भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 1.1

1.1.1

न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति -
स्तर्त् म्जैन्य् 1,1.1
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्

1.1.2

स्तर्त् म्जैन्य् 1,1.2
इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति --
युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः ।
नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः

1.1.2

अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वे ऽप्यस्मिन्भूपतावुपलभ्यन्ते ।
नीतिपक्षे - युक्तिर्योगः संधिः ।
सा च युक्तिर्मानवती ।
मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः ।
वैरिणो बुद्धिभेदो द्वितीयः ।
एताभ्यां दानदण्डावप्युपलक्ष्येते ।
एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति ।
एतावता शत्रुक्षयः कथितः ।
अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते -- आप्तेष्वमात्यप्रभृतिषु पुरुषेषु ऽअयमीदृशस्य व्यापारस्य योग्यो नान्यस्यऽ इत्येवमूहापोहकुशलः ।
ऽराजसभायामेते
तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागेऽ इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः ।
समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः ।
सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते ।
ऽइदं कर्तव्यम्, इदं नऽ इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारो ऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् ।
गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः ।
देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः ।
जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः ।
यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् ।
यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सो ऽयं श्रुतिमत्प्रसङ्ग्चरितः ।
एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति ।
यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः ।
ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते

1.1.3

स्तर्त् म्जैन्य् 1,1.3
राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति --
यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः ।
विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते

1.1.3

सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते ।
तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते ।
तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतो ऽनुग्राहिका मूर्तिरित्युच्यते ।
यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व- दङ्गनागोपालमविवादेन प्रतिभासते

1.1.4

स्तर्त् म्जैन्य् 1,1.4
उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति --
इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः ।
प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः

1.1.5

स्तर्त् म्जैन्य् 1,1.5
चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति --
श्रुतिस्मृतिसदाचारपालको माधवो बुधः ।
स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः

1.1.5

सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः ।
इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः

1.1.6

स्तर्त् म्जैन्य् 1,1.6
ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते --
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्

1.1.6

जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः ।
ते ऽस्य ग्रन्थस्य विषयः ।
पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् ।
न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा

1.1.7

स्तर्त् म्जैन्य् 1,1.7-8
करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति --
एको विषयसंदेहपूर्वपक्षावभासकः ।
श्लोको ऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते

1.1.8

चत्वारो ऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् ।
यत्र क्वापि बहुश्लोकैरुच्यन्ते ऽतो न विस्तरः

1.1.7

एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः ।
तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते ।
अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति ।
अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या

1.1.9

स्तर्त् म्जैन्य् 1,1.9
तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति --
सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः ।
मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत्

1.1.9

श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् ।
सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति ।
भाष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् ।
क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति ।
यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोको ऽस्ति, तथापि न सर्वत्र विद्यते ।
यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते ।
अतो न क्वापि गतार्थत्वं शङ्कनीयम्

1.1.10

स्तर्त् म्जैन्य् 1,1.10
संगतिं व्युत्पादयति -
शास्त्रे ऽध्याये तथा पादे न्यायसंगतयस्त्रिधा ।
शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम्

1.1.10

शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः ।
सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या

1.1.11

स्तर्त् म्जैन्य् 1,1.11-12
शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति -
धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः ।
प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः

1.1.12

अधिकारो ऽतिदेशश्च सामान्येन विशेषतः ।
ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात्

1.1.13

लक्षणान्यध्यायाः ।
द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी ।
तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः ।
प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः ।
प्रथमे ऽध्याये - विध्यर्थवादादिरूपं प्रमाणं निरूपितम् ।
द्वितीये-यागदानादि कर्मभेदः ।
तृतीये - प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् ।
चतुर्थे - ऽगोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्याऽ इत्येवमादयः ।
पञ्चमे - क्रमनियतिविधेयत्वादयः ।
षष्ठे - ऽकर्तुरधिकारो नान्धादेःऽ इत्यादयः ।
सप्तमे -"समानषितरच्छयेनेन"इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतो ऽतिदेशः ।
अष्टमे -"सौर्ये चरुं निर्वपेत्"इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतो ऽतिदेशः ।
नवमे - प्रकृतौ"अग्नये जुष्टं निर्वपामि"इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण ऽसूर्याय जुष्टं निर्वपामि ऽ इत्येवमाद्यूहः ।
दशमे - कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः ।
एकादशे - बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् ।
द्वादशे - प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषे ऽप्युपकार इत्यादिप्रसङ्गः ॥ म्जैन्य्च्_1,1.11-12 ॥
स्तर्त् म्जैन्य् 1,1.13
पादानामसाधारणं विषयं दर्शयति -
विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् ।
प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्

1.1.13

प्रथमे पादे - विधिरूपं मानमीरितम् ।
द्वितीये - अर्थवादरूपम् ।
अर्थवादो मन्त्रस्याप्युपलक्षकः ।
तृतीये - स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति ।
चतुर्थे - उभ्दिञ्चित्रादिनामरूपम्

1.1.14

स्तर्त् म्जैन्य् 1,1.14
उपोद्धातः कर्मभेदमानं तस्यापवादगीः ।
प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः

1.1.14

द्वितीयाध्यायस्य प्रथमे पादे - आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः ।
द्वितीये - धातुभेदपुनरुक्त्यादिभिः कर्मभेदः ।
तृतीये - रथन्तरादीनां कर्मभेदप्रामाण्यापवादः ।
चतुर्थे - नित्यकाम्ययोः प्रयोगयोर्भेदः

1.1.15

स्तर्त् म्जैन्य् 1,1.15
श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः ।
अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः

1.1.15

तृतीयाध्यायस्य प्रथमे पादे - शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता ।
द्वितीये - लिङ्गम् ।
तृतीये - वाक्यप्रकरणादि ।
चतुर्थे - निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः ।
पञ्चमे - प्रतिपत्तिकर्माणि ।
षष्ठे - अनारभ्याधीतानि ।
सप्तमे - बहुप्रधानोपकारकप्रयाजादीनि ।
अष्टमे - याजमानानि

1.1.16

स्तर्त् म्जैन्य् 1,1.16
प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता ।
फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः

1.1.16

चतुर्थाध्यायस्य प्रथमे पादे - प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् ।
द्वितीये तु -अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् ।
तृतीये - जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता ।
चतुर्थे - राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता

1.1.17

स्तर्त् म्जैन्य् 1,1.17
श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने ।
श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः

1.1.17

पञ्चमाध्यायस्य प्रथमे पादे - श्रुत्यर्थपाठादिभिः क्रमो निरूपितः ।
द्वितीये - वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः ।
तृतीये - पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः ।
चतुर्थे - क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः

1.1.18

स्तर्त् म्जैन्य् 1,1.18
अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने ।
दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः

1.1.18

षष्ठाध्यायस्य प्रथमे पादे - कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः ।
द्वितीये - तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयो ऽधिकारिधर्मा उक्ताः ।
तृतीये - द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् ।
चतुर्थे - पदार्थलोपनं विचारितम्, ऽअवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्ऽ इत्यादिकम् ।
पञ्चमे - कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् ।
षष्ठे - तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् ।
सप्तमे - पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः ।
अष्टमे - लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः

1.1.19

स्तर्त् म्जैन्य् 1,1.19
प्रत्यक्षोक्त्यातिदेशो ऽस्य शेषः सामनिरूपणम् ।
नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः

1.1.19

सप्तमाध्यायस्य प्रथमे पादे - ऽसमानमितरच्छ्येनेनऽ इत्यादिप्रत्यक्षवचनातिदेशः ।
द्वितीये - रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः ।
तृतीये - अग्निहोत्रनाम्नातिदेशः ।
चतुर्थे - निर्वापौषधद्रव्यादिलिङ्गातिदेशः

1.1.20

स्तर्त् म्जैन्य् 1,1.20
स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः ।
अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः

1.1.20

अष्टमाध्यायस्य प्रथमे पादे - स्पष्टेन लिङ्गेनातिदेशविशेषः ।
तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि ।
द्वितीये तु-अस्पष्टैर्लिङ्गरतिदेशः ।
तद्यथा - वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तो ऽतिदिश्यते ।
तत्र लिङ्गमस्पष्टम् ।
शीघ्रं तद्बुद्ध्यनुत्पादनात् ।
तृतीये - प्रबलेन लिङ्गेनातिदेशः ।
तद्यथा - आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तो ऽतिदिष्टः ।
प्रबलं च द्विदैवत्यत्वम् ।
शब्दोच्चारणमात्रेण सहसा प्रतिभासात् ।
क्रमस्तु विलम्बितप्रतीत्या दुर्बलः ।
चतुर्थे - दर्विहोमेष्वतिदेशो ऽपोद्यते

1.1.21

स्तर्त् म्जैन्य् 1,1.21
ऊहारम्भो ऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः ।
नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः

1.1.21

नवमाध्यायस्य प्रथमे पादे - उपोद्घातपूर्वकमूहविचारप्रारम्भः ।
तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः ।
अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः ।
सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः ।
अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः ।
द्वितीये - सपरिकरः सामोहः ।
तृतीये - मन्त्रोहः ।
चतुर्थे - मन्त्रोहप्रसङ्गापतितो विचारः

1.1.22

स्तर्त् म्जैन्य् 1,1.22
द्वारलोपो ऽस्य विस्तारः कार्यैकत्वं समुच्चयः ।
ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः

1.1.22

दशमाध्यायस्य प्रथमे पादे - बाधहेतुर्द्वारलोपो निरूपितः ।
तद्यथा - ऽस्वयङ्कृता वेदिर्भवति ऽइत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः ।
कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः ।
द्वितीये - संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः ।
तृतीये - बाधकारणं कार्यैकत्वम् ।
तद्यथा - प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् ।
तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् ।
ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते ।
चतुर्थे - नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः ।
पञ्चमे - षोडशिग्रहः प्रकृतिगामी ।
स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः ।
षष्ठे - ऽसाम तृचे गेयम् ऽ इत्यादिर्बाधप्रसङ्गागतः सामविचारः ।
सप्तमे - पश्वङ्गेषु - प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः ।
गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः ।
अष्टमे - ऽनानुयाजेषु ऽ इति पर्युदासः , ऽ न सोमे इत्यर्थवादः, ऽनातिरात्रे ऽ इति प्रतिषेधः ऽ इत्यादिर्बाधोपयुक्तो नञर्थविचारः

1.1.23

स्तर्त् म्जैन्य् 1,1.23
उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः ।
आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः

1.1.23

एकादशाध्यायस्य प्रथमे पादे - तन्त्रस्योपोद्घातो वर्णितः ।
द्वितीये - तन्त्रावापौ संक्षेपेणोक्तौ ।
तृतीये - तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् ।
चतुर्थे - तथैवाऽवापः प्रपञ्चितः

1.1.24

स्तर्त् म्जैन्य् 1,1.24
प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने ।
द्वादशाध्यायपादार्था इति पादार्थसंग्रहः

1.1.24

द्वादशाध्यायस्य प्रथमे पादे - पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः ।
द्वितीये - सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् ।
विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः ।
तृतीये - त्वग्वाससोः समुच्चयः ।
आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् ।
चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् ।
चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् ।
तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः

1.1.25

स्तर्त् म्जैन्य् 1,1.25
ननु यथोक्तेभ्यः पादार्थेभ्यो ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह -
उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः ।
तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत्

1.1.25

यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः

1.1.26

स्तर्त् म्जैन्य् 1,1.26
ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः ।
तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह -
शास्त्रे पूर्वोत्तरीभावो ऽध्यायानामभिधास्यते ।
पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे

1.1.26

एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते

1.1.27

स्तर्त् म्जैन्य् 1,1.27
प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति -
विधिः माक्षामितिर्धर्मे तस्य शेषोर्ऽथवादगीः ।
वेदमूला स्मृतिर्नाम वाक्यांशो ऽमीप्वतः क्रमः

1.1.27

जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः ।
अर्थवादवाक्य विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वम् स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् ।
नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् ।
अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः

1.1.28

स्तर्त् म्जैन्य् 1,1.27*
इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति -
ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् ।
ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम् ॥ म्जैन्य्_1,1.27* ॥
शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति ।
तद्यथा - प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः ।
तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः ।
प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः ।
विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः ।
यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया ।
सा चानेकरूपा - आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा ॥ म्जैन्य्च्_1,1.27* ॥
स्तर्त् म्जैन्य् 1,1.28
तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति --
पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ।
पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत्

1.1.28

तदेतत्सर्वे योजयित्वा प्रदर्श्यते - प्रथमे ऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो ऽधर्मविचारशास्त्र वैधम् ऽ इति सिद्धान्तः ।
ऽ अर्थज्ञानपेतावध्ययने नियमविधेः संभवात् ऽ इति तद्युक्तिः ।
द्वितीयाधिकरणे - ऽधर्मे लक्षणं प्रमाणं च नास्ति ऽ इति पूर्वपक्षः ।
ऽलौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्च ऽ इति तद्युक्तिः ।
तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः ।
यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः ।
यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः ।
एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते ।
पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् ।
तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः ।
सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् ।
तत्र प्रथमाधिकरणमुपोद्घातः ।
सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः ।
प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे - अष्टकादिस्मृतेः प्रामाण्यमुक्तम् ।
द्वितीयाधिकरणे - सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते ।
सेयमपवादसंगतिः ।
अनया दिशी सर्वत्र संगतिरूहनीया

1.1.29

(प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् )
अथातो धर्मजिज्ञासा । जैम्_1,1.1 ।
स्तर्त् म्जैन्य् 1,1.29-31
इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरो ऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति -
स्वाध्यायो ऽध्येय इत्यस्य विधानस्य प्रयुक्तितः ।
विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः

1.1.30

अर्थधीहेतुताधीतेलोकसिद्धावघातवत् ।
नियामकं न चैवातो वैधारम्भो न संभवी

1.1.31

दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् ।
अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः

1.1.32

ऽऽचोदनालक्षणोर्ऽथो धर्मः ऽऽ इत्यारभ्य"अन्वाहार्ये च दर्शनात्"इत्येतदन्तं जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् ।
तदेतस्य प्रथमाधिकरणस्य विषयः ऽस्वाध्यायो ऽध्येतव्यःऽ इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते ।
अपरे त्वेवमाहुः - ऽअर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते ।
अर्थज्ञानं विचारमन्तरेण न संभवति ।
ततो विधिर्विचारशास्त्रस्य प्रयोजकःऽ इति ।
तत्रैवं संशयः - ऽइदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम् ऽ इति ।
तत्र ऽ अर्थज्ञानायाध्ययनस्य विधिः ऽ इति वदन्वादी प्रष्टव्यः - किमन्त्यन्तमप्राप्तमध्ययनं विधीयते, किंवा पक्षे ऽप्राप्तमवघातवन्नियम्यते, इति ।
नाऽद्यः - ऽ विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात् , भारताध्ययमवत् , इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् ।
तर्ह्यस्तु द्वितीयः पक्षः ।
अवघातवन्नियमविधित्वसंभवात् ।
यथा नखैरवधातेन वा तण्डुलीनष्पत्तिसंभवात्पक्षे ऽप्राप्तो ऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वार्ऽथज्ञानसंभवात्पक्षे ऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् ।
न ।
वैषम्यात् ।
अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा ।
ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः ।
अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति ।
अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति ।
तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः ।
अश्रुतो ऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः ।
"स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्" [पू . मी. सू. 4.3.15 ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् ।
तद्वदध्ययने ऽप्यस्तु ।
एतदेवाभिप्रेत्योक्तम् -
ऽऽ विनापि विधिना दृष्टलाभान्नहि तदर्थता ।
कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ऽऽ ॥ इति ।
एवं च सति ऽवेदमधीत्य स्नायात् ऽ इति शास्त्रमनुगृह्यते ।
अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते ।
त्वत्पक्षे तु - अधीते ऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः ।
तथा सति तन्नैपन्तर्ये बाध्यते ।
तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः ।
अत्रोच्यते - यदुक्तम् - ऽलोकसिद्धत्वान्नाप्रप्तविधिः ऽ इति ।
ततथैवास्तु ।
नियमविधित्वं तु न वारयितुं शक्यम् ।
यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् ।
यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति ।
नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् ।
न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् ।
दृष्टफलेर्ऽथज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् ।
अत एवोक्तम् -
"लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ।
विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति" ॥ इति ॥
नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् ।
न ।
ज्ञानमात्रसंभवे ऽपि निर्णयस्य विचाराधीनत्वात् ।
ऽअक्ताः शर्करा उपदधाति ऽ इत्यत्र ऽघृतेनैव, न तैलादिनाऽ इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति ।
विचारशास्त्रं तु ऽ तेजो वै घृतम् ऽ इति वाक्यशेषादर्थे निर्णेष्यति ।
अतो विचारो वैधः ।
ऽ वेदमधीत्य स्नायात् ऽ इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् ।
तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः ॥ म्जैन्य्च्_1,1.29-31 ॥
स्तर्त् म्जैन्य् 1,1.32-34
अस्मिन्नेवाधिकरणे गुरुमतमाह -
अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः ।
तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः

1.1.33

विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना ।
तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम्

1.1.34

स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् ।
विषयादि सुसंपादं शास्त्रमारभ्यते ततः

1.1.35

ऽअष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीत ऽ इत्यध्यापनं विहितम् ।
न चात्र नियोज्याभावः ।
आचार्यत्वकामिनो नियोज्यत्वात् ।
ऽ उपनयीत ऽ इत्यनेनाऽचार्यकरणे"संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः" [पा. सू. 1.3.36 ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते ।
उपनयने यो नियोज्यः ।
स एवाध्यापने ऽपि ।
तयोरेकप्रयोजनत्वात् ।
एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः ।
श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते ।
ततो ऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ ।
विषयसंशययोस्तु नास्ति विप्रतिपत्तिः ।
विचारशास्त्रं विषयः ।
अवैधं वैधं वेति संशयः ।
तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् ।
नाऽद्यः ।
अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः ।
पाठमात्रे तु विचारस्य विषयो न भवति ।
आपाततः प्रतीतः संदिग्धोर्ऽथो विषयः ।
तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा ।
निर्णयो विचारस्य फलम ।
सो ऽपि विषयवद्दूरापेतः ।
अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः ।
अत्रोच्यते - मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् ।
तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदे ऽप्यर्थावबोधः स्वत एव प्राप्नोति ।
ननु यथा ऽविषं भुङ्क्ष्व ऽइत्यत्र प्रतीयमामनो ऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत ।
न ।
विवक्षाया अमनोदितुमषक्यत्वात् ।
विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः ।
वेदे तु - कुतो न विवक्षितार्थत्वम् ।
विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वो ऽपि विचारशास्त्रस्य विषयः ।
तन्निर्णयः प्रयोजनम् ।
ततो ऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ म्जैन्य्च्_1,1.32-34 ॥
(द्वितीये धर्मलक्षणाधिकरणे सूत्रम् )
चोदनालक्षणो ऽर्थो धर्मः । जैम्_1,1.2 ।
स्तर्त् म्जैन्य् 1,1.35-37
द्वितीयाधिकरणं भट्टमतेनारचयति --
विचारविषयो धर्मो लक्षणेन विवर्जितः ।
मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते

1.1.36

लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् ।
मानशङ्का तु दूरे ऽत्र प्रत्यक्षाद्यप्रवर्तनात्

1.1.37

चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् ।
अत एव प्रमाणं च चोदनैवात्र नो कुतः

1.1.38

लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः ।
अत एवाऽहुः-
"मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्"इति ।
सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् ।
तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति ।
तद्यथा - ऽ सास्नादिमती गौः ऽ इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य ऽइत्थ गौः ऽ इति चक्षुषावगच्छति ।
एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् ।
तत्र कुतः प्रमातुमुद्योगः ।
कथञ्चित्तदुपयोगे ऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः ।
न तावदत्र प्रत्यक्ष क्रमते ।
धर्मस्य रूपादिरहितत्वात् ।
अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् ।
प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः ।
ततो व्युत्पत्त्यभावान्नाऽगमो ऽपि तत्र प्रवर्तते ।
तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः ।
तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारो ऽस्ति ।
ऽ तेन अर्थत्वे सति चोदनागम्यो धर्मः ऽ इति लक्षणं भवति ।
ऽअर्थो धर्मःऽ इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः ।
तद्व्यवच्छेदाय ऽचोदनागम्यःऽ इत्युक्तम् ।
तावत्येवोक्ते विधिगम्ये ऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः ।
तद्व्यवच्छेदाय ऽअर्थःऽ इत्युक्तम् ।
यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनो ऽनर्थः ।
न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् ।
तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् ।
यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् ।
अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् ।
यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति ।
तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः ॥ म्जैन्य्च्_1,1.35-37 ॥
स्तर्त् म्जैन्य् 1,1.38-40
अस्मिन्नेवाधिकरणे गुरुतममाह -
यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः ।
सिद्धार्थो ऽप्यथ विध्येकगम्यः कार्यार्थ एव वा

1.1.39

सिद्धे ऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः ।
मन्त्रादिगम्यसिद्धस्य वेदार्थत्वे ऽपि का क्षतिः

1.1.40

हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि ।
दुर्लभा सुलभा कार्ये वेदार्थो ऽतः स एव हि

1.1.41

"अथातो धर्मजिज्ञासा" [पू.मी.सू.1.1.1 ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते ।
अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतू"क्रियते ।
उक्तशब्दद्वयानुसारेण धर्मशब्दो ऽपि कृत्स्नं वेदार्थमाचष्टे ।
ततः सूत्रे ऽवेदार्थो जिज्ञास्यः ऽ इति प्रतिज्ञा कृता ।
तत्र संशयः - किं मन्त्रार्थवादप्रतीतः सिद्धार्थो ऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थं एव वेदार्थः, इति ।
तत्र -
"लोकावगतसामर्थ्यः शब्दो वेदे ऽपि बोधकः" इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः ।
व्युत्पत्तिश्च सिद्धार्थे ऽप्यस्ति ।
ऽपुत्रस्ते जातः ऽ इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते ।
अतो मन्त्रार्थवादप्रतीतो ऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः - पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः ।
ऽगामानय ऽ इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् ।
तस्मात्कार्यरूप एव वैदार्थ इति ॥ म्जैन्य्च्_1,1.38-40 ॥
(तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् )
तस्य निमित्तपरीष्टिः । जैम्_1,1.3 ।
स्तर्त् म्जैन्य् 1,1.41-42
तृतीयाधिकरणं भट्टमतेनारचयति -
धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् ।
एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम्

1.1.42

मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया ।
मैवं विचारशास्त्रे ऽस्मिन्परीक्षोपेक्षते कुतः

1.1.43

स्पष्टोर्थः ॥ म्जैन्य्च्_1,1.41-42 ॥
स्तर्त् म्जैन्य् 1,1.43-44
अस्मिन्नेवाधिकरणे गुरूमतमाह -
आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा ।
वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम्

1.1.44

चोदनामानतैवात्र प्रथमं साध्यतां गता ।
अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम्

1.1.45

द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते ।
चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते ।
तदैतदयुक्तम् ।
कुतः ।
वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् ।
प्रधानभागे हि वेदः ।
पुरूषार्थत्वेनानुष्ठेयत्वात् ।
प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः- अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः ।
प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् ।
नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति ।
प्रमेयं तु सारेक्षम् ।
ऽमानावीना मेथसिद्धिः ऽ इत्युक्तत्वात् ।
तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते ।
अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? ।
न कृतः - अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ॥
तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः ॥ म्जैन्य्च्_1,1.43-44 ॥
अथ प्रायेण भट्टमतमेवोपन्यस्यते -
(चतुर्थे धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणे सूत्रम् ॥)
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् । जैम्_1,1.4 ।
स्तर्त् म्जैन्य् 1,1.45-46
चतुर्थाधिकरणमारचयति -
प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा ।
अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता

1.1.46

वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ ।
अक्षमूलो ऽनुमानादिस्तेन विध्येकमेयता

1.1.47

अक्षं प्रत्यक्षम् ।
प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् ।
धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् ।
तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते -
ब्रूमः - धर्मस्य प्रमेयत्वे ऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् ।
यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा ।
क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः ।
तस्माद्विधिनैव धर्मो गम्यते ॥ म्जैन्य्च्_1,1.45-46 ॥
(पञ्चमे धर्मे विधिप्रामाण्याधिकरणे सूत्रम् ॥)
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । जैम्_1,1.5 ।
स्तर्त् म्जैन्य् 1,1.47-48
पञ्चमाधिकरणमारचयति -
अबोधको बोधको वा न तावद्बोधको विधिः ।
शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः

1.1.48

समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् ।
बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम्

1.1.49

यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् ।
शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् ।
शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते ।
धर्मस्त्वलौकिकः ।
अतस्तत्र शक्तिग्रहणं दुर्घटम् ।
तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते -
ब्रूमः - यथा ऽप्रभिन्नकमलोदरे मधूनि मधुकरः पिबतिऽ इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात् कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथा ऽकारीर्या वृष्टिकामो यजेतऽ इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते ।
तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति ।
न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् ।
अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा ।
तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् ॥ म्जैन्य्च्_1,1.47-48 ॥
(षष्ठे शब्दनित्यताधिकरणे सूत्राणि 6-23)
कर्मैके तत्र दर्शनात् । जैम्_1,1.6 ।
अस्थानात् । जैम्_1,1.7 ।
करोति शब्दात् । जैम्_1,1.8 ।
सत्त्वान्तरे च यौगपद्यात् । जैम्_1,1.9 ।
प्रकृति विकृत्योश् च । जैम्_1,1.10 ।
वृद्धिश् च कर्तृभूम्नास्य । जैम्_1,1.11 ।
समं तु तत्र दर्शनम् । जैम्_1,1.12 ।
सतः परमदर्शनं विषयानागमात् । जैम्_1,1.13 ।
प्रयोगस्य परम् । जैम्_1,1.14 ।
आदित्त्यवद्यौगपद्यम् । जैम्_1,1.15 ।
वर्णान्तरम् अविकारः । जैम्_1,1.16 ।
नादवृद्धिपरा । जैम्_1,1.17 ।
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् । जैम्_1,1.18 ।
सर्वत्र यौगपद्यात् । जैम्_1,1.19 ।
संख्याभावात् । जैम्_1,1.20 ।
अनपेक्षत्वात् । जैम्_1,1.21 ।
प्रख्याभावाच् च योगस्य । जैम्_1,1.22 ।
लिङ्गदर्शनाच् च । जैम्_1,1.23 ।
स्तर्त् म्जैन्य् 1,1.49-50
षष्ठाधिकरणमारचयति -
विध्यादिरूपो यः शब्दः सो ऽनित्यो ऽथाविनश्वरः ।
अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात्

1.1.50

अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता ।
उच्चारणप्रयत्नेन व्यज्यते ऽसौ न जन्यते

1.1.51

शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते - वर्णसमूहश्रवणानन्तरं ऽइदमेकं पदम्ऽ इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते ।
तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः ।
स च नित्यः ।
स एव शब्दः, न तु वर्णा इति ।
तदेतन्नैयायिकादयो न सहन्ते ।
वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका ।
तस्माद्वर्णानामेव शब्दत्वम् ।
वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते ।
तस्मादनित्यः शब्दः ।
तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति पूर्वः पक्षः ॥
बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे ऽत एवेमे गकारादयो वर्णाःऽ इत्यबाधितप्रत्यभिज्ञा जायते ।
तद्बलान्नित्या वर्णाः ।
न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् ।
एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति ।
तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् ॥ म्जैन्य्च्_1,1.49-50 ॥
(सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि 24-26)
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् । जैम्_1,1.24 ।
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् । जैम्_1,1.25 ।
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् । जैम्_1,1.26 ।
स्तर्त् म्जैन्य् 1,1.51-52
सप्तमाधिकरणमारचयति -
वेदवाक्यममानं स्यान्मानं वा नास्य मानता ।
पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात्

1.1.52

वेदे ऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् ।
ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः

1.1.53

यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापि ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् ।
तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते -
ब्रूमः - लोके ऽगामानयऽ इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते ।
वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम् ।
तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ म्जैन्य्च्_1,1.51-52 ॥
(अष्टमे वेदापौरुषेयत्वाधिकरणे सूत्राणि 27-32)
वेदांश् चैके सन्निकर्षं पुरुषाख्याः । जैम्_1,1.27 ।
अनित्यदर्शनाच् च । जैम्_1,1.28 ।
उक्तं तु शब्दपूर्वत्वम् । जैम्_1,1.29 ।
आख्या प्रवचनात् । जैम्_1,1.30 ।
परन्तु श्रुतिसामान्यमात्रम् । जैम्_1,1.31 ।
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् । जैम्_1,1.32 ।
स्तर्त् म्जैन्य् 1,1.53-54
अष्टमाधिकरणमारचयति -
पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता ।
काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत्

1.1.54

समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् ।
तत्कर्त्रनुपलम्भेन स्यात्ततो ऽपौरुषेयता

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc