जैमिनीयन्यायमालाविस्तर · अध्याय 3.1
काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् ।
तत्र शाखाभेदात्कर्म भिद्यते ।
कुतः ।
भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् ।
काठक-काण्वादिको नामभेदः ।
कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः ।
एकस्यां शाखायामधीताः ऽइषे त्वाऽ इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरे ऽप्यधीयन्त इति पुनरुक्तिः ।
एवमशक्त्यादयो भेदहेतव उदाहार्याः ।
न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् ।
तस्मात्-शाखाभेदेन कर्मभेदः ।
इति प्राप्ते-
ब्रूमः- रूपाद्यभेदादेकं कर्म ।
आग्नेयाष्टाकपालादियागरूपं षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते ।
ऽदर्शपूर्णमासाभ्यां यजेतऽ इति यागरूपः पुरूषव्यापारश्चैकविधः ।
ऽदर्शपूर्णमासौऽ इति कर्मनामाप्येकम् ।
ऽस्वर्गकामःऽ इति फलसंबधो ऽप्येकः ।
तस्मात्- अभिन्नं कर्म ।
पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते ।
काठकादिकं ज्योतिरादिवन्न कर्मसाम, ऽकाठकेन यजेतऽ इत्यश्रवणात् ।
ऽकाठकवधीतेऽ इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् ।
भूभोजनादिरध्ययनधर्मः ।
पुनरुक्तिरध्येतृभेदान्न दुष्यतिऽ ।
अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते ।
तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदे ऽपि कर्म न भिद्यते ॥ म्जैन्य्च्_2,4.3-4 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः
द्वितीयो ऽध्यायस्य समाप्तः
अथ तृतीयाध्यायस्य प्रथमः पादः ।
स्तर्त् म्जैन्य् 3,1.1
द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् ।
बुभुत्सितः शेषशेषिभावो ऽतो ऽत्राभिधीयते
अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम्
(प्रथमे प्रतिज्ञाधिकरणे सूत्रम् -)
अथातः शेषलक्षणम् । जैम्_3,1.1 ।
स्तर्त् म्जैन्य् 3,1.2-3
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति--
अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः ।
क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात्
गुणप्रधानभावेन संसर्गे ऽन्तर्भवत्यसौ ।
व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत्
यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् ।
कुतः ।
केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् ।
व्युत्पन्नो हि शब्दः प्रत्यायकः ।
व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा ।
लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् ।
अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् ।
मैवम् ।
अन्वये शेषशेषिभावस्यान्तर्भावात् ।
न हि गुणप्रधानभावमन्तरेणान्वयः संभवति ।
द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् ।
एवं द्वयोः प्रधानयोरपि ।
अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावो ऽपि शाब्दः ।
तस्मादयमध्याय आरम्भणीयः ॥ म्जैन्य्च्_3,1.2-3 ॥
( द्वितीये शेषलक्षणाधिकरणे सूत्रम् -)
शेषः परार्थत्वात् । जैम्_3,1.2 ।
स्तर्त् म्जैन्य् 3,1.4
द्वितीयाधिकरणमारचयति-
स्वरूपहेतू न स्तो ऽत्र स्तो वा नैवानिरूपणात् ।
पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम्
न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते ।
तथा हि-शेषत्वं नाम किम्-अविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा ।
नाऽद्यः ।
षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् ।
न द्वितीयः ।
ऽपुरोडाशकपालेन तुषानुपवपतिऽ इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् ।
न तृतीयः ।
बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् ।
तस्मान्नास्ति शेषतायाः स्वरूपम् ।
नापि हेतुरस्ति ।
ऽविमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते,-
ब्रूमः- ऽविमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्ऽ इति हेतुः सुनिरूपः ।
अविनाभूतत्वादीनां लक्षणानां दुष्टत्वे ऽपि ऽपरार्थः शेषःऽ इति लक्षणस्यादुष्टत्वात् ।
तेन लक्षित आकारः स्वरूपम् ।
न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् ।
आकारभेदेन तद्भेदात् ।
दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः ।
इतख्यावृत्त्या बोधक आकारो लक्षणम् ।
तस्माच्छेषताया हेतुस्वरूपे विद्येते
(तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6)
द्रव्यगुणसंस्कारेषु बादरिः । जैम्_3,1.3 ।
कर्माण्यपि जैमिनिः फलार्थत्वात् । जैम्_3,1.4 ।
फलं च पुरुषार्थत्वात् । जैम्_3,1.5 ।
पुरुषश् च कर्मार्थत्वात् । जैम्_3,1.6 ।
स्तर्त् म्जैन्य् 3,1.5-6
तृतीयाधिकरणमारचयति-
किं द्रव्यगुणसंस्कारमात्रं शेषो ऽथवा फलम् ।
पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः
शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः ।
पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः
स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः ।
एतेषु त्रिष्वेव शेषत्वम् ।
स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म ।
न हि फलादीनां त्रयाणां शेषत्वमस्ति ।
उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् ।
पारार्थ्ये लक्षणमभिप्रेत्य ऽफलादयो ऽपि शेषाःऽ इति जैमिनेर्मतम् ।
तथा च त्रीणि सूत्राणि पठ्यन्ते- ऽकर्माण्यपि जैमिनिः फलार्थत्वात्ऽ ऽफलं च पुरुषार्थत्वात्ऽ ऽपुरुषश्च कर्मार्थत्वात्ऽ इति ।
तत्रोपकारित्वमतिव्याप्तम् ।
प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् ।
तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ म्जैन्य्च्_3,1.5-6 ॥
(चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7 - 10)
तेषाम् अर्थेन संबन्धः । जैम्_3,1.7 ।
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च । जैम्_3,1.8 ।
अर्थलोपाद् अकर्मे स्यात् । जैम्_3,1.9 ।
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् । जैम्_3,1.10 ।
चतुर्थाधिकरणमारचयति-
स्तर्त् म्जैन्य् 3,1.7-8
श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः ।
व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः
अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ ।
श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा
व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः ।
ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते ।
अवान्तरापूर्वस्य कस्यचिदभावात् ।
एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् ।
फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठिताः फलापूर्वे जनयन्त्येव- इति सांकर्ये प्राप्ते, -
ब्रूमः- आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति ।
ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि ।
तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् ।
फलापूर्वे तु तेन व्यवहितम् ।
एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः ।
तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते ।
ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् ।
तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् ।
अथोच्येत-ऽतुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः ।
एवं विलापनमाज्य एव ।
दोहनादिकं सांनाय्य एवऽ - इति ।
बाढम् ।
दृष्टार्थानां धर्माणां व्यवस्थितत्वे ऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन-इति चेत् ।
मैवम् ।
ऽव्रीहीन्प्रोक्षतिऽ ऽआज्यमवेक्षतेऽ इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् ।
श्रुतिश्च प्रकरणाद्बलीयसी ।
तस्माद्व्यवस्थिता धर्माः ॥ म्जैन्य्च्_3,1.7-8 ॥
(पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्)
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत । जैम्_3,1.11 ।
स्तर्त् म्जैन्य् 3,1.9-10
पञ्चमाधिकरणमारचयति-
द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः ।
यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः
वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति ।
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत्
दर्शपूर्णमासयोः श्रूयते - ऽस्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानिऽ इति ।
स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते ।
तत्र-व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृते ऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् ।
येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् ।
नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति - इति प्राप्ते, --
ब्रूमः- ऽस्फ्येनोद्धन्तिऽ ऽकपालेषु श्रपयतिऽ ऽअग्निहोत्रहवण्या हवींषि निर्वपतिऽ ऽशूर्पेंण विविनक्तिऽ ऽकृष्णाजिनमधस्तादुलूखलस्यावस्तृणातिऽ ऽशम्यया ।
दृषदमुपदधातिऽ ऽउलूखलमुसलाभ्यामवहन्तिऽ ऽदृषदुपलाभ्यां पिनष्टिऽ इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत ।
व्यवस्थापक्षे ऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् - इति चेत् ।
न ।
उद्धननादिवाक्यसिद्धार्थानुवादत्वात् ।
न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् ।
बहुवैयर्थ्यस्य जघन्यत्वात् ।
न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् ।
ऽयज्ञायुधानि संभरन्तिऽ इत्यासादनबिधानायोपयुक्तत्वात् ।
तस्मात् - अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि ॥ म्जैन्य्च्_3,1.9-10 ॥
(षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् -)
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् । जैम्_3,1.12 ।
स्तर्त् म्जैन्य् 3,1.11-12
षष्ठाधिकरणमारचयति-
क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् ।
क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा
द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः ।
साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ
ज्योतिष्टोमे श्रूयते - ऽअरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातिऽ इति ।
तत्र - अरुणाशब्दो ऽरुणिमानं गुणमाचष्टे ।
गुणिविषयतया प्रयुज्यमानस्यापि ऽनागृहीतविशेषण विशिष्टेर् बुद्धःऽ इति न्यायेन गुणबोधकत्वात् ।
अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च ।
तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् ।
अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् ।
ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् ।
प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति ।
न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् ।
तयोः शब्दयोर्द्रव्यवाचित्वात् ।
पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी ।
एवमेकहायनी ।
यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् ।
तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति ।
न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् ।
अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते ।
तत्रैषाक्षरयोजना - ऽअरुणयाऽ इत्येतत्पृथग्वाक्यम् ।
तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते-ऽयानि ज्योतिष्टोम् साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानिऽ इति ।
तस्मात् - गुणः संकीर्णः- इति प्राप्ते, -
ब्रूमः- यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति ।
तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति ।
एवं सति वाक्यभेदो न भविष्यति ।
ननु वाक्यभेदाभावे ऽपि लक्षणा दुर्वारा ।
गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् ।
मैवम् ।
गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते ।
तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते ।
तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् - इति चेत् ।
न ।
तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः ।
तर्हि - ऽवाससा क्रीणातिऽ ऽअजया क्रीणातिऽ इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदो ऽस्तु - इति चेत् ।
न ।
तेषां क्रयान्तरसाधनत्वात् ।
न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते ।
अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् ।
ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः ।
नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः ।
तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः ।
तथा सति ऽआरुण्यविशिष्टैकहायन्या क्रीणातिऽ इत्यर्थः पर्यवस्यति ।
तस्मात् - आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते ॥ म्जैन्य्च्_3,1.11-12 ॥
(सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15)
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् । जैम्_3,1.13 ।
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् । जैम्_3,1.14 ।
चोदिते तु परार्थत्वाद् यथाश्रुति प्रतीयेता । जैम्_3,1.15 ।
स्तर्त् म्जैन्य् 3,1.13-14
सप्तमाधिकरणमारचयति -
संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः ।
एक उद्देश्यसंख्याया उपादेयवदादरात्
प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् ।
तद्विधौ वाक्यभेदो ऽतो द्रव्योक्त्या सर्वशोधनम्
सोमे श्रूयते- ऽदशापवित्रेण ग्रहं संमार्ष्टिऽ इति ।
दशापत्रित्रं वासःखण्डः ।
तत्र - यथा ऽपशुना यजेतऽ इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् ।
किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति ।
तस्मात् - एक एव ग्रहः शोधनीयः-इति प्राप्ते, -
ब्रूमः- ऽग्रहम्ऽ इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते ।
ग्रहं प्रति गुणः संमार्गः ।
ऽप्रतिप्रधानं च गुण आवर्तनीयःऽ इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः ।
एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् ।
अथोच्येत - नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्-इति ।
तन्न ।
वाक्यभेदापत्तेः ।
ऽग्रहं संसृज्यात्, तं चैकम्ऽ इत्येवं विधेयार्थभेदाद्वाक्यभेदः ।
ऽ पशुना यजेतऽ इत्यत्र तु यागं प्रति गुणभूतः पशुः ।
न हि ऽप्रतिगुणं प्रधानस्याऽवृत्तिःऽ इति कश्चिन्यायो ऽस्ति ।
तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् ।
न च जातिः संस्कार्या ।
तस्या अभूर्तत्वात् ।
ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः ।
तत्र चाऽवृत्तिरुक्ता ।
तस्मात्- सर्वे ग्रहाः संमार्जनीयाः ॥ म्जैन्य्च्_3,1.13-14 ॥
(अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16 - 17)
संस्काराद् वा गुणानाम् अव्यवस्था स्यात् । जैम्_3,1.16 ।
व्यवस्था वार्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात् । जैम्_3,1.17 ।
स्तर्त् म्जैन्य् 3,1.15-16
अष्टमाधिकरणमारचयति -
चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् ।
एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात्
अबाधो ऽत्राऽदरे हेतुर्वाक्यभेदस्तु नैव हि ।
चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात्
ऽग्रहम्ऽ इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते ।
ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयो ऽपि मार्जनीयाः- इति प्राप्ते, -
ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् ।
अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत ।
ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः ।
न च विपयापेक्षया तत्कल्पनम् ।
ग्रहश्रुत्यैव तद्विषयसमर्पणात् ।
तस्मान्नास्ति संमार्गः ॥ म्जैन्य्च्_3,1.15-16 ॥
(नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्)
आनर्थक्यात्तदङ्गेषु । जैम्_3,1.18 ।
स्तर्त् म्जैन्य् 3,1.17-19
नवमाधिकरणमारचयति -
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः ।
उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः ।
ऊर्ध्वपात्रे खादिरे ऽग्ने संयुज्यान्वेति कर्मणा
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः ।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना
वाजपेयप्रकरणे श्रूयते - ऽ सप्तदशारत्निर्वाजपेयस्य यूपो भवतिऽ इति ।
तत्र - यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणो ऽङ्गम् ।
सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् ।
प्रकरणं चैवमनुगृह्यते ।
यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति - इति प्राप्ते, -
ब्रूमः- ऽसप्तदशारत्निर्यूपःऽ इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते ।
तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति ।
तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणो ऽङ्गम् ।
यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा-
त्पशुव्यवधानमभ्युपेयम् ।
ऽवाजपेयस्यऽ इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते ।
ऽदेवदत्तस्य नप्ताऽ इति प्रयोगात् ।
यत्तु-सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्ऽ तदुभयमप्यविरुद्धम् ।
पश्वङ्गत्वे ऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् ।
किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् ।
सिद्धान्ते तु नासौ देषः ॥ म्जैन्य्च्_3,1.17-19 ॥
(दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19 - 20)
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् । जैम्_3,1.19 ।
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण । जैम्_3,1.20 ।
स्तर्त् म्जैन्य् 3,1.20-22
दशमाधिकरणमारचयति -
अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् ।
किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत्
प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि ।
मिथः संबन्धराहित्यान्मैवं ते ऽपि समत्वतः
कर्तृयोगाददोषश्चोत्समानेयं समाहितिः ।
ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः
दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते- ऽअभिक्रामं जुहोतिऽ इति ।
तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा ।
कुतः ।
अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाञक्रियया संबन्धासंभवात् - इति चेत् ।
मैवम् ।
क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् ।
अथोच्येत-अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति ।
तदेतत्समाधानं प्रयाजसंबन्धे ऽपि समानम् ।
अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते ॥ म्जैन्य्च्_3,1.20-22 ॥
स्तर्त् म्जैन्य् 3,1.23-24
एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति -
यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः ।
दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता
अवान्तरप्रकरणं समिधो यजतीत्यतः ।
तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता
अस्मिन्नपि मते तावेव विषयसंशयौ ।
पूर्वोत्तरपक्षहेतुमात्रमन्यत् ।
प्रयाजसंनिधितो ऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते - इति पूर्वःपक्षः ।
"समिधो यजति"इत्यारंभ्याऽम्नातमवान्तरप्रयाजप्रकरणम् ।
तन्मध्ये ऽभिक्रमणमाम्नातम् ।
तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते - इति राद्धान्तः ।
अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते ।
प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ म्जैन्य्च्_3,1.23-24 ॥
(एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्)
संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् । जैम्_3,1.21 ।
स्तर्त् म्जैन्य् 3,1.25-26
एकादशाधिकरणमारचयति-
उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा ।
दर्शाङ्गता प्रक्रियैषावान्तरातो ऽस्त्विहाग्रिमः
लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः ।
विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः
दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै त्वाष्ट्रः"- इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम् ।
नवमे - निवित्संज्ञकानाम्"अग्ने महां असि ब्राह्मणभारतऽ - इत्यादीनां मन्त्राणां ब्राह्मणम् ।
दशमे - काम्याः सामिधेनीपक्षाः ।
एकादशे तु - उपवीतमेवं विहितम् - ऽनिवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते"इति ।
तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् ।
न ।
निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् ।
न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् ।
लिङ्गेन निविदामग्न्यङ्गत्वावगमात् ।
आहुत्यधिकरणभूतमग्निं संबोध्य"महानसि"-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते ।
अत एव निर्वचनमेवं श्रूयते -"निविद्भर्न्यवेदयेत्, तन्निविदां निवित्त्वम्"इति ।
ननु - ऽसम्यगिध्यते ऽग्निर्याभिऋग्भिस्ताः सामिधेन्यःऽ इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् ।
सन्तु नाम ।
नैतावता परस्परमङ्गाङ्गिभावः ।
ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् ।
न ।
पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् ।
संनिधिना तदङ्गत्वम् - इति चेत् ।
न ।
काम्यसामिधेनीभिर्व्यवधानात् ।
न च काम्यसामिधेन्यङ्गता शङ्कनीया ।
संनिधितः प्रकरणस्य प्रबलत्वात् ।
तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् ॥ म्जैन्य्च्_3,1.25-26 ॥
(द्वादशे गुणानां मिथो ऽसंबन्धाधिकरणे सूत्रम्) ।
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् । जैम्_3,1.22 ।
स्तर्त् म्जैन्य् 3,1.27-28
द्वादशाधिकरणमारचयति -
वैकङ्कतादिकं पात्रं पवमानहविःष्वथ ।
यज्ञे ऽखिले प्रकरणादाधाने ऽन्वितमत्र तत्
अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते ।
नाऽधानहविषां साम्याद्वाक्याद्यज्ञे ऽखिले भवेत्
आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते -"तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन"इति ।
यज्ञावचरो यज्ञप्रचारहेतुः ।
तत्र - वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति ।
एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते ।
अस्ति हि पवमानहविषामाधानाङ्गत्वम् ।
तत्प्रकरणे पाठात् ।
ऽकृत्तिकास्वग्निमादधीतऽ इत्यस्मिन्प्रकरणे ऽप्रजापतिर्वाचः सत्यमपश्यत्ऽ इत्यस्मिन्ननुवाके ऽत्रीणि हवींषि निर्वपतिऽ इत्यादिना तानि विहितानि ।
ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि -- इति प्रापते, ब्रूमः- अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि ।
ऽयदाहवनीये जुह्वति तेन सो ऽस्वाभीष्टः प्रीतःऽ इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् ।
तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः ।
तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् ।
ऽवैकङ्कतो यज्ञावचरःऽ इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते ॥ म्जैन्य्च्_3,1.27-28 ॥
(त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् -)
मिथश् चानर्थसंबन्धात् । जैम्_3,1.23 ।
स्तर्त् म्जैन्य् 3,1.29-31
त्रयोदशाधिकरणमारचयति --
वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे ।
इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः
क्रमेण प्रापिता मन्त्राश्चत्वारो ऽप्याज्यभागयोः ।
क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता
न मुख्ये सोम एको ऽस्ति नाऽधारत्वादिकालयोः ।
दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः
दर्शपूर्णमासप्रकरणे श्रूयते - ऽवार्त्रघ्नीऽ पूर्णमासे ऽनूच्येते, वृधन्वती अमावायायाम्ऽ इति ।
तत्र - इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ऽअग्निर्वृत्राणि जङ्घनम् -ऽ इत्यनुवाकेनाऽम्नातम् ।
उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते ।
तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् - इति प्राप्ते, -
ब्रूमः- ऽअग्निर्वृत्राणि जङ्गनत्ऽ इत्याग्नेयी प्रथमा वार्त्रघ्नी, ऽत्वं सोमासि सत्पतिःऽ इति सौम्या द्वितीया वार्त्रघ्नी ।
ऽअग्निः प्रत्नेन जन्मनाऽ - इत्याग्नेयी प्रथमा बृधन्वती, ऽसोम गीर्भिष्ट्वा वयम्ऽ इति सौम्या द्वितीया वृधन्वती ।
तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु ।
सौम्ययोस्तु तन्न संभवति ।
सोमदेवताया अभावात् ।
नह्यग्नीषोमीये ऽपि केवलः सोमो विद्यते ।
किंच ऽपूर्णमासे, अमावास्यायाम्ऽ इति सप्तमीभ्यामाधारत्वं गम्यते ।
तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति ।
कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् ।
किंच - प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः ।
स चाऽज्यभागयोरङ्गयोः क्रमः ।
न तु मुख्ययोदर्श पूर्णमासयोः ।
तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् ।
ननु - एतत्क्रमेणैव लब्धम् ।
तत्रापि ऽआग्नेये प्रथमाज्यभागे मन्त्रो ऽप्याग्नेयः ।
सौम्ये द्वितीये सौम्यःऽ इत्येषा व्यवस्था लिङ्गेनैव लभ्यते ।
बाढम् ।
तथापि ऽवार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्ऽ इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते - इति न वैयर्थ्यम् ॥ म्जैन्य्च्_3,1.29-31 ॥
(चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24 - 25 )
आनन्तर्यम् अचोदना । जैम्_3,1.24 ।
वाक्यानां च समाप्तत्वात् । जैम्_3,1.25 ।
स्तर्त् म्जैन्य् 3,1.32-33
चतुर्गशाधिकरणमारचयति -
हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् ।
दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले
तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् ।
लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता
दर्शपूर्णमासप्रकरणे श्रूयते - ऽहस्ताववनेनिक्ते, ऽ ऽउलपराजिं स्तृणातिऽ इति ।
वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः ।
तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् ।
मैवम् ।
अवनेजनं हस्तसंस्कारः ।
ऽसंस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौऽ इत्येतादृशं सामर्थ्यो लिङ्गम् ।
प्रकरणं च दर्शपूर्णमासयोः स्फुटम् ।
अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः ।
अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः ।
स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- ऽमुष्टी करोतिऽ ऽवाचं यच्छतिऽ इति ।
तदनन्तरमेवेदं श्रुतम् - ऽदीक्षितमावेदयतिऽ इति ।
आवेदनप्रकारश्चैवं श्रुतः- ऽअदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहऽ इति ।
अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् ।
तेन क्रमो बाध्यते ॥ म्जैन्य्च्_3,1.32-33 ॥
(पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27) ।
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् । जैम्_3,1.26 ।
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः । जैम्_3,1.27 ।
स्तर्त् म्जैन्य् 3,1.34-36
पञ्चदशाधिकरणमारचयति -
चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् ।
चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम्
उपलक्षणताऽग्नेये युक्तातः सर्वशेषता ।
अग्नीषोमीय ऐन्द्राग्ने यतो ऽस्त्वाग्नेयता ततः
नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् ।
तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः
ऽनित्योदकी नित्ययज्ञोपवीतीऽ इति स्मृत्या प्राप्तस्य ऽउपध्ययतेऽ इत्यवमनुवादः- इति चत् ।
मैवम् ।
पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते
प्रेताग्निहोत्रे श्रूयते- ऽप्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयतिऽ इति ।
ऽये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्ऽ इति ।
तत्र- मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वे जीवतो ऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं विधातव्यम् ।
ऽदेषेभ्यो यज्ञोपवीती दोहयेत्ऽ ऽमरणात्पुरा ये दर्भास्त उदञ्चः कार्याःऽ इति वचनव्यक्तिः ।
नह्येतदुभयमन्यतः प्राप्तम् ।
तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत् ।
मैवम् ।
हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः ।
अस्ति च तयोः प्राप्तिः ।
ऽअग्रवन्त्युदगग्राणिऽ- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते ।
तथा- दर्शपूर्णमासयोः ऽउपव्ययतेऽ इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते ।
तस्माद्- अनुवादः
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0