भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 2.4

2.4.1

यदाग्नेयो ऽष्टाकपालो ऽमावस्यायां पौर्णमास्यां चाच्युतो भवति ।
इति कालद्वये विहितम् ।
ऽयदाग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतिऽ इत्येकस्मिन्काले पुनर्विहितम् ।
तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः ।
तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् ।
न ।
प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् ।
न चानुवादो व्यर्थः ।
विधेयैन्द्राग्नस्तुत्यर्थत्वात् ।
यद्यप्याग्नेयो ऽष्टाकपालो ऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति ।
इन्द्रसहितो ऽग्निः समीचीनतरः ।
तस्मात्---
ऽऐन्द्राग्नः कर्तव्यःऽ इति विधेयस्तुतिः ।
प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् ॥ म्जैन्य्च्_2,3.33-34 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः
(अथ द्वितीयाध्यायस्य चतुर्थः पादः)
(प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1 - 7)
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् । जैम्_2,4.1 ।
कर्तुर् वा श्रुतिसंयोगात् । जैम्_2,4.2 ।
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् । जैम्_2,4.3 ।
अपवर्गे च दर्शयति कालश् चेत् कर्मभेदः स्यात् । जैम्_2,4.4 ।
अनित्यत्वात् तु नैवं स्यात् । जैम्_2,4.5 ।
विरोधश् चापि पूर्ववत् । जैम्_2,4.6 ।
कर्तुस् तु नियमात् कालशास्त्रं निमित्तं स्यात् । जैम्_2,4.7 ।
स्तर्त् म्जैन्य् 2,4.1-2
चतुर्थपादस्य प्रथमाधिकरणमारचयति-
यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा ।
कालत्वात्कर्मधार्मो ऽतः काम्य एकः प्रयुज्यताम्

2.4.2

न कालो जीवनं तेन निमित्तप्रविभागतः ।
काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः

2.4.3

बह्वृचब्राह्मणे श्रूयते- ऽयावज्जीवमाग्निहोत्रं जुहोतिऽ इति ।
तत्रं यावज्जीवशब्दो मरणावधिकालपरः ।
तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् ऽजुहोतिऽ इत्यनूदिते कर्मणि विधीयते ।
तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति ।
स च काम्यप्रयोगो ऽभ्यसितव्यः ।
सकृदनुष्ठानस्य ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यनेनैव सिद्धत्वात् ।
ऽयावज्जीवम्ऽ इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् ।
तस्मात्-अयं काम्यकर्मणो ऽभ्याससिद्धये कालरूपधर्मविधिः ।
इति प्राप्ते,- ब्रूमः-
यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः ।
वाच्यार्थस्तुकृत्स्नजीवनम् ।
न च-जीवनं कर्मधर्मत्वेन विधातुं शक्यम् ।
तस्य पुरुषधर्मत्वात् ।
तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते ।
न च - अत्र कर्मभेदः ।
तद्धेतूनां शब्दान्तरादीनामभावात् ।
न च-अभ्यासस्तद्धेतुः ।
निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् ।
अतः प्रयोगभेदः पर्यवस्यति ।
जीवनस्यात्र निमित्तत्वात् ।
सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् ।
न च-जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः ।
सायंप्रातःकालयोर्विहितत्वात् ।
तस्मात्-जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ ॥ म्जैन्य्च्_2,4.1-2 ॥
(द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8 - 32)
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् । जैम्_2,4.8 ।
एकं वा संयोगरूपचोदनाख्याविशेषात् । जैम्_2,4.9 ।
न नाम्ना स्याद् अचोदनाभिधानत्वात् । जैम्_2,4.10 ।
सर्वेषां चैककर्म्यं स्यात् । जैम्_2,4.11 ।
कृतकं चाभिधानम् । जैम्_2,4.12 ।
एकत्वे ऽपि परम् । जैम्_2,4.13 ।
विद्यायां धर्मशास्त्रम् । जैम्_2,4.14 ।
अग्नेयवत्पुनर्वचनम् । जैम्_2,4.15 ।
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । जैम्_2,4.16 ।
अर्थासन्निधेश् च । जैम्_2,4.17 ।
न चैकं प्रतिशिष्यते । जैम्_2,4.18 ।
समाप्तिवच् च संप्रेक्षा । जैम्_2,4.19 ।
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि । जैम्_2,4.20 ।
प्रायश्चित्तं निमित्तेन । जैम्_2,4.21 ।
प्रक्रमाद् वा नियोगेन । जैम्_2,4.22 ।
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत । जैम्_2,4.23 ।
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् । जैम्_2,4.24 ।
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् । जैम्_2,4.25 ।
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् । जैम्_2,4.26 ।
सारस्वते विप्रतिषेधाद्यदेति स्यात् । जैम्_2,4.27 ।
उपहव्ये ऽप्रतिप्रसवः । जैम्_2,4.28 ।
गुणार्था वा पुनः श्रुतिः । जैम्_2,4.29 ।
प्रत्ययं चापि दर्शयति । जैम्_2,4.30 ।
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत । जैम्_2,4.31 ।
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् । जैम्_2,4.32 ।
स्तर्त् म्जैन्य् 2,4.3-4
द्वितीयाधिकरणमारचयति -
शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते ।
दृष्टं काठकनामादि बहु भेदस्य कारणम्

2.4.4

ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः ।
रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc