जैमिनीयन्यायमालाविस्तर · अध्याय 1.3
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः
अथ तृतीयः पादः
(प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2)
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् । जैम्_1,3.1 ।
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् । जैम्_1,3.2 ।
स्तर्त् म्जैन्य् 1,3.1-2
तृतीयपादस्य प्रथमाधिकरणमारचयति -
अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा ।
निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता
वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता ।
विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता
"अष्टकाः कर्तव्याः"इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात् , विप्रलम्भकवाक्यत्वात् ।
अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् ।
तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते - ब्रूमः -- ऽ विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात् , उपनयानाध्ययनादिस्मृतिवत् ऽ ।
न च वैयर्थ्ये शङ्कनीयम् ।
अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् ।
तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ म्जैन्य्च्_1,2.1-2 ॥
स्तर्त् म्जैन्य् 1,3.3
अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह -
न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः ।
तन्न स्मृतेर्मूलवेदे ऽनुमिते मात्वसंभवात्
(द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्)
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् । जैम्_1,3.3 ।
स्तर्त् म्जैन्य् 1,3.4-5
द्वितीयाधिकरणमारचयति -
औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः ।
अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत्
औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः ।
विरोधान्मूलवेदस्याननुमानादमानता
ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते ।
तस्याश्र्च वाससा वेष्टनं स्मर्यते- ऽ औदुम्बरी सर्वा वेष्टयितव्याऽ इति ।
सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते -
ब्रूमः - ऽ औदुम्बरीं स्पृष्ट्वोद्गायेत् ऽ इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते ।
न च सर्ववेष्टने स्पर्शः संभवति ।
अतो मूलवेदानुमानं कालात्ययापदिष्टम ।
अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ म्जैन्य्च्_1,2.4-5 ॥
स्तर्त् म्जैन्य् 1,3.6-7
अस्मिन्नेवाधिकरणे मतान्तरमाह -
प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् ।
अमात्वे शङ्किते बाधो ऽनुमानस्यात्र वर्ण्यते
परप्रत्यक्षवेदो ऽत्र मूलं चेद्वेष्टनस्य तत् ।
अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः
स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः ।
अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् ।
यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् ।
तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ म्जैन्य्च्_1,2.6-7 ॥
(तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) ।
हेतुदर्शनाच् च । जैम्_1,3.4 ।
स्तर्त् म्जैन्य् 1,3.8-9
तृतीयाधिकरणमारचयति -
वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः ।
प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत्
दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् ।
सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा
ज्योतिष्टोम्ऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः ।
तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससो ऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति ।
तस्मिन्वासस्येवं स्मर्यते - ऽ वैसर्जनहोमीयं वासो ऽध्वर्युर्गृह्णातिऽ इति ।
सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते ।
ततो ऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते -
ब्रूमः- कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह ।
तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति ।
दृष्टामुसारिणी चैषां कल्पना ।
दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् ।
तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते ।
अतो बाधाभावे ऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ म्जैन्य्च्_1,2.8-9 ॥
(चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5 - 7)
शिष्टाकोपे ऽविरुद्धम् इति चेत् । जैम्_1,3.5 ।
न शास्त्रपरिमाणत्वात् । जैम्_1,3.6 ।
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् । जैम्_1,3.7 ।
स्तर्त् म्जैन्य् 1,3.10-11
चतुर्थाधिकरणं भाष्यमतेनाऽरचयति -
आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् ।
वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः
आचान्त्यादिः पदार्थो ऽत्र क्रमो धर्मः पदार्थगः ।
धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता
ऽक्षुत आचामेत् ऽ इति विहितं पुरुषार्थमाचमनम् ।
यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते ।
ऽ आचान्तेन कर्तव्यम् ऽ इति ।
सेयं स्मृतिर्न प्रमाणम् ।
कुतः ।
विरूद्धत्वात् ।
ऽवेदं कृत्वा वेदिं करोति ऽ इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते ।
वेदो नाम दर्भमयं संमार्जनसाधनम् ।
वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः ।
तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत ।
तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते -
ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः ।
क्रमस्तु पदार्थनिष्ठो धर्मः ।
स च पदार्थानुपजीवति ।
तत उपजीव्यविरोधात्क्रम एव बाध्यते ।
नतु क्रमेणाऽचमनस्य बाधो ऽस्ति ।
तस्मादियं स्मृतिः प्रमाणम् ।
अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ म्जैन्य्च्_1,2.10-11 ॥
स्तर्त् म्जैन्य् 1,3.12
तत्र प्रथमं विचारं दर्शयति -
शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः ।
न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम्
स्तर्त् म्जैन्य् 1,3.13
विचारान्तरं दर्शयति -
सदाचारो ऽप्रमा मा वा निर्मूलत्वादमानता ।
अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता
(पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे 8 - 9)
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् । जैम्_1,3.8 ।
शास्त्रस्था वा तन्निमित्तत्वात् । जैम्_1,3.9 ।
स्तर्त् म्जैन्य् 1,3.14-15
पञ्चमाधिकरणमारचयति -
यंवान्दिशब्दाः किं द्व्यर्था नो वार्ऽऽयम्लेच्छसाम्यतः ।
दीर्घशूकप्रियङ्ग्वाद्या द्वये ऽप्यर्था विकल्पिताः
यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी ।
शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते
ऽयवमयश्र्चरुर्भवति ऽ ऽवाराही उपानहावुपमुञ्चते ऽ इति श्रूयते ।
तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे ।
म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ ।
तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते -
ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी ।
प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च ।
शास्त्रे यवविध्यर्थवाद एवं श्रूयते - ऽ यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्ति ऽ इति ।
इतरौषधिविनाशकाले ऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु ।
तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् ।
वाराहोपानद्विध्यर्थवादश्र्चैवं भवति - ऽ वराहं गावो ऽनुधावन्ति ऽ इति ।
गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ ।
तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः ।
अत्र वार्तिककारः पीलुशब्दमुदाजहार ।
तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे ।
तत्राविप्लुतव्यवहारस्यार्ऽऽयेषु संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ म्जैन्य्च्_1,2.14-15 ॥
स्तर्त् म्जैन्य् 1,3.16
अस्मिन्नेवाधिकरणे गुरुमतमाह -
यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् ।
न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्यार्ऽथनिर्णयात्
स्तर्त् म्जैन्य् 1,3.17-18
अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति -
यो मातुलविवाहादौ शिष्टाचारः स मा न वा ।
इतराचारवन्मात्वममात्वं स्मर्तबाधनात
स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततो ऽत्र च ।
अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा
केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति ।
सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् ।
न ।
स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।
तथा च स्मृतिः-
"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति ।
न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् ।
होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् ।
नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति ।
येन शिष्टचारो मूलवेदमनुमापयेत् ।
शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् ।
तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः ।
अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते ।
अत एवाऽहुः-
"आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् ।
तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति ।
तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ म्जैन्य्च्_1,2.17-18 ॥
स्तर्त् म्जैन्य् 1,3.19
तत्रैवापरं वर्णकमारचयति -
लौकिको वाक्यगो वार्ऽथस्त्रिवृदादेः समत्वतः ।
उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः
(षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्)
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन । जैम्_1,3.10 ।
स्तर्त् म्जैन्य् 1,3.20-21
षष्ठाधिकरणमारचयति -
कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः ।
कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात्
ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति ।
पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः
आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः ।
तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् ।
मैवम् ।
आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् ।
कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः ।
यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः ।
तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, नेमशब्दोर्ऽधवाची , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ म्जैन्य्च्_1,2.20-21 ॥
स्तर्त् म्जैन्य् 1,3.22
अस्मिन्नेवाधिकरणे गुरुमतमाह -
अर्थाबोधादप्रमाणं पिकालम्भनचोदना ।
मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया
(सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि 11 - 14 ) ।
प्रयोगशास्त्रम् इति चेत् । जैम्_1,3.11 ।
नासंनियमात् । जैम्_1,3.12 ।
अवाक्यशेषाच् च । जैम्_1,3.13 ।
सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च । जैम्_1,3.14 ।
स्तर्त् म्जैन्य् 1,3.23-24
सप्तमाधिकरणमारचयति -
अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः ।
श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम्
पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः ।
तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम्
बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् ।
न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् ।
उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् ।
मैवम् ।
उक्तानुमानस्य कालात्ययापदिष्टत्वात् ।
बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते ।
न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् ।
तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् ।
तच्चाविच्छिन्नपारम्पर्येणानुवर्तते ।
ततः कालिदासादिग्रन्थवत्पौरुषेयाः ।
तथापि वेदमूलत्वात्प्रमाणम् ॥ म्जैन्य्च्_1,2.23-24 ॥
स्तर्त् म्जैन्य् 1,3.25
अत्रैव गुरुमतमाह -
कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा ।
न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः
(अष्टमे होलाकाधिकरणे सूत्राणि 14 - 23)
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् । जैम्_1,3.15 ।
अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद् विधानस्य । जैम्_1,3.16 ।
दर्शनाद् विनियोगः स्यात् । जैम्_1,3.17 ।
लिङ्गाभावाच् च नित्यस्य । जैम्_1,3.18 ।
आख्या हि देशसंयोगात् । जैम्_1,3.19 ।
न स्याद् देशान्तरेष्व् इति चेत् । जैम्_1,3.20 ।
स्याद्योगाख्या हि माथुरवत् । जैम्_1,3.21 ।
कर्मधर्मो वा प्रवणवत् । जैम्_1,3.22 ।
तुल्यं तु कर्तृधर्मेण । जैम्_1,3.23 ।
स्तर्त् म्जैन्य् 1,3.26
अष्टमाधिकरणमाचरयति --
होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः ।
देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः
स्तर्त् म्जैन्य् 1,3.27
अत्रैव गुरुमतमाह -
प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे ।
अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः
(नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24 - 29 )
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् । जैम्_1,3.24 ।
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् । जैम्_1,3.25 ।
अन्यायश् चानेकशब्दत्वम् । जैम्_1,3.26 ।
तत्र तत्त्वम् अभियोगविशेषात् स्यात् । जैम्_1,3.27 ।
तदशक्तिश् चानुरूपत्वात् । जैम्_1,3.28 ।
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् । जैम्_1,3.29 ।
स्तर्त् म्जैन्य् 1,3.28-29
नवमाधिकरणमारचयति -
गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन ।
नियमो ऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात्
साधूनेव प्रयुञ्जीत गवाद्या एव साधवः ।
इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः
व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि ऽगौः ऽ इत्येष शब्दः प्रयुज्यते ।
तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते ।
तत्र - ऽईदृष एव शब्दः साधुः, नेदृशः ऽ -- इत्यस्मिन्नर्थे नियामकं नास्ति ।
तथा योगे ऽपि तन्नास्ति - ऽ ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशः ऽ इति न तावद्वृद्धव्यवहारो नियामकः ।
तस्य सर्वेषु शब्देषु समानत्वात् ।
नापि व्याकरणस्मृतिर्नियामिका ।
तस्या निर्मूलत्वेनाप्रमाणत्वात् ।
न ह्यभियुक्तप्रयोगस्तन्मूलम ।
अन्योन्याश्रयत्वप्रसङ्गात् ।
व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः ।
तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् ।
तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते --
ब्रूमः- ऽ साधूनेव प्रयुञ्जति, न त्वपभ्रंशान् ऽ इत्यस्ति नियमः ।
उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् ।
"एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति"इति गुणवाक्यम् ।
"तस्माद्ब्राह्मणेन न म्लेच्छितवै ऽ नापभाषितवै , म्लेच्छो ह वा एष यदपशब्दः"इति दोषवाक्यम् ।
यथा प्रयोगे नियमस्तथा साधुत्वे ऽपि नियमो द्रष्टव्यः - ऽगवाद्या एव साधवः, न तु गाव्यादयः ऽ इति ।
अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् ।
न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् ।
एतदेवाभिप्रेत्योक्तम् - ऽ तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भः ऽ इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् ।
तथाऽचार्थवणिका आमनन्ति -"द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ।
तत्रापरा - ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम"इति ।
तैत्तिरीयकब्राह्मणे ऽपि व्याकरणस्योपादेयता श्रूयते - ऽवाग्वै पराच्यव्याकृतावदत् ।
ते देवा इन्द्रमब्रुवन् - ऽइमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतो ऽपक्रम्य व्याकरोत् ।
तस्मादियं व्याकृता वागुद्यते ऽ इति ।
व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः ।
तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ म्जैन्य्च्_1,2.28-29 ॥
स्तर्त् म्जैन्य् 1,3.30
अत्रैव गुरुमतमाह -
अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् ।
अमात्वे ऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात्
(दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30 - 35) ।
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् । जैम्_1,3.30 ।
अद्रव्यशब्दत्वात् । जैम्_1,3.31 ।
अन्यदर्शनाच् च । जैम्_1,3.32 ।
आकृतिस् तु क्रियार्थत्वात् । जैम्_1,3.33 ।
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् । जैम्_1,3.34 ।
तदर्थत्वात् प्रयोगस्याविभागः । जैम्_1,3.35 ।
स्तर्त् म्जैन्य् 1,3.31-32
दशमाधिकरणे प्रथमं वर्णकमाचरयति -
लोके पदापदार्थौ यौ न तौ वेदे ऽथवात्र तौ ।
रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा
वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता ।
प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम्
वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ ।
कुतः ।
रूपभेदात् ।
पदे तावद्रूपभेदो दृश्यते ।
आत्मशब्द आकारादित्वेन लोके नियतः ।
वेदे तु क्वचिदाकाररहितः पठ्यते -"प्रयतं पुरूषं त्मना"इति ।
ऽब्राह्मणाः ऽ इति लोके ।
वेदे त्वन्यथा पठ्यते -"ब्राह्मणासः पितरः सोम्यासः"इति ।
अर्थभेदो ऽपि स्फुटः ।
उत्ताना वै देवगवा वहन्ति"इति श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्"इति ।
तस्मात् ऽ लोकवेदयोः पदपदार्थावन्यौ ऽ इति प्राप्ते -
ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः ।
तथा हि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् ।
यथा प्रयोक्तॄणां पुरुषाणां भेदे ऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदे ऽपि ऽ त एवामी वर्णाः ऽ इति प्रत्यभिज्ञानाद्वर्णैक्यम् ।
तथा ऽ यानि लोके गवादिपदानि , तान्येव वेदे ऽधीयमानानि ऽ इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् ।
ऽ त्मना, देवासः ऽ इत्यादिपदभेदस्तु क्वाचित्कः ।
नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् ।
अन्यथा ऽसो ऽयं देवदत्तः ऽ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत ।
पदैक्ये चार्थैकत्वमवश्यंभावि ।
अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत ।
एतदेवाभिप्रेत्योक्तम् -
"लोकावगतसामर्थ्थः शब्दे वेदे ऽपि बोधकः"इति ।
स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वे ऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति ।
उत्तानवहनादिकं त्वर्थवादः ।
अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव ।
तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ म्जैन्य्च्_1,2.31-32 ॥
स्तर्त् म्जैन्य् 1,3.33-34
द्वितीयवर्णकमारचयति -
व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् ।
व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते
शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता ।
क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम्
"व्रीहीनवहन्ति" "पशुमालभेत" "गामानया" "ब्राह्मणो न हन्तव्यः"इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः ।
कुतः ।
अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् ।
नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या ।
नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति ।
अनन्ता हि व्यक्तयः ।
अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् ।
किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् ।
तत्र कथं व्युत्पत्तिरिति चेत् ।
एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते -
ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् ।
किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् ।
तस्मादाकृतेरेवाभिधेयत्वम् ।
यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया ।
किञ्च"श्योनर्चित्तं चिन्वीत"इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते ।
तस्मात् - आकृतिः शब्दार्थः ॥ म्जैन्य्च्_1,2.33-34 ॥
स्तर्त् म्जैन्य् 1,3.35
अत्रैव गुरुमतमाह -
गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् ।
आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0