जैमिनीयन्यायमालाविस्तर · अध्याय 1.2
ऽकाठकम्, कौथुमम्, तैत्तिरीयकम्ऽ इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा ।
तद्धितप्रत्ययश्च ऽतेन प्रोक्तम्ऽ [पाणि. सू. 4.3.101] इत्यर्थे वर्तते ।
तथा सति ऽव्यासेन प्रोक्तं वैयासिकं भारतम्ऽ इत्यादाविव पौरुषेयत्वं प्रतीयते ।
किञ्च ऽविमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्ऽ इति प्राप्ते -
ब्रूमः - अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते ।
कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते ।
तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत ।
न चोपलभ्यते ।
अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः ।
तस्मादपौरुषेयो वेदः ।
तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् ॥ म्जैन्य्च्_1,1.53-54 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः ॥
(अथ द्वितीयः पादः)
(प्रथमे ऽर्थवादाधिकरणे सूत्राणि 1-18)
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते । जैम्_1,2.1 ।
शास्त्रदृष्टाविरोधाच् च । जैम्_1,2.2 ।
तथाफलाभावात् । जैम्_1,2.3 ।
अन्यानर्थक्यात् । जैम्_1,2.4 ।
अभागिप्रतिषेधाच् च । जैम्_1,2.5 ।
अनित्यसंयोगात् । जैम्_1,2.6 ।
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः । जैम्_1,2.7 ।
तुल्यं च साम्प्रदायिकम् । जैम्_1,2.8 ।
अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत । जैम्_1,2.9 ।
गुणवादस् तु । जैम्_1,2.10 ।
रूपात् प्रायात् । जैम्_1,2.11 ।
दूरभूयस्त्वात् । जैम्_1,2.12 ।
अपराधात् कर्तुश् च पुत्रदर्शनम् । जैम्_1,2.13 ।
आकालिकेप्सा । जैम्_1,2.14 ।
विद्याप्रशंसा । जैम्_1,2.15 ।
सर्वत्वम् आधिकारिकम् । जैम्_1,2.16 ।
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् । जैम्_1,2.17 ।
अन्त्ययोर् यथोक्तम् । जैम्_1,2.18 ।
द्वितीयपादस्य प्रथमाधिकरणमारचयति -
स्तर्त् म्जैन्य् 1,2.1-3
वायुर्वा इत्येवमादेरर्थवादस्य मानता ।
न विधेये ऽस्ति धर्मे किं किंवासौ तत्र विद्यते
विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् ।
नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः
विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः ।
तेनैकवाक्यता तस्माद्वादानां धर्ममानता
काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते ।
ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति विधिः ।
ऽवायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतिऽ इत्यर्थवादः ।
तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति ।
अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते ।
ऽक्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छतिऽ इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित् प्रतीयते, न त्वनुष्ठेयं किञ्चित् ।
अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते -
ब्रूमः - मा भूत्पदैकवाक्यता ।
वाक्यैकवाक्यता तु विद्यते ।
विधिवाक्यं तावत् पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते ।
अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते ।
तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते ।
ऽयतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेतऽ इति वाक्ययोरन्वयः ।
तस्मादर्थवादा धर्मे प्रमाणम् ॥ म्जैन्य्च्_1,2.1-3 ॥
स्तर्त् म्जैन्य् 1,2.4
अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह -
वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् ।
सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ
ऽयतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेतऽ इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते ।
ततः सापेक्षत्वादप्रमाणमिति पूर्वपक्षः ॥
ऽविमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्ऽ इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् ।
न त्वेवं विवक्षितम् ।
किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते ।
तथा सति ऽप्रशस्तं कर्मानुष्ठेयम्ऽ इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते ।
तत्र कुतः सापेक्षत्वम् ।
तस्मात् विधिः प्रमाणम् इति सिद्धान्तः
(द्वितीये विधिवन्निगदाधिकरणे सूत्राणि 19-25)
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् । जैम्_1,2.19 ।
लोकवद् इति चेत् । जैम्_1,2.20 ।
न पूर्वत्वात् । जैम्_1,2.21 ।
उक्तं तु वाक्यशेषत्वम् । जैम्_1,2.22 ।
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् । जैम्_1,2.23 ।
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति । जैम्_1,2.24 ।
विधौ च वाक्यभेदः स्यात् । जैम्_1,2.25 ।
स्तर्त् म्जैन्य् 1,2.5-7
द्वितीयाधिकरणमारचयति -
ऊर्जो ऽवरुध्या इत्येष विधिवन्निगदो न किम् ।
यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया
चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् ।
ऊर्जो ऽवरोधं कथयन्कथं स्तुतिपरो भवेत्
अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् ।
अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः
इदमाम्नायते - ऽऔदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जो ऽवरुध्यैऽ इति ।
अमृतशब्दाभिधेयो ऽत्यन्तसारभूतः सूक्ष्मो ऽन्नरसः ऊर्गुच्यते ।
उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति ।
ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः ।
अत्र ऽअवरुध्यैऽ इति तादर्थ्ये चतुर्थी ।
तया फलत्वं गम्यते ।
ऽधनलाभाय राजसेवाऽ इत्यादौ तद्दर्शनात् ।
न च फलपरस्य वचनस्य स्तावकत्वं युज्यते ।
अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते -
ब्रूमः - अयमूर्जो ऽवरोधः कस्य फलं स्यात् - किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य ।
नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात् फलानुत्पत्तेः ।
द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः ।
नाऽद्यः, ऽऔदुम्बरो यूपो भवतिऽ इत्यत्र लिङ्प्रत्ययाश्रवणात् ।
द्वितीये स्तुत्या स उन्नेयः ।
न चात्र स्तुतिमङ्गीकरोषि ।
अथोच्येत - ऽविधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यतेऽ इति ।
तर्हि वाक्यं भिद्येत ।
ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ म्जैन्य्च्_1,2.5-7 ॥
स्तर्त् म्जैन्य् 1,2.8
अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह -
आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् ।
न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः
ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् ।
अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः ॥
एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते ।
अतः प्रमाणं चोदना इति राद्धान्तः
(तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 - 30 )
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् । जैम्_1,2.26 ।
स्तुतिस् तु शब्दपूर्वत्वाद् अचोदना तस्य । जैम्_1,2.27 ।
अर्थे स्तुतिर् अन्याय्येति चेत् । जैम्_1,2.28 ।
अर्थस् तु विधिशेषत्वाद् यथा लोके । जैम्_1,2.29 ।
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् । जैम्_1,2.30 ।
तृतीयाधिकरणमारचयति -
स्तर्त् म्जैन्य् 1,2.9-10
तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः ।
हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम्
शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते ।
अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका
इदमाम्नायेत - ऽशूर्पेण जुहोति तेन ह्यन्नं क्रियतेऽ अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति ।
हिशब्दस्य हेतुवायित्वात् ।
ऽ यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम् ऽ इत्युक्ते ऽ यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम् ऽ इति लभ्यते ।
ततः ऽ पिठरादयः शूर्पेण सह विकल्प्यन्ते ऽ इति प्राप्ते -
ब्रूमः-- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् ।
पिठरादीनां त्वानुमानिकम् ।
अतो ऽसमानबलत्वान्न विकल्पो युक्तः ।
ततो हेतुर्व्यर्थः ।
स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः ॥ म्जैन्य्च्_1,2.9-10 ॥
(चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31 - 53 )
तदर्थशास्त्रात् । जैम्_1,2.31 ।
वाक्यनियमात् । जैम्_1,2.32 ।
बुद्धिशास्त्रात् । जैम्_1,2.33 ।
अविद्यमानवचनात् । जैम्_1,2.34 ।
अचेतने ऽर्थबन्धनात् । जैम्_1,2.35 ।
अर्थविप्रतिषेधात् । जैम्_1,2.36 ।
स्वाध्यायवद्वचनात् । जैम्_1,2.37 ।
अविज्ञेयात् । जैम्_1,2.38 ।
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् । जैम्_1,2.39 ।
अविशिष्टस् तु वाक्यार्थः । जैम्_1,2.40 ।
गुणार्थेन पुनः श्रुतिः । जैम्_1,2.41 ।
परिसंख्या । जैम्_1,2.42 ।
अर्थवादो वा । जैम्_1,2.43 ।
अविरुद्धं परम् । जैम्_1,2.44 ।
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । जैम्_1,2.45 ।
अभिधाने ऽर्थवादः । जैम्_1,2.46 ।
गुणाद् अप्रतिषेधः स्यात् । जैम्_1,2.47 ।
विद्यावचनम् असंयोगात् । जैम्_1,2.48 ।
सतः परमविज्ञानम् । जैम्_1,2.49 ।
उक्तश् चानित्यसंयोगः । जैम्_1,2.50 ।
लिङ्गोपदेशश् च तदर्थवत् । जैम्_1,2.51 ।
ऊहः । जैम्_1,2.52 ।
विधिशब्दाश् च । जैम्_1,2.53 ।
चतुर्थाधिकरणमारचयति -
स्तर्त् म्जैन्य् 1,2.11-12
मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः ।
यागेषूत पुरोडाशप्रथनादेश्च भासकाः
ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः ।
न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः
ऽउरु प्रथस्वऽ इत्ययं कश्चिन्मन्त्रः ।
तस्यायमर्थः - भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसर ऽ इति ।
एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति ।
नत्वर्थप्रकाशनाय तदुच्चारणम् ।
पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् थ ऽउरु प्रथस्वेति पुरोडाशं प्रथयतिऽ इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट ।
नैतद्युक्तम् ।
अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् ।
तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् ।
ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे ऽमन्त्रेणैवानुस्मपणीयम् ऽ इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ म्जैन्य्च्_1,2.11-12 ॥
स्तर्त् म्जैन्य् 1,2.13
अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह -
मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने ।
न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः
अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् ।
वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत ।
इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः ।
नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति -
राद्धान्तः
ऽयां जनाः प्रतिनन्दति ऽ इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् ।
तेच्च श्राद्धं स्मार्तम् ।
न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे ।
तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् ।
न ।
तन्मूलस्य वेदस्यानुमेयत्वात् ।
अनुमानं च दर्शितम् ।
तस्मादसौ मन्त्रो धर्मे प्रमाणम्
ऽब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत् ऽ इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः ।
स एव धर्मः शाक्येनाप्युक्तः ।
तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् ।
न ।
स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् ।
तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः ।
तस्मान्न सा स्मुतिर्धर्मे प्रमाणम्
होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् ।
न ।
वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् ।
अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टो ऽपि सदाचारः सामान्याकारेणोपदिष्टः ।
"श्रुतिः स्मृतिः सदाचारः"इत्येवं धर्मे प्रमाणोपन्यासात् ।
तस्माच्छिष्टचार प्रमाणम्
स्पष्टो ऽर्थः
ऽत्रिवृद्वहिष्पवमानम्ऽ इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोर्ऽथः ।
वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ऽ उपास्मै गायता नरः ऽ -- इत्यादीनामृचां नवकमर्थः ।
तत्र धर्मनिणये वेदस्य प्रबलत्वे ऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् ।
मैवम् ।
लौकिकार्थस्वीकारपक्षे विधिवाक्येर्ऽथस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् ।
अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोर्ऽथः
स्पष्टो ऽर्थः
सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह -"सर्वासु तिथिष्वमावास्या कर्तव्या"इति ।
श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते ।
ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् ।
मैवम् ।
कल्पस्य वेदत्वं नाद्यापि सिद्धम् ।
किन्तु यत्नेन साध्यम् ।
न च तत्साधयितुं शक्यम् ।
पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् ।
अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम्
होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् ।
कुतः ।
देशविशेषे तेषां दृष्टत्वात् ।
होलाकादयः प्राच्यैरेव क्रियन्ते ।
वसन्तोत्सवो होलाका ।
आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते ।
उद्वृषभयज्ञादय उदीच्यैः ।
ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सो ऽयमुद्वृषभयज्ञः ।
एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते ।
तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् ।
मैवम् ।
तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात्
प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या ।
तत्र प्राच्यादिपदस्यार्थो न बुध्यते ।
ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते ।
तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् ।
मैवम् ।
अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् ।
अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम्
"अश्र्वमालभेत"इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे ऽ स्वं धनम् , तद्रहितं दरिद्रमालभेतऽ इत्यर्थो भवति ।
तालव्यत्वे तुरङ्गमवाचित्वम् ।
ततः संशयादप्रामाण्यमिति चेत् ।
न ।
व्याकरणानुसारेण"अशू व्याप्तौ"इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् ।
तस्मादश्र्वालम्भनशास्त्रं प्रमाणम्
स्पष्टो ऽर्थः
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0