।
अन्ये तु क्लमशिथिलाश्रया रुजानाम् आजग्मुर् निलयनतां प्रबन्धिनीनाम्

9

के चिल् लालासलिलविसरक्लिन्नसंसक्तदीर्घ-
श्मश्रुव्राताः पथिषु कृपणाः क्लान्तकायाः शयानाः ।
क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर्
व्यावृत्तास्या विपदम् अवशाः प्रत्यपद्यन्त तीव्राम्

10

तस्य तद् अतिदारुणम् आलोक्य लोकव्यसनं महत् कारुण्यम् उदपादि । अथ स महासत्त्वस् तेन सत्त्वोपद्रवेण व्यथितमनाः सुतराम् अभिवर्धितानुकम्पाकम्पितः पितेवैकपुत्रव्यसनम् असहमानश् चिन्ताम् अपेदे ॥
इत्थं गतानां क इवाभ्युपायः स्याद् आमयोच्छित्तिसुखः प्रजानाम् ।
अपीह लोकत्रयबान्धवानां तथागतानाम् अनृणो भवेयम्

11

अपि नाम भवेन् मम प्रतिज्ञा सकला लोकहितप्रयोगसिद्ध्यै ।
अपि मानुषजन्मदुःखभाजो व्यसनेभ्यः परिमोक्षम् अश्नुवीरन्

12

अपि नाम न बोधिसत्त्वनामव्यपदेशं वितथं समुद्वहेयम् ।
अपि सर्वविदाम् अगर्हणीयां दधद् आज्ञाम् अनिमित्तवत्सलानाम्

13

भवदुःखशिलीमुखक्षतानाम् अपि मतेव पितेव च प्रजानाम् ।
अहम् एव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः

14

यावद् दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं
कालाहेर् आस्यकोशं सकलजगदनुग्राससंभोगभीमम् ।
तावद् द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं
प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc