मीमांसासूत्र · भाग 120
अथातो धर्मजिज्ञासा । जैम्_1,1.1 ।
चोदनालक्षणो ऽर्थो धर्मः । जैम्_1,1.2 ।
तस्य निमित्तपरीष्टिः । जैम्_1,1.3 ।
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् । जैम्_1,1.4 ।
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । जैम्_1,1.5 ।
कर्मैके तत्र दर्शनात् । जैम्_1,1.6 ।
अस्थानात् । जैम्_1,1.7 ।
करोति शब्दात् । जैम्_1,1.8 ।
सत्त्वान्तरे च यौगपद्यात् । जैम्_1,1.9 ।
प्रकृति विकृत्योश् च । जैम्_1,1.10 ।
वृद्धिश् च कर्तृभूम्नास्य । जैम्_1,1.11 ।
समं तु तत्र दर्शनम् । जैम्_1,1.12 ।
सतः परमदर्शनं विषयानागमात् । जैम्_1,1.13 ।
प्रयोगस्य परम् । जैम्_1,1.14 ।
आदित्त्यवद्यौगपद्यम् । जैम्_1,1.15 ।
वर्णान्तरम् अविकारः । जैम्_1,1.16 ।
नादवृद्धिपरा । जैम्_1,1.17 ।
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् । जैम्_1,1.18 ।
सर्वत्र यौगपद्यात् । जैम्_1,1.19 ।
संख्याभावात् । जैम्_1,1.20 ।
अनपेक्षत्वात् । जैम्_1,1.21 ।
प्रख्याभावाच् च योगस्य । जैम्_1,1.22 ।
लिङ्गदर्शनाच् च । जैम्_1,1.23 ।
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन् निमित्तत्वात् । जैम्_1,1.24 ।
तद्भूतानां क्रियार्थेन सामाम्नायो ऽर्थस्य तन्निमित्तत्त्वात् । जैम्_1,1.25 ।
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् । जैम्_1,1.26 ।
वेदांश् चैके सन्निकर्षं पुरुषाख्याः । जैम्_1,1.27 ।
अनित्यदर्शनाच् च । जैम्_1,1.28 ।
उक्तं तु शब्दपूर्वत्वम् । जैम्_1,1.29 ।
आख्या प्रवचनात् । जैम्_1,1.30 ।
परन्तु श्रुतिसामान्यमात्रम् । जैम्_1,1.31 ।
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् । जैम्_1,1.32 ।
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते । जैम्_1,2.1 ।
शास्त्रदृष्टाविरोधाच् च । जैम्_1,2.2 ।
तथाफलाभावात् । जैम्_1,2.3 ।
अन्यानर्थक्यात् । जैम्_1,2.4 ।
अभागिप्रतिषेधाच् च । जैम्_1,2.5 ।
अनित्यसंयोगात् । जैम्_1,2.6 ।
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः । जैम्_1,2.7 ।
तुल्यं च साम्प्रदायिकम् । जैम्_1,2.8 ।
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत । जैम्_1,2.9 ।
गुणवादस् तु । जैम्_1,2.10 ।
रूपात् प्रायात् । जैम्_1,2.11 ।
दूरभूयस्त्वात् । जैम्_1,2.12 ।
अपराधात् कर्तुश् च पुत्रदर्शनम् । जैम्_1,2.13 ।
आकालिकेप्सा । जैम्_1,2.14 ।
विद्याप्रशंसा । जैम्_1,2.15 ।
सर्वत्वम् आधिकारिकम् । जैम्_1,2.16 ।
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् । जैम्_1,2.17 ।
अन्त्ययोर् यथोक्तम् । जैम्_1,2.18 ।
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् । जैम्_1,2.19 ।
लोकवद् इति चेत् । जैम्_1,2.20 ।
न पूर्वत्वात् । जैम्_1,2.21 ।
उक्तं तु वाक्यशेषत्वम् । जैम्_1,2.22 ।
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् । जैम्_1,2.23 ।
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति । जैम्_1,2.24 ।
विधौ च वाक्यभेदः स्यात् । जैम्_1,2.25 ।
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् । जैम्_1,2.26 ।
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य । जैम्_1,2.27 ।
व्यर्थे स्तुतिर् अन्याय्येति चेत् । जैम्_1,2.28 ।
अर्थस् तु विधिशेषत्वाद् यथा लोके । जैम्_1,2.29 ।
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् । जैम्_1,2.30 ।
तदर्थशास्त्रात् । जैम्_1,2.31 ।
वाक्यनियमात् । जैम्_1,2.32 ।
बुद्धिशास्त्रात् । जैम्_1,2.33 ।
अविद्यमानवचनात् । जैम्_1,2.34 ।
अचेतने ऽर्थबन्धनात् । जैम्_1,2.35 ।
अर्थविप्रतिषेधात् । जैम्_1,2.36 ।
स्वाध्यायवद्वचनात् । जैम्_1,2.37 ।
अविज्ञेयात् । जैम्_1,2.38 ।
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् । जैम्_1,2.39 ।
अविशिष्टस् तु वाक्यार्थः । जैम्_1,2.40 ।
गुणार्थेन पुनः श्रुतिः । जैम्_1,2.41 ।
परिसंख्या । जैम्_1,2.42 ।
अर्थवादो वा । जैम्_1,2.43 ।
अविरुद्धं परम् । जैम्_1,2.44 ।
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । जैम्_1,2.45 ।
अभिधाने ऽर्थवादः । जैम्_1,2.46 ।
गुणाद् अप्रतिषेधः स्यात् । जैम्_1,2.47 ।
विद्यावचनम् असंयोगात् । जैम्_1,2.48 ।
सतः परमविज्ञानम् । जैम्_1,2.49 ।
उक्तश् चानित्यसंयोगः । जैम्_1,2.50 ।
लिङ्गोपदेशश् च तदर्थवत् । जैम्_1,2.51 ।
ऊहः । जैम्_1,2.52 ।
विधिशब्दाश् च । जैम्_1,2.53 ।
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् । जैम्_1,3.1 ।
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् । जैम्_1,3.2 ।
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् । जैम्_1,3.3 ।
हेतुदर्शनाच् च । जैम्_1,3.4 ।
शिष्टाकोपे ऽविरुद्धम् इति चेत् । जैम्_1,3.5 ।
न शास्त्रपरिमाणत्वात् । जैम्_1,3.6 ।
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् । जैम्_1,3.7 ।
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् । जैम्_1,3.8 ।
शास्त्रस्था वा तन्निमित्तत्वात् । जैम्_1,3.9 ।
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन । जैम्_1,3.10 ।
प्रयोगशास्त्रम् इति चेत् । जैम्_1,3.11 ।
नासन्नियमात् । जैम्_1,3.12 ।
अवाक्यशेषाच् च । जैम्_1,3.13 ।
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च । जैम्_1,3.14 ।
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् । जैम्_1,3.15 ।
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य । जैम्_1,3.16 ।
दर्शनाद् विनियोगः स्यात् । जैम्_1,3.17 ।
लिङ्गाभावाच् च नित्यस्य । जैम्_1,3.18 ।
आख्या हि देशसंयोगात् । जैम्_1,3.19 ।
न स्याद् देशान्तरेष्व् इति चेत् । जैम्_1,3.20 ।
स्याद्योगाख्या हि माथुरवत् । जैम्_1,3.21 ।
कर्मधर्मो वा प्रवणवत् । जैम्_1,3.22 ।
तुल्यं तु कर्तृधर्मेण । जैम्_1,3.23 ।
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् । जैम्_1,3.24 ।
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् । जैम्_1,3.25 ।
अन्यायश् चानेकशब्दत्त्वम् । जैम्_1,3.26 ।
तत्र तत्त्वम् अभियोगविशेषात् स्यात् । जैम्_1,3.27 ।
तदशक्तिश् चानुरूपत्वात् । जैम्_1,3.28 ।
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् । जैम्_1,3.29 ।
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् । जैम्_1,3.30 ।
अद्रव्यशब्दत्वात् । जैम्_1,3.31 ।
अन्यदर्शनाच् च । जैम्_1,3.32 ।
आकृतिस् तु क्रियार्थत्वात् । जैम्_1,3.33 ।
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् । जैम्_1,3.34 ।
तदर्थत्वात् प्रयोगस्याविभागः । जैम्_1,3.35 ।
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् । जैम्_1,4.1 ।
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् । जैम्_1,4.2 ।
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः । जैम्_1,4.3 ।
तत्प्रख्यञ् चान्यशास्त्रम् । जैम्_1,4.4 ।
तद्व्यपदेशं च । जैम्_1,4.5 ।
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् । जैम्_1,4.6 ।
तुल्यत्वात् क्रिययोर् न । जैम्_1,4.7 ।
ऐकशब्द्ये परार्थवत् । जैम्_1,4.8 ।
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः । जैम्_1,4.9 ।
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः । जैम्_1,4.10 ।
प्रोक्षणीष्व् अर्थसंयोगात् । जैम्_1,4.11 ।
तथानिर्मन्थ्ये । जैम्_1,4.12 ।
वैश्वदेवे विकल्प इति चेत् । जैम्_1,4.13 ।
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य । जैम्_1,4.14 ।
मिथश् चानर्थसम्बन्धः । जैम्_1,4.15 ।
परार्थत्वाद् गुणानाम् । जैम्_1,4.16 ।
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये । जैम्_1,4.17 ।
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति । जैम्_1,4.18 ।
तच्छेषो नोपपद्यते । जैम्_1,4.19 ।
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् । जैम्_1,4.20 ।
कारणं स्याद् इति चेत् । जैम्_1,4.21 ।
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते । जैम्_1,4.22 ।
तत्सिद्धिः । जैम्_1,4.23 ।
जातिः । जैम्_1,4.24 ।
सारूप्यात् । जैम्_1,4.25 ।
प्रशंसा । जैम्_1,4.26 ।
भूमा । जैम्_1,4.27 ।
लिङ्गसमवायात् । जैम्_1,4.28 ।
सन्दिग्धेषु वाक्यशेषात् । जैम्_1,4.29 ।
अर्थाद् वा कल्पनैकदेशत्वात् । जैम्_1,4.30 ।
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते । जैम्_2,1.1 ।
सर्वेषां भावो ऽर्थ इति चेत् । जैम्_2,1.2 ।
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै । जैम्_2,1.3 ।
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य । जैम्_2,1.4 ।
चोदना पुनर् आरम्भः । जैम्_2,1.5 ।
तानि द्वैधं गुणप्रधानभूतानि । जैम्_2,1.6 ।
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् । जैम्_2,1.7 ।
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् । जैम्_2,1.8 ।
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् । जैम्_2,1.9 ।
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् । जैम्_2,1.10 ।
द्रव्योपदेश इति चेत् । जैम्_2,1.11 ।
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् । जैम्_2,1.12 ।
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् । जैम्_2,1.13 ।
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् । जैम्_2,1.14 ।
वशावद् वा गुणार्थं स्यात् । जैम्_2,1.15 ।
न श्रुतिसमवायित्वात् । जैम्_2,1.16 ।
व्यपदेशभेदाच् च । जैम्_2,1.17 ।
गुणश् चानर्थकः स्यात् । जैम्_2,1.18 ।
तथा याज्यापुरोरुचोः । जैम्_2,1.19 ।
वशायाम् अर्थसमवायात् । जैम्_2,1.20 ।
यच् चेति वार्थवत्त्वात् स्यात् । जैम्_2,1.21 ।
न त्वाम्नातेषु । जैम्_2,1.22 ।
दृश्यते । जैम्_2,1.23 ।
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् । जैम्_2,1.24 ।
शब्दपृथक्त्वाच् च । जैम्_2,1.25 ।
अनर्थकं च तद्वचनम् । जैम्_2,1.26 ।
अन्यश् चार्थः प्रतीयते । जैम्_2,1.27 ।
अभिधानं च कर्मवत् । जैम्_2,1.28 ।
फलनिर्वृत्तिश् च । जैम्_2,1.29 ।
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् । जैम्_2,1.30 ।
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् । जैम्_2,1.31 ।
तच्चोदकेषु मन्त्राख्या । जैम्_2,1.32 ।
शेषे ब्राह्मणशब्दः । जैम्_2,1.33 ।
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः । जैम्_2,1.34 ।
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था । जैम्_2,1.35 ।
गीतिषु स माख्या । जैम्_2,1.36 ।
शेषे यजुः शब्दाः । जैम्_2,1.37 ।
निगदो वा चतुर्थं स्याद् धर्मविशेषात् । जैम्_2,1.38 ।
व्यपदेशाच् च । जैम्_2,1.39 ।
यजूंषि वा तद्रूपत्वात् । जैम्_2,1.40 ।
वचनाद् धर्मविशेषः । जैम्_2,1.41 ।
अर्थाच् च । जैम्_2,1.42 ।
गुणार्थो व्यपदेशः । जैम्_2,1.43 ।
सर्वेषाम् इति चेत् । जैम्_2,1.44 ।
न, ऋग्व्यपदेशात् । जैम्_2,1.45 ।
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् । जैम्_2,1.46 ।
समेषु वाक्यभेदः स्यात् । जैम्_2,1.47 ।
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । जैम्_2,1.48 ।
व्यवायान् नानुषज्येत । जैम्_2,1.49 ।
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । जैम्_2,2.1 ।
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् । जैम्_2,2.2 ।
प्रकरणं तु पौर्णमास्यां रूपावचनात् । जैम्_2,2.3 ।
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् । जैम्_2,2.4 ।
गुणस् तु श्रुतिसंयोगात् । जैम्_2,2.5 ।
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत । जैम्_2,2.6 ।
व्यपदेशश् च तद्वत् । जैम्_2,2.7 ।
लिङ्गदर्शनाच् च । जैम्_2,2.8 ।
पौर्णमासीवद् उपांशुयाजः स्यात् । जैम्_2,2.9 ।
चोदना वाप्रकृतत्वात् । जैम्_2,2.10 ।
गुणोपबन्धात् । जैम्_2,2.11 ।
प्राये वचनाच् च । जैम्_2,2.12 ।
आघाराग्निहोत्रम् अरूपत्वात् । जैम्_2,2.13 ।
संज्ञोपबन्धात् । जैम्_2,2.14 ।
अप्रकृतत्वाच् च । जैम्_2,2.15 ।
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः । जैम्_2,2.16 ।
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन । जैम्_2,2.17 ।
अचोदकाश् च संस्काराः । जैम्_2,2.18 ।
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् । जैम्_2,2.19 ।
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् । जैम्_2,2.20 ।
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् । जैम्_2,2.21 ।
संज्ञा चोत्पत्तिसंयोगात् । जैम्_2,2.22 ।
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् । जैम्_2,2.23 ।
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत । जैम्_2,2.24 ।
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् । जैम्_2,2.25 ।
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत । जैम्_2,2.26 ।
समेषु कर्मयुक्तं स्यात् । जैम्_2,2.27 ।
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः । जैम्_2,2.28 ।
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः । जैम्_2,2.29 ।
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् । जैम्_2,3.1 ।
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् । जैम्_2,3.2 ।
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । जैम्_2,3.3 ।
आधाने सर्वशेषत्वात् । जैम्_2,3.4 ।
अयनेषु चोदनान्तरं संज्ञोपबन्धात् । जैम्_2,3.5 ।
अगुणाच् च कर्मचोदना । जैम्_2,3.6 ।
समाप्तं च फले वाक्यम् । जैम्_2,3.7 ।
विकारो वा प्रकरणात् । जैम्_2,3.8 ।
लिङ्गदर्शनाच् च । जैम्_2,3.9 ।
गुणात् संज्ञोपबन्धः । जैम्_2,3.10 ।
समाप्तिर् अविशिष्टा । जैम्_2,3.11 ।
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् । जैम्_2,3.12 ।
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् । जैम्_2,3.13 ।
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् । जैम्_2,3.14 ।
लिङ्गदर्शनाच् च । जैम्_2,3.15 ।
विषये प्रायदर्शनात् । जैम्_2,3.16 ।
अर्थवादोपपत्तेश् च । जैम्_2,3.17 ।
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् । जैम्_2,3.18 ।
पात्नीवते तु पूर्वत्वाद् अवच्छेदः । जैम्_2,3.19 ।
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् । जैम्_2,3.20 ।
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत । जैम्_2,3.21 ।
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् । जैम्_2,3.22 ।
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि । जैम्_2,3.23 ।
प्रकरणान्तरे प्रयोजनान्यत्वम् । जैम्_2,3.24 ।
फलं चाकर्मसंनिधौ । जैम्_2,3.25 ।
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः । जैम्_2,3.26 ।
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत । जैम्_2,3.27 ।
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते । जैम्_2,3.28 ।
अन्यार्था वा पुनः श्रुतिः । जैम्_2,3.29 ।
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् । जैम्_2,4.1 ।
कर्तुर् वा श्रुतिसंयोगात् । जैम्_2,4.2 ।
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् । जैम्_2,4.3 ।
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् । जैम्_2,4.4 ।
अनित्यत्वात् तु नैवं स्यात् । जैम्_2,4.5 ।
विरोधश् चापि पूर्ववत् । जैम्_2,4.6 ।
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् । जैम्_2,4.7 ।
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् । जैम्_2,4.8 ।
एकं वा संयोगरूपचोदनाख्याविशेषात् । जैम्_2,4.9 ।
न नाम्ना स्याद् अचोदनाभिधानत्वात् । जैम्_2,4.10 ।
सर्वेषां चैककर्म्यं स्यात् । जैम्_2,4.11 ।
कृतकं चाभिधानम् । जैम्_2,4.12 ।
एकत्वे ऽपि परम् । जैम्_2,4.13 ।
विद्यायां धर्मशास्त्रम् । जैम्_2,4.14 ।
अग्नेयवत्पुनर्वचनम् । जैम्_2,4.15 ।
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । जैम्_2,4.16 ।
अर्थासन्निधेश् च । जैम्_2,4.17 ।
न चैकं प्रतिशिष्यते । जैम्_2,4.18 ।
समाप्तिवच् च संप्रेक्षा । जैम्_2,4.19 ।
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि । जैम्_2,4.20 ।
प्रायश्चित्तं निमित्तेन । जैम्_2,4.21 ।
प्रक्रमाद् वा नियोगेन । जैम्_2,4.22 ।
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत । जैम्_2,4.23 ।
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् । जैम्_2,4.24 ।
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् । जैम्_2,4.25 ।
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् । जैम्_2,4.26 ।
सारस्वते विप्रतिषेधाद्यदेति स्यात् । जैम्_2,4.27 ।
उपहव्ये ऽप्रतिप्रसवः । जैम्_2,4.28 ।
गुणार्था वा पुनः श्रुतिः । जैम्_2,4.29 ।
प्रत्ययं चापि दर्शयति । जैम्_2,4.30 ।
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत । जैम्_2,4.31 ।
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् । जैम्_2,4.32 ।
अथातः शेषलक्षणम् । जैम्_3,1.1 ।
शेषः परार्थत्वात् । जैम्_3,1.2 ।
द्रव्यगुणसंस्कारेषु बादरिः । जैम्_3,1.3 ।
कर्माण्यपि जैमिनिः फलार्थत्वात् । जैम्_3,1.4 ।
फलं च पुरुषार्थत्वात् । जैम्_3,1.5 ।
पुरुषश् च कर्मार्थत्वात् । जैम्_3,1.6 ।
तेषाम् अर्थेन सबन्धः । जैम्_3,1.7 ।
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च । जैम्_3,1.8 ।
अर्थलोपाद् अकर्मे स्यात् । जैम्_3,1.9 ।
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् । जैम्_3,1.10 ।
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत । जैम्_3,1.11 ।
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् । जैम्_3,1.12 ।
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् । जैम्_3,1.13 ।
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् । जैम्_3,1.14 ।
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता । जैम्_3,1.15 ।
संस्काराद् वागुणानाम् अव्यवस्था स्यात् । जैम्_3,1.16 ।
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् । जैम्_3,1.17 ।
आनर्थक्यात्तदङ्गेषु । जैम्_3,1.18 ।
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् । जैम्_3,1.19 ।
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण । जैम्_3,1.20 ।
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् । जैम्_3,1.21 ।
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् । जैम्_3,1.22 ।
मिथश् चानर्थसम्वन्धात् । जैम्_3,1.23 ।
आनन्तर्यम् अचोदना । जैम्_3,1.24 ।
बाक्यानां च समाप्तत्वात् । जैम्_3,1.25 ।
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् । जैम्_3,1.26 ।
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः । जैम्_3,1.27 ।
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् । जैम्_3,2.1 ।
संस्कारकत्वाद् अचोदितेन स्यात् । जैम्_3,2.2 ।
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् । जैम्_3,2.3 ।
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् । जैम्_3,2.4 ।
तथाहवानम् अपीति चेत् । जैम्_3,2.5 ।
नकालविधिश् चोदितत्वात् । जैम्_3,2.6 ।
गुणाभावात् । जैम्_3,2.7 ।
लिङ्गाच् च । जैम्_3,2.8 ।
विधिकोपश् चोपदेशे स्यात् । जैम्_3,2.9 ।
तथोत्थानविसर्जने । जैम्_3,2.10 ।
सूक्तवाके च कालविधिः परार्थत्वात् । जैम्_3,2.11 ।
उपदेशो वा याज्याशब्दो हि नाकस्मात् । जैम्_3,2.12 ।
सदेवतार्थस् तत्संयोगात् । जैम्_3,2.13 ।
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् । जैम्_3,2.14 ।
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् । जैम्_3,2.15 ।
यथार्थं वा शेषभूतसंस्कारात् । जैम्_3,2.16 ।
वचनाद् इति चेत् । जैम्_3,2.17 ।
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः । जैम्_3,2.18 ।
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् । जैम्_3,2.19 ।
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् । जैम्_3,2.20 ।
तदाख्यो वा प्रकरणोपपत्तिभ्याम् । जैम्_3,2.21 ।
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् । जैम्_3,2.22 ।
सर्वेषां चोपदिष्टत्वात् । जैम्_3,2.23 ।
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य । जैम्_3,2.24 ।
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् । जैम्_3,2.25 ।
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् । जैम्_3,2.26 ।
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् । जैम्_3,2.27 ।
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति । जैम्_3,2.28 ।
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् । जैम्_3,2.29 ।
अनयाद् वा पूर्वस्यानुपलक्षणम् । जैम्_3,2.30 ।
ग्रहणाद् वापनयः स्यात् । जैम्_3,2.31 ।
पात्नीवते तु पूर्ववत् । जैम्_3,2.32 ।
ग्रहणाद् वापनीतं स्यात् । जैम्_3,2.33 ।
त्वष्टारं तूपलक्षयेत् पानात् । जैम्_3,2.34 ।
अतुल्यत्वात् तु नैवं स्यात् । जैम्_3,2.35 ।
त्रिंशच् च परार्थत्वात् । जैम्_3,2.36 ।
वषट्कारश् च कर्तृवत् । जैम्_3,2.37 ।
छन्दः प्रतिषेधस् तु सर्वगामित्वात् । जैम्_3,2.38 ।
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् । जैम्_3,2.39 ।
एकस्मिन् वा देवतान्तराद् विभागवत् । जैम्_3,2.40 ।
छन्दश् च देवतावत् । जैम्_3,2.41 ।
सर्वेषु वाभावाद् एकच्छन्दसः । जैम्_3,2.42 ।
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि । जैम्_3,2.43 ।
श्रुतेर् जाताधिकारः स्यात् । जैम्_3,3.1 ।
वेदो वा प्रायदर्शनात् । जैम्_3,3.2 ।
लिङ्गाच् च । जैम्_3,3.3 ।
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः । जैम्_3,3.4 ।
त्रयीविद्याख्या च तद्विद् धि । जैम्_3,3.5 ।
व्यक्तिक्रमे यथाश्रुतीति चेत् । जैम्_3,3.6 ।
न सर्वस्मिन् निवेशात् । जैम्_3,3.7 ।
वेदसंयोगान् न प्रकरणेन बाध्यते । जैम्_3,3.8 ।
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः । जैम्_3,3.9 ।
भूयस्त्वेनोभयश्रुति । जैम्_3,3.10 ।
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् । जैम्_3,3.11 ।
क्रमश् च देशसामान्यात् । जैम्_3,3.12 ।
आख्या चैवम तदर्थत्वात् । जैम्_3,3.13 ।
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् । जैम्_3,3.14 ।
अहीनो वा प्रकरणाद् गौणः । जैम्_3,3.15 ।
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत । जैम्_3,3.16 ।
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य । जैम्_3,3.17 ।
पक्षेणार्थकृतस्येति चेत् । जैम्_3,3.18 ।
नकृतेर् एकसंयोगात् । जैम्_3,3.19 ।
जाघनी चैकदेशत्वात् । जैम्_3,3.20 ।
चोदना वापूर्वत्वात् । जैम्_3,3.21 ।
एकदेश इति चेत् । जैम्_3,3.22 ।
न प्रकृतेर् अशास्त्रनिष्पत्तेः । जैम्_3,3.23 ।
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् । जैम्_3,3.24 ।
उत्कर्षो वा ग्रहणाद् विशेषस्य । जैम्_3,3.25 ।
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् । जैम्_3,3.26 ।
क्रतुतो वार्थवादान् उपपत्तेः स्यात् । जैम्_3,3.27 ।
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् । जैम्_3,3.28 ।
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् । जैम्_3,3.29 ।
अविशेषात् स्तुतिर् व्यर्थेति चेत् । जैम्_3,3.30 ।
स्याद् अनित्यत्वात् । जैम्_3,3.31 ।
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् । जैम्_3,3.32 ।
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् । जैम्_3,3.33 ।
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ । जैम्_3,3.34 ।
तत्सर्वार्थम् अविशेषात् । जैम्_3,3.35 ।
चरौवार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् । जैम्_3,3.36 ।
चराव् अपीति चेत् । जैम्_3,3.37 ।
न पक्तिनामत्वात् । जैम्_3,3.38 ।
एकस्मिन्न् एकसंयोगात् । जैम्_3,3.39 ।
धर्माविप्रतिषेधाच् च । जैम्_3,3.40 ।
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात । जैम्_3,3.41 ।
लिङ्गदर्शनाच् च । जैम्_3,3.42 ।
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति । जैम्_3,3.43 ।
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् । जैम्_3,3.44 ।
हेतुमात्रम् अदन्तत्वम् । जैम्_3,3.45 ।
वचनं परम् । जैम्_3,3.46 ।
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् । जैम्_3,4.1 ।
अपदेशो वार्थस्य विद्यमानतत्त्वात् । जैम्_3,4.2 ।
विधिस्तवर्पूर्वत्वात् स्यात् । जैम्_3,4.3 ।
स प्रायात् कर्मधर्मः स्यात् । जैम्_3,4.4 ।
वाक्यशेषत्वात् । जैम्_3,4.5 ।
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् । जैम्_3,4.6 ।
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् । जैम्_3,4.7 ।
अर्थवादो वा प्रकरणात् । जैम्_3,4.8 ।
विधिना चैकवाक्यत्वात् । जैम्_3,4.9 ।
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् । जैम्_3,4.10 ।
परुषि दितपूर्णघृतविदग्धं च तद्वत् । जैम्_3,4.11 ।
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् । जैम्_3,4.12 ।
विधिर् वा संयोगान्तरात् । जैम्_3,4.13 ।
अहीनवत् पुरुषस् तदर्थत्वात् । जैम्_3,4.14 ।
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् । जैम्_3,4.15 ।
व्यपदेशाद् अपकृष्येत । जैम्_3,4.16 ।
शंयौ च सर्वपरिदानात् । जैम्_3,4.17 ।
प्रागपरोधान् मलवद् वाससः । जैम्_3,4.18 ।
अन्नप्रतिषेधाच् च । जैम्_3,4.19 ।
अप्रकरणे तु तद्वर्मस् ततो विशेषात् । जैम्_3,4.20 ।
अद्रव्यत्वात् तु शेषः स्यात् । जैम्_3,4.21 ।
वेदसंयोगात् । जैम्_3,4.22 ।
द्रव्यसंयोगाच् च । जैम्_3,4.23 ।
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः । जैम्_3,4.24 ।
शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् । जैम्_3,4.25 ।
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् । जैम्_3,4.26 ।
शेषश् च समाख्यानात् । जैम्_3,4.27 ।
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् । जैम्_3,4.28 ।
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत । जैम्_3,4.29 ।
अचोदित च कर्मभेदात् । जैम्_3,4.30 ।
लिङ्गाद् आर्त्विजे स्यात् । जैम्_3,4.31 ।
पानव्यापच् च तद्वत् । जैम्_3,4.32 ।
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् । जैम्_3,4.33 ।
तत्सर्वत्राविशेषात् । जैम्_3,4.34 ।
स्वामिनो वा तदर्थत्वात् । जैम्_3,4.35 ।
लिङ्गदर्शनाच् च । जैम्_3,4.36 ।
सर्वप्रदानं हविषस् तदर्थत्वात् । जैम्_3,4.37 ।
निरवदानात् तु शेषः स्यात् । जैम्_3,4.38 ।
उपायो वा तदर्थत्वात् । जैम्_3,4.39 ।
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् । जैम्_3,4.40 ।
शेषदर्शनाच् च । जैम्_3,4.41 ।
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् । जैम्_3,4.42 ।
संस्कृतत्वाच् च । जैम्_3,4.43 ।
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् । जैम्_3,4.44 ।
लिङ्गदर्शनाच् च । जैम्_3,4.45 ।
एकस्माच् चेद् यथाकाम्यम् अविशेषात् । जैम्_3,4.46 ।
मुख्याद् वा पूर्वकालत्वात् । जैम्_3,4.47 ।
भक्षाश्रवणाद् दानशब्दः परिक्रये । जैम्_3,4.48 ।
तत्संस्तवाच् च । जैम्_3,4.49 ।
भक्षार्थो वा द्रव्ये समत्वात् । जैम्_3,4.50 ।
व्यादेशाद् दानसंस्तुतिः । जैम्_3,4.51 ।
आज्याच् च सर्वसंयोगात् । जैम्_3,5.1 ।
कारणाच् च । जैम्_3,5.2 ।
एकस्मिन्त् समवत्तशब्दात् । जैम्_3,5.3 ।
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य । जैम्_3,5.4 ।
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता । जैम्_3,5.5 ।
साधारण्यान् न ध्रुवायां स्यात् । जैम्_3,5.6 ।
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् । जैम्_3,5.7 ।
चमसवद् इति चेत् । जैम्_3,5.8 ।
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च । जैम्_3,5.9 ।
उत्पन्नाधिकारात् सति सर्ववचनम् । जैम्_3,5.10 ।
जातिविशेषात् परम् । जैम्_3,5.11 ।
अन्त्यम् अरेकार्थे । जैम्_3,5.12 ।
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् । जैम्_3,5.13 ।
सौत्रामण्यां च ग्रहेषु । जैम्_3,5.14 ।
तद्वच् च शेषवचनम् । जैम्_3,5.15 ।
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् । जैम्_3,5.16 ।
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् । जैम्_3,5.17 ।
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् । जैम्_3,5.18 ।
सोमे ऽवचनाद् भक्षो न विद्यते । जैम्_3,5.19 ।
स्याद् वान्यार्थदर्शनात् । जैम्_3,5.20 ।
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः । जैम्_3,5.21 ।
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् । जैम्_3,5.22 ।
उद्गातृचमसमेकः श्रुतिसंयोगात् । जैम्_3,5.23 ।
सर्वे वा सर्वसंयोगात् । जैम्_3,5.24 ।
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः । जैम्_3,5.25 ।
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् । जैम्_3,5.26 ।
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् । जैम्_3,5.27 ।
हारियोजने वा सर्वसंयोगात् । जैम्_3,5.28 ।
चमसिनां वा सन्निधानात् । जैम्_3,5.29 ।
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः । जैम्_3,5.30 ।
वषट्काराच् च भक्षयेत् । जैम्_3,5.31 ।
होमाभिषबाभ्यां च । जैम्_3,5.32 ।
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे । जैम्_3,5.33 ।
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् । जैम्_3,5.34 ।
चमसे चान्यदर्शनात् । जैम्_3,5.35 ।
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् । जैम्_3,5.36 ।
होता वा मन्त्रवर्णात् । जैम्_3,5.37 ।
वचनाच् च । जैम्_3,5.38 ।
कारणानुपूर्व्याच् च । जैम्_3,5.39 ।
वचनाद् अनुज्ञातभक्षणम् । जैम्_3,5.40 ।
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् । जैम्_3,5.41 ।
तत्रार्थात् प्रतिवचनम् । जैम्_3,5.42 ।
तदेकत्राणां समवायात् । जैम्_3,5.43 ।
याज्यापनयेनापनीतो भक्षः प्रवरवत् । जैम्_3,5.44 ।
यष्टुर् वा कारणागमात् । जैम्_3,5.45 ।
प्रवृत्तत्वात् प्रवरस्यानपायः । जैम्_3,5.46 ।
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । जैम्_3,5.47 ।
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् । जैम्_3,5.48 ।
होमात् । जैम्_3,5.49 ।
चमसैश् च तुल्यकालत्वात् । जैम्_3,5.50 ।
लिङ्गदर्शनाच् च । जैम्_3,5.51 ।
अनुप्रसर्पिषु सामान्यात् । जैम्_3,5.52 ।
ब्रह्मणा वा तुल्यशब्दत्वात् । जैम्_3,5.53 ।
तत् सर्वार्थम् अप्रकरणात् । जैम्_3,6.1 ।
प्रकृतौ वाद्विरुक्तत्वात् । जैम्_3,6.2 ।
तद्वर्जं तु वचनप्राप्ते । जैम्_3,6.3 ।
दर्शनाद् इति चेत् । जैम्_3,6.4 ।
न चोदनैकार्थ्यात् । जैम्_3,6.5 ।
उत्पत्तिर् इति चेत् । जैम्_3,6.6 ।
न तुल्यत्वात् । जैम्_3,6.7 ।
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः । जैम्_3,6.8 ।
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् । जैम्_3,6.9 ।
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् । जैम्_3,6.10 ।
इष्टयर्थमग्न्याधेयं प्रकरणात् । जैम्_3,6.11 ।
न वा तासां तदर्थत्वात् । जैम्_3,6.12 ।
लिङ्गदर्शनाच् च । जैम्_3,6.13 ।
तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः । जैम्_3,6.14 ।
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् । जैम्_3,6.15 ।
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् । जैम्_3,6.16 ।
न वा तासां तदर्थत्वात् । जैम्_3,6.17 ।
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् । जैम्_3,6.18 ।
स्थानाच् च पूर्वस्य । जैम्_3,6.19 ।
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था । जैम्_3,6.20 ।
तेनोत्कृष्टस्य कालविधिर् इति चेत् । जैम्_3,6.21 ।
नैकदेशत्वात् । जैम्_3,6.22 ।
अर्थेनेति चेत् । जैम्_3,6.23 ।
न श्रुतिविप्रतिषेधात् । जैम्_3,6.24 ।
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् । जैम्_3,6.25 ।
लिङ्गदर्शनाच् च । जैम्_3,6.26 ।
अचोदना गुणार्थेन । जैम्_3,6.27 ।
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् । जैम्_3,6.28 ।
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् । जैम्_3,6.29 ।
तद्वत् सवनान्तरे ग्रहाम्नानम् । जैम्_3,6.30 ।
रशना च लिङ्गदर्शनात् । जैम्_3,6.31 ।
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् । जैम्_3,6.32 ।
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् । जैम्_3,6.33 ।
निर्देशाद् व्यवतिष्ठेत । जैम्_3,6.34 ।
अग्न्यङ्गम् अप्रकरणे तद्वत् । जैम्_3,6.35 ।
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् । जैम्_3,6.36 ।
प्रतिनिधिश् च जैम्_3,6.37 ।
तद्वत्प्रयोजनैकत्वात् । जैम्_3,6.38 ।
अशास्त्रलक्षणत्वाच् च । जैम्_3,6.39 ।
नियमार्था गुणश्रुतिः । जैम्_3,6.40 ।
संस्थास् तु समानविधानाः प्रकरणाविशेषात् । जैम्_3,6.41 ।
व्यपदेशश् च तुल्यवत् । जैम्_3,6.42 ।
विकासस् तु कामसंयोगे नित्यस्य समत्वात् । जैम्_3,6.43 ।
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति । जैम्_3,6.44 ।
बचनात् तु समुच्चयः । जैम्_3,6.45 ।
प्रतिषेधाच् च पूर्वलिङ्गनाम् । जैम्_3,6.46 ।
गुणविशेषाद् एकस्य व्यपदेशः । जैम्_3,6.47 ।
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य । जैम्_3,7.1 ।
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् । जैम्_3,7.2 ।
आरादपीति चेत् । जैम्_3,7.3 ।
न तद्वाक्यं हि तदर्थत्वात् । जैम्_3,7.4 ।
लिङ्गदर्शनाच् च । जैम्_3,7.5 ।
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य । जैम्_3,7.6 ।
चिकीर्षयो च संयोगात् । जैम्_3,7.7 ।
तथाभिधानेन । जैम्_3,7.8 ।
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् । जैम्_3,7.9 ।
गुणाभिधानात् सर्वार्थम् अभिधानम् । जैम्_3,7.10 ।
दीक्षादक्षिणं तु वचनात् प्रधानस्य । जैम्_3,7.11 ।
निवृत्तिदर्शनाच् च । जैम्_3,7.12 ।
तथा यूपस्य वेदि । जैम्_3,7.13 ।
देशमात्रं वा शिष्टेनैकवाक्यत्वात् । जैम्_3,7.14 ।
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् । जैम्_3,7.15 ।
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य । जैम्_3,7.16 ।
समाख्यानं च तद्वत् । जैम्_3,7.17 ।
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् । जैम्_3,7.18 ।
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् । जैम्_3,7.19 ।
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि । जैम्_3,7.20 ।
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् । जैम्_3,7.21 ।
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः । जैम्_3,7.22 ।
एकस्य कर्मभेदाद् इति चेत् । जैम्_3,7.23 ।
नोत्पत्तौ हि । जैम्_3,7.24 ।
चमसाध्वर्यवश् च तैर् व्यपदेशात् । जैम्_3,7.25 ।
उत्पत्तौ तु बहुश्रुतेः । जैम्_3,7.26 ।
दशत्वं लिङ्गदर्शनात् । जैम्_3,7.27 ।
शमिता च शब्दभेदात् । जैम्_3,7.28 ।
प्रकरणाद् वोत्पत्त्यसंयोगात् । जैम्_3,7.29 ।
उपगाश् च लिङ्गदर्शनात् । जैम्_3,7.30 ।
विक्रयी त्वन्यः कर्मणो ऽचोदित्वात् । जैम्_3,7.31 ।
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् । जैम्_3,7.32 ।
न वा परिसंख्यानात् । जैम्_3,7.33 ।
पक्षेणेति चेत् । जैम्_3,7.34 ।
न सर्वेषाम् अधिकारः । जैम्_3,7.35 ।
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् । जैम्_3,7.36 ।
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् । जैम्_3,7.37 ।
स्वामिसप्तदशाः कर्मसामान्यात् । जैम्_3,7.38 ।
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् । जैम्_3,7.39 ।
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् । जैम्_3,7.40 ।
तस्योपदेशसमाख्यानेन निर्देशः । जैम्_3,7.41 ।
तद्वच् च लिङ्गदर्शम् । जैम्_3,7.42 ।
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् । जैम्_3,7.43 ।
पुरो ऽनुवाक्याधिकारो वा प्रैषसन्निधानात् । जैम्_3,7.44 ।
प्रातर् अनुवाके च होतृदर्शनात् । जैम्_3,7.45 ।
चमसांश्चमसाध्वर्यवः सामाख्यानात् । जैम्_3,7.46 ।
अध्वर्युर्वा तन्न्यायत्वात् । जैम्_3,7.47 ।
चमसे चान्यदर्शनात् । जैम्_3,7.48 ।
अशक्तौ ते प्रतीयेरन् । जैम्_3,7.49 ।
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः । जैम्_3,7.50 ।
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे । जैम्_3,7.51 ।
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् । जैम्_3,8.1 ।
वचनाद् इतरेषां स्यात् । जैम्_3,8.2 ।
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् । जैम्_3,8.3 ।
याजमानास् तु तत्प्रधानत्वात् कर्मवत् । जैम्_3,8.4 ।
व्यपदेशाच् च । जैम्_3,8.5 ।
गुणत्त्वे तस्य निर्देशः । जैम्_3,8.6 ।
चोदना प्रति भावाच् च । जैम्_3,8.7 ।
अतुल्यत्वाद् असमानविधानाः स्युः । जैम्_3,8.8 ।
तपश् च फलसिद्धित्वाल् लोकवत् । जैम्_3,8.9 ।
वाक्यशेषश् च तद्वत् । जैम्_3,8.10 ।
वचनाद् इतरेषां स्यात् । जैम्_3,8.11 ।
गुणत्वाच् च वेदेन न व्यवस्था स्यात् । जैम्_3,8.12 ।
तथा कामो ऽर्थसंयोगात् । जैम्_3,8.13 ।
व्यपदेशाद् इतरेषां स्यात् । जैम्_3,8.14 ।
मन्त्राश् चाकर्मकरणास् तद्वत् । जैम्_3,8.15 ।
विप्रयोगे च दर्शनात् । जैम्_3,8.16 ।
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् । जैम्_3,8.17 ।
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति । जैम्_3,8.18 ।
याजमाने समाख्यानात् कर्माणि याजमानं स्युः । जैम्_3,8.19 ।
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् । जैम्_3,8.20 ।
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् । जैम्_3,8.21 ।
प्रैषेणु च पराधिकारात् । जैम्_3,8.22 ।
अध्वर्युस् तु दर्शनात् । जैम्_3,8.23 ।
गौणो वा कर्मसामान्यात् । जैम्_3,8.24 ।
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् । जैम्_3,8.25 ।
स्वामिनो वा तदर्थत्वात् । जैम्_3,8.26 ।
लिङ्गदर्शनाच् च । जैम्_3,8.27 ।
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् । जैम्_3,8.28 ।
व्यपदेशाच् च । जैम्_3,8.29 ।
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् । जैम्_3,8.30 ।
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः । जैम्_3,8.31 ।
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे । जैम्_3,8.32 ।
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् । जैम्_3,8.33 ।
विकृतौ सर्वार्थः शेषः प्रकृतिवत् । जैम्_3,8.34 ।
मुख्यार्थो वाङ्गस्याचोदितत्वात् । जैम्_3,8.35 ।
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् । जैम्_3,8.36 ।
आधाने ऽपि तथेति चेत् । जैम्_3,8.37 ।
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् । जैम्_3,8.38 ।
तत्काले वा लिङ्गदर्शनात् । जैम्_3,8.39 ।
सर्वेषां वाविशेषात् । जैम्_3,8.40 ।
न्यायोक्ते लिङ्गदर्शनम् । जैम्_3,8.41 ।
मांसं तु सवनीयानां चोदनाविशेषात् । जैम्_3,8.42 ।
भक्तिर् असन्निधावन्याय्येति चेत् । जैम्_3,8.43 ।
स्यात् प्रकृतिलिङ्गाद् वैराजवत् । जैम्_3,8.44 ।
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा । जैम्_4,1.1 ।
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् । जैम्_4,1.2 ।
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः । जैम्_4,1.3 ।
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः । जैम्_4,1.4 ।
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् । जैम्_4,1.5 ।
तथा च लोकभूतेषु । जैम्_4,1.6 ।
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् । जैम्_4,1.7 ।
स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः । जैम्_4,1.8 ।
चोद्यन्ते चार्थकर्मसु । जैम्_4,1.9 ।
लिङ्गदर्शनाच् च । जैम्_4,1.10 ।
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् । जैम्_4,1.11 ।
एकश्रुतित्वाच् च । जैम्_4,1.12 ।
प्रतीयते इति चेत् । जैम्_4,1.13 ।
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् । जैम्_4,1.14 ।
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । जैम्_4,1.15 ।
तद्वच् च लिङ्गदर्शनम् । जैम्_4,1.16 ।
तथा च लिङ्गम् । जैम्_4,1.17 ।
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत । जैम्_4,1.18 ।
चोदनायां त्व् अनारम्भो ऽविभक्तत्वान् न ह्य् अन्येन विधीयते । जैम्_4,1.19 ।
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः । जैम्_4,1.20 ।
अर्थे समवैषम्यतो द्रव्यकर्मणाम् । जैम्_4,1.21 ।
एकनिष्पत्तेः सर्वे समं स्यात् । जैम्_4,1.22 ।
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् । जैम्_4,1.23 ।
मुख्यशब्दाभिसंस्तवाच् च । जैम्_4,1.24 ।
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् । जैम्_4,1.25 ।
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते । जैम्_4,1.26 ।
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् । जैम्_4,1.27 ।
एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् । जैम्_4,1.28 ।
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् । जैम्_4,1.29 ।
न शेषसन्निधानात् । जैम्_4,1.30 ।
कर्मकार्यात् । जैम्_4,1.31 ।
लिङ्गदर्शनाच् च । जैम्_4,1.32 ।
अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् । जैम्_4,1.33 ।
न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् । जैम्_4,1.34 ।
हेतुत्वाच् च सहप्रयोगस्य । जैम्_4,1.35 ।
अभावदर्शनाच् च । जैम्_4,1.36 ।
सति सव्यवचनम् । जैम्_4,1.37 ।
न तस्येति चेत् । जैम्_4,1.38 ।
स्यात् तस्य मुख्यत्वात् । जैम्_4,1.39 ।
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् । जैम्_4,1.40 ।
वचने हि हेत्वसामर्थ्यम् । जैम्_4,1.41 ।
तत्रोत्पत्तिर् अविभक्ता स्यात् । जैम्_4,1.42 ।
तत्र जौहवम् अनूयाजप्रतिषेधार्थम् । जैम्_4,1.43 ।
औपभृतं तथेति चेत् । जैम्_4,1.44 ।
स्याज् जुहूप्रतिषेधान् नित्यानुवादः । जैम्_4,1.45 ।
तदष्टसङ्ख्यं श्रवणात् । जैम्_4,1.46 ।
अनुग्रहाच् च जौहवस्य । जैम्_4,1.47 ।
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने । जैम्_4,1.48 ।
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । जैम्_4,2.1 ।
जात्यन्तराच् च शङ्कते । जैम्_4,2.2 ।
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । जैम्_4,2.3 ।
शकलश्रुतेश् च । जैम्_4,2.4 ।
प्रतियूपं च दर्शनात् । जैम्_4,2.5 ।
आदाने करोतिशब्दः । जैम्_4,2.6 ।
शाखायां तत्प्रधानत्वात् । जैम्_4,2.7 ।
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् । जैम्_4,2.8 ।
श्रुत्यपायाच् च । जैम्_4,2.9 ।
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् । जैम्_4,2.10 ।
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् । जैम्_4,2.11 ।
अर्थे ऽपि चेत् । जैम्_4,2.12 ।
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् । जैम्_4,2.13 ।
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् । जैम्_4,2.14 ।
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् । जैम्_4,2.15 ।
प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् । जैम्_4,2.16 ।
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् । जैम्_4,2.17 ।
कर्मयुक्ते च दर्शनात् । जैम्_4,2.18 ।
उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् । जैम्_4,2.19 ।
सौमिके च कृतार्थत्वात् । जैम्_4,2.20 ।
अर्थकर्म वाभिधानसंयोगात् । जैम्_4,2.21 ।
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः । जैम्_4,2.22 ।
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् । जैम्_4,2.23 ।
नियमार्था वा श्रुतिः । जैम्_4,2.24 ।
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् । जैम्_4,2.25 ।
संस्कारे च तत्प्रधानत्वात् । जैम्_4,2.26 ।
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । जैम्_4,2.27 ।
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् । जैम्_4,2.28 ।
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् । जैम्_4,2.29 ।
अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् । जैम्_4,2.30 ।
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् । जैम्_4,3.1 ।
उत्पत्तेश् चातत्प्रधानत्वात् । जैम्_4,3.2 ।
फलं तु तत्प्रधानायाम् । जैम्_4,3.3 ।
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् । जैम्_4,3.4 ।
एकस्य तूभयत्वे संयोगपृथक्त्वम् । जैम्_4,3.5 ।
शेष इति चेत् । जैम्_4,3.6 ।
नार्थपृथक्त्वात् । जैम्_4,3.7 ।
द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् । जैम्_4,3.8 ।
पृथक्त्वाद्व्यवतिष्ठेत । जैम्_4,3.9 ।
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते । जैम्_4,3.10 ।
अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्ते ऽर्थतोप्य् असमर्थानाम् आनन्तर्ये ऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः । जैम्_4,3.11 ।
वाक्यार्थश् च गुणार्थवत् । जैम्_4,3.12 ।
तत्सर्वार्थम् अनादेशात् । जैम्_4,3.13 ।
एकं वा चोदनैकत्वात् । जैम्_4,3.14 ।
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । जैम्_4,3.15 ।
प्रत्ययाच् च । जैम्_4,3.16 ।
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः । जैम्_4,3.17 ।
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् । जैम्_4,3.18 ।
अङ्गेषु स्तुतिः परार्थत्वात् । जैम्_4,3.19 ।
काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः । जैम्_4,3.20 ।
वीते च कारणे नियमात् । जैम्_4,3.21 ।
कामो वा तत्संयोगेन चोद्यते । जैम्_4,3.22 ।
अङ्गेषु स्तुतिः परार्थत्वात् । जैम्_4,3.23 ।
वीते च नियमस् तदर्थम् । जैम्_4,3.24 ।
सर्वकाम्यम् अङ्गकामैः प्रकरणात् । जैम्_4,3.25 ।
फलोपदेशो वा प्रधानशब्दसंयोगात् । जैम्_4,3.26 ।
तत्र सर्वे ऽविशेषात् । जैम्_4,3.27 ।
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् । जैम्_4,3.28 ।
समवाये चोदनासंयोगस्यार्थवत्वात् । जैम्_4,3.29 ।
कालश्रुतौ काल इति चेत् । जैम्_4,3.30 ।
नासमवायात्प्रयोजनेन । जैम्_4,3.31 ।
उभयार्थाम् इति चेत् । जैम्_4,3.32 ।
न शब्दैकत्वात् । जैम्_4,3.33 ।
प्रकरणाद् इति चेत् । जैम्_4,3.34 ।
नोत्पत्तिसंयोगात् । जैम्_4,3.35 ।
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् । जैम्_4,3.36 ।
उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् । जैम्_4,3.37 ।
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् । जैम्_4,3.38 ।
अङ्गानां तूपघातसंयोगो निमित्तार्थः । जैम्_4,3.39 ।
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् । जैम्_4,3.40 ।
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् । जैम्_4,3.41 ।
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् । जैम्_4,4.1 ।
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् । जैम्_4,4.2 ।
मध्यस्थं यस्य तन्मध्ये । जैम्_4,4.3 ।
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये । जैम्_4,4.4 ।
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् । जैम्_4,4.5 ।
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य । जैम्_4,4.6 ।
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् । जैम्_4,4.7 ।
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् । जैम्_4,4.8 ।
नित्यश् च ज्येष्ठशब्दात् । जैम्_4,4.9 ।
सार्वरूप्याच् च । जैम्_4,4.10 ।
नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य । जैम्_4,4.11 ।
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् । जैम्_4,4.12 ।
पक्षे वोत्पन्नसंयोगात् । जैम्_4,4.13 ।
षट्चितिः पूर्ववत्त्वात् । जैम्_4,4.14 ।
ताभिश् च तुल्यसंख्यानात् । जैम्_4,4.15 ।
अर्थवादोपपत्तेश् च । जैम्_4,4.16 ।
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन । जैम्_4,4.17 ।
विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् । जैम्_4,4.18 ।
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् । जैम्_4,4.19 ।
तुल्यवच् च प्रसङ्ख्यानात् । जैम्_4,4.20 ।
प्रतिषिद्धे च दर्शनात् । जैम्_4,4.21 ।
पश्वङ्ग रशमा स्यात् तदागमे विधानात् । जैम्_4,4.22 ।
यूपाङ्गं वा तत्संस्कारात् । जैम्_4,4.23 ।
अर्थवादश् च तदर्थवत् । जैम्_4,4.24 ।
स्वरुश्चाप्य् एकदेशत्वात् । जैम्_4,4.25 ।
निष्क्रयश् च तदङ्गवत् । जैम्_4,4.26 ।
पश्वङ्गं वार्थकर्मत्वात् । जैम्_4,4.27 ।
भक्त्या निष्क्रयवादः स्यात् । जैम्_4,4.28 ।
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् । जैम्_4,4.29 ।
अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः । जैम्_4,4.30 ।
मूल पाठ: Mīmāṃsāsūtra · Edition: B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0