भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र · भाग 2140

तथा चान्यार्थदर्शनम् । जैम्_4,4.31 ।
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् । जैम्_4,4.32 ।
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् । जैम्_4,4.33 ।
पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः । जैम्_4,4.34 ।
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते । जैम्_4,4.35 ।
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः । जैम्_4,4.36 ।
उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् । जैम्_4,4.37 ।
तथा चान्यार्थदर्शनम् । जैम्_4,4.38 ।
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् । जैम्_4,4.39 ।
गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् । जैम्_4,4.40 ।
तथा चान्यार्थदर्शनम् । जैम्_4,4.41 ।
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् । जैम्_5,1.1 ।
अर्थाच् च । जैम्_5,1.2 ।
अनियमो ऽन्यत्र । जैम्_5,1.3 ।
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् । जैम्_5,1.4 ।
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् । जैम्_5,1.5 ।
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत । जैम्_5,1.6 ।
तथा चान्यार्थदर्शनम् । जैम्_5,1.7 ।
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् । जैम्_5,1.8 ।
सर्वम् इति चेत् । जैम्_5,1.9 ।
नाकृतत्वात् । जैम्_5,1.10 ।
क्रत्वन्तरवद् इति चेत् । जैम्_5,1.11 ।
नासमवायात् । जैम्_5,1.12 ।
स्थानाच् चोत्पत्तिसंयोगात् । जैम्_5,1.13 ।
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् । जैम्_5,1.14 ।
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत । जैम्_5,1.15 ।
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः । जैम्_5,1.16 ।
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् । जैम्_5,1.17 ।
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति । जैम्_5,1.18 ।
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् । जैम्_5,1.19 ।
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् । जैम्_5,1.20 ।
कालोत्कर्ष इति चेत् । जैम्_5,1.21 ।
न तत्सम्बन्धात् । जैम्_5,1.22 ।
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् । जैम्_5,1.23 ।
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् । जैम्_5,1.24 ।
प्रवृत्या कृतकालानाम् । जैम्_5,1.25 ।
शब्दविप्रतिषेधाच् च । जैम्_5,1.26 ।
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. जैम्_5,1.27 ।
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् । जैम्_5,1.28 ।
तथापूर्वम् । जैम्_5,1.29 ।

सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् । जैम्_5,1.30 ।
अञ्यवायाच् च जैम्_5,1.31 ।
असम्बन्धात् तु नोत्कर्षेत् । जैम्_5,1.32 ।
प्रापणाच् च निमित्तस्य । जैम्_5,1.33 ।
सम्बन्धात् सवनोत्कर्मः । जैम्_5,1.34 ।
षोडशी चोक्थ्यसंयोगात् । जैम्_5,1.35 ।
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् । जैम्_5,2.1 ।
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् । जैम्_5,2.2 ।
कारणाद् अभ्यावृत्तिः । जैम्_5,2.3 ।
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन । जैम्_5,2.4 ।
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् । जैम्_5,2.5 ।
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् । जैम्_5,2.6 ।
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् । जैम्_5,2.7 ।
कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः । जैम्_5,2.8 ।
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः । जैम्_5,2.9 ।
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् । जैम्_5,2.10 ।
दैवतैर् वैककर्म्यात् । जैम्_5,2.11 ।
मन्त्रस्य चार्थवत्त्वात् । जैम्_5,2.12 ।
नानाबीजेष्वेकमुलूखलं विभवात् । जैम्_5,2.13 ।
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् । जैम्_5,2.14 ।
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् । जैम्_5,2.15 ।
विकारे त्व् अनूयाजानां पात्रभेदो ऽर्थभेदात् स्यात् । जैम्_5,2.16 ।
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् । जैम्_5,2.17 ।
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् । जैम्_5,2.18 ।
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् । जैम्_5,2.19 ।
तथा चान्यार्थदर्शनम् । जैम्_5,2.20 ।
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् । जैम्_5,2.21 ।
प्रकृताच् च पुरस्ताद् यत् । जैम्_5,2.22 ।
सन्निपातश् चेद् यथोक्तमन्ते स्यात् । जैम्_5,2.23 ।
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत । जैम्_5,3.1 ।
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत । जैम्_5,3.2 ।
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् । जैम्_5,3.3 ।
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् । जैम्_5,3.4 ।
तच्छब्दो वा । जैम्_5,3.5 ।
उष्णिक्ककुभोरन्ते दर्शनात् । जैम्_5,3.6 ।
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे । जैम्_5,3.7 ।
पर्यास इति चान्ताख्या । जैम्_5,3.8 ।
अन्ते वा तदुक्तम् । जैम्_5,3.9 ।
वचनात् तु द्वादशाहे । जैम्_5,3.10 ।
अतद्विकारश् च । जैम्_5,3.11 ।

तद्विकारे ऽप्य् अपूर्वत्वात् । जैम्_5,3.12 ।
अन्ते तूत्तरयोर् दध्यात् । जैम्_5,3.13 ।
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् । जैम्_5,3.14 ।
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् । जैम्_5,3.15 ।
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य । जैम्_5,3.16 ।
अन्ते स्युर् अव्यवायात् । जैम्_5,3.17 ।
लिङ्गदर्शनाच् च । जैम्_5,3.18 ।
मध्यमायां तु वचनाद् ब्राह्मणवत्यः । जैम्_5,3.19 ।
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् । जैम्_5,3.20 ।
संस्कृते कर्म संस्काराणां तदर्थत्वात् । जैम्_5,3.21 ।
अनन्तरं व्रतं तद्भूतत्वात् । जैम्_5,3.22 ।
पूर्वं च लिङ्गदर्शनात् । जैम्_5,3.23 ।
अर्थवादो वार्थस्य विद्यमानत्वात् । जैम्_5,3.24 ।
न्यायविप्रतिषेधाच् च । जैम्_5,3.25 ।
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य । जैम्_5,3.26 ।
क्रत्वन्ते वा प्रयोगवचनाभावात् । जैम्_5,3.27 ।
अग्नेः कर्मत्वनिर्देशात् । जैम्_5,3.28 ।
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् । जैम्_5,3.29 ।
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् । जैम्_5,3.30 ।
समाख्यानं च तद्वत् । जैम्_5,3.31 ।
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् । जैम्_5,3.32 ।
न वासम्बन्धात् । जैम्_5,3.33 ।
काम्यत्वाच् च । जैम्_5,3.34 ।
आनर्थक्यान् नेति चेत् । जैम्_5,3.35 ।
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् । जैम्_5,3.36 ।
य एतेनेत्य् अग्निष्टोमः प्रकरणात् । जैम्_5,3.37 ।
लिङ्गाच् च । जैम्_5,3.38 ।
अथान्येनेति संस्थानां सन्निधानात् । जैम्_5,3.39 ।
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते । जैम्_5,3.40 ।
प्रशसा च विहरणाभावात् । जैम्_5,3.41 ।
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् । जैम्_5,3.42 ।
एकस्तोमे वा क्रतुसंयोगात् । जैम्_5,3.43 ।
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् । जैम्_5,3.44 ।
क्रमकोयो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च । जैम्_5,4.1 ।
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् । जैम्_5,4.2 ।
यथारप्रदानं वा तदर्थत्वात् । जैम्_5,4.3 ।
लिङ्गदर्शनाच् च । जैम्_5,4.4 ।
वचनाद् इष्टिपूर्वत्वम् । जैम्_5,4.5 ।
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् । जैम्_5,4.6 ।
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं । जैम्_5,4.7 ।

अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् । जैम्_5,4.8 ।
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् । जैम्_5,4.9 ।
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् । जैम्_5,4.10 ।
पौर्णमासी वा श्रुतिसंयोगात् । जैम्_5,4.11 ।
सर्वस्य वैककर्म्यात् । जैम्_5,4.12 ।
स्याद् वा विधिस् तदर्थेन । जैम्_5,4.13 ।
प्रकरणात् तु कालः स्यात् । जैम्_5,4.14 ।
स्वकाले स्याद् अविप्रतिषेधात् । जैम्_5,4.15 ।
अपनयो वाधानस्य सर्वकालत्वात् । जैम्_5,4.16 ।
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् । जैम्_5,4.17 ।
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् । जैम्_5,4.18 ।
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् । जैम्_5,4.19 ।
आज्यमपीति चेत् । जैम्_5,4.20 ।
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् । जैम्_5,4.21 ।
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् । जैम्_5,4.22 ।
द्वैयहकाल्ये तु यथान्यायम् । जैम्_5,4.23 ।
वचनाद् वैककाल्यं स्यात् । जैम्_5,4.24 ।
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् । जैम्_5,4.25 ।
तथा सोमविकारा दर्शपूर्णमासाभ्याम् । जैम्_5,4.26 ।
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः । जैम्_6,1.1 ।
असाधकं तु तादर्थ्यात् । जैम्_6,1.2 ।
प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् । जैम्_6,1.3 ।
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् । जैम्_6,1.4 ।
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते । जैम्_6,1.5 ।
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः । जैम्_6,1.6 ।
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते । जैम्_6,1.7 ।
जातिं तु बादरायणो ऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् । जैम्_6,1.8 ।
चोदितत्वाद् यथाश्रुति । जैम्_6,1.9 ।
द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् । जैम्_6,1.10 ।
तथा चान्यार्थदर्शनम् । जैम्_6,1.11 ।
तादर्थ्यात् कर्म तादर्थ्यम् । जैम्_6,1.12 ।
फलोत्साहाविशेषात् तु । जैम्_6,1.13 ।
अर्थेन च समवेतत्वात् । जैम्_6,1.14 ।
क्रयस्य थर्ममात्रत्वम् । जैम्_6,1.15 ।
स्ववत्ताम् अपि दर्शयति । जैम्_6,1.16 ।
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् । जैम्_6,1.17 ।
लिङ्गदर्शनाच् च । जैम्_6,1.18 ।
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते । जैम्_6,1.19 ।
फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः । जैम्_6,1.20 ।
फलवत्तां च दर्शयति । जैम्_6,1.21 ।

द्व्याधानं च द्वियज्ञवत् । जैम्_6,1.22 ।
गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् । जैम्_6,1.23 ।
तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् । जैम्_6,1.24 ।
चातुर्वर्ण्यम् अविशेषात् । जैम्_6,1.25 ।
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः । जैम्_6,1.26 ।
निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् । जैम्_6,1.27 ।
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत । जैम्_6,1.28 ।
निर्देशात् तु पक्षे स्यात् । जैम्_6,1.29 ।
वैगुण्यान् नेति चेत् । जैम्_6,1.30 ।
न काम्यत्वात् । जैम्_6,1.31 ।
संस्कारे च तत्प्रधानत्वात् । जैम्_6,1.32 ।
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत । जैम्_6,1.33 ।
गुणार्थित्वान् नेति चेत् । जैम्_6,1.34 ।
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः । जैम्_6,1.35 ।
विद्यानिर्देशान् नेति चेत् । जैम्_6,1.36 ।
अबैद्यत्वाद् अभावः कर्मणि स्यात् । जैम्_6,1.37 ।
तथा चान्यार्थदर्शनम् । जैम्_6,1.38 ।
त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् । जैम्_6,1.39 ।
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः । जैम्_6,1.40 ।
अङ्गहीनश् च तद्धर्मा । जैम्_6,1.41 ।
उत्पत्तौ नित्यसंयोगात् । जैम्_6,1.42 ।
अत्र्यार्षेयस्य हानं स्यात् । जैम्_6,1.43 ।
वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात् । जैम्_6,1.44 ।
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् । जैम्_6,1.45 ।
अकर्मत्वात् तु नैवं स्यात् । जैम्_6,1.46 ।
आनर्थक्यं च संयोगात् । जैम्_6,1.47 ।
गुणार्थेनेति चेत् । जैम्_6,1.48 ।
उक्तम् अनिमित्तत्वम् । जैम्_6,1.49 ।
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् । जैम्_6,1.50 ।
रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् । जैम्_6,1.51 ।
लिङ्गदर्शनाच् च । जैम्_6,1.52 ।
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् । जैम्_6,2.1 ।
अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् । जैम्_6,2.2 ।
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् । जैम्_6,2.3 ।
प्रत्यर्थं श्रुतिभाव इति चेत् । जैम्_6,2.4 ।
तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् । जैम्_6,2.5 ।
अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् । जैम्_6,2.6 ।
अन्यस्य स्याद् इति चेत् । जैम्_6,2.7 ।
अन्यार्थेनाभिसम्बन्धः । जैम्_6,2.8 ।
फलकामो निमित्तम् इति चेत् । जैम्_6,2.9 ।

न नित्यत्वात् । जैम्_6,2.10 ।
कर्म तथेति चेत् । जैम्_6,2.11 ।
न समवायात् । जैम्_6,2.12 ।
प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् । जैम्_6,2.13 ।
फलार्थित्वाद् वानियमो यथानुपक्रान्ते । जैम्_6,2.14 ।
नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् । जैम्_6,2.15 ।
लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम् । जैम्_6,2.16 ।
अपराधे ऽपि च तैः शास्त्रम् । जैम्_6,2.17 ।
अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् । जैम्_6,2.18 ।
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् । जैम्_6,2.19 ।
शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर्
असमवायित्वात् तादर्थ्ये विध्यतिक्रमः । जैम्_6,2.20 ।
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् । जैम्_6,2.21 ।
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् । जैम्_6,2.22 ।
अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते । जैम्_6,2.23 ।
तस्मिन्न् असम्भवन्न् अर्थात् । जैम्_6,2.24 ।
न कालेभ्य उपदिश्यन्ते । जैम्_6,2.25 ।
दर्शनात् काललिङ्गानां कालविधानम् । जैम्_6,2.26 ।
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत । जैम्_6,2.27 ।
तथा हि लिङ्गदर्शनम् । जैम्_6,2.28 ।
तथान्तःक्रतुप्रयुक्तानि । जैम्_6,2.29 ।
आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् । जैम्_6,2.30 ।
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् । जैम्_6,2.31 ।
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् । जैम्_6,3.1 ।
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् । जैम्_6,3.2 ।
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् । जैम्_6,3.3 ।
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति । जैम्_6,3.4 ।
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु । जैम्_6,3.5 ।
विध्यपराधे च दर्शनात् समाप्तेः । जैम्_6,3.6 ।
प्रायश्चित्तविधानाच् च । जैम्_6,3.7 ।
काम्येषु चैवम् अर्थित्वात् । जैम्_6,3.8 ।
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् । जैम्_6,3.9 ।
अकर्मणि चाप्रत्यवायात् । जैम्_6,3.10 ।
क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् । जैम्_6,3.11 ।
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् । जैम्_6,3.12 ।
श्रुतिप्रमाणत्वाच् छिष्टाभावे ऽनागमो ऽन्यस्याशिष्टत्वात् । जैम्_6,3.13 ।
क्वचिद् विधानाच् च । जैम्_6,3.14 ।
आगमो वा चोदनार्थाविशेषात् । जैम्_6,3.15 ।
नियमार्थः क्वाचिद् विधिः । जैम्_6,3.16 ।
तन् नित्यं तच्चिकीर्षा हि । जैम्_6,3.17 ।

न देवताग्निशब्दक्रियमन्यार्थसंयोगात् । जैम्_6,3.18 ।
देवतायां च तदर्थत्वात् । जैम्_6,3.19 ।
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः । जैम्_6,3.20 ।
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् । जैम्_6,3.21 ।
बहूनां तु प्रवृत्ते ऽन्यमागमयेद् अवैगुण्यात् । जैम्_6,3.22 ।
स स्वामी स्यात् संयोगात् । जैम्_6,3.23 ।
कर्मकरो वा भृतत्वात् । जैम्_6,3.24 ।
तस्मिंश् च फलदर्शनात् । जैम्_6,3.25 ।
स तद्धर्मा स्यात् कर्मसंयोगात् । जैम्_6,3.26 ।
सामान्यं तच्चिकीर्षा हि । जैम्_6,3.27 ।
निर्देशात् तु विकल्पे यत् प्रवृत्तम् । जैम्_6,3.28 ।
अशब्दम् इति चेत् । जैम्_6,3.29 ।
नानङ्गत्वात् । जैम्_6,3.30 ।
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य । जैम्_6,3.31 ।
न प्रतिनिधौ समत्वात् । जैम्_6,3.32 ।
स्याच् छ्रुतिलक्षणे नियतत्वात् । जैम्_6,3.33 ।
न तदीप्सा हि । जैम्_6,3.34 ।
मुख्याधिगमे मुख्यम् आगमो हि तदभावात् । जैम्_6,3.35 ।
प्रबृत्ते ऽपीति चेत् । जैम्_6,3.36 ।
नानर्थकत्वात् । जैम्_6,3.37 ।
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् । जैम्_6,3.38 ।
अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् । जैम्_6,3.39 ।
विधिर् अप्य् एकदेशे स्यात् । जैम्_6,3.40 ।
अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् । जैम्_6,3.41 ।
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् । जैम्_6,4.1 ।
निर्देशाद् वान्यद् आगमयेत् । जैम्_6,4.2 ।
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् । जैम्_6,4.3 ।
निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् । जैम्_6,4.4 ।
सर्वैर् वा समवायात् स्यात् । जैम्_6,4.5 ।
निर्देशस्य गुणार्थत्वम् । जैम्_6,4.6 ।
प्रधाने श्रुतिलक्षणम् । जैम्_6,4.7 ।
अर्थवद् इति चेत् । जैम्_6,4.8 ।
न चोदनाविरोधात् । जैम्_6,4.9 ।
अर्थसमवायत् प्रायश्चित्तम् एकदेशे ऽपि । जैम्_6,4.10 ।
न त्व् अशेषे वैगुण्यात् तदर्थं हि । जैम्_6,4.11 ।
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् । जैम्_6,4.12 ।
गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् । जैम्_6,4.13 ।
भेदार्थम् इति । जैम्_6,4.14 ।
न शेषभूतत्वात् । जैम्_6,4.15 ।
अनर्थकश् च सर्वनाशे स्यात् । जैम्_6,4.16 ।

क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् । जैम्_6,4.17 ।
दर्शनाद् एकदेशे स्यात् । जैम्_6,4.18 ।
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः । जैम्_6,4.19 ।
तद्धविःशब्दान् नेति चेत् । जैम्_6,4.20 ।
स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् । जैम्_6,4.21 ।
यथाश्रुतीति चेत् । जैम्_6,4.22 ।
न तल्लक्षणत्वाद् उपपातो हि कारणम् । जैम्_6,4.23 ।
होमाभिषवभक्षणं च तद्वत् । जैम्_6,4.24 ।
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् । जैम्_6,4.25 ।
पुनर् आधेयम् ओदनवत् । जैम्_6,4.26 ।
द्रव्योत्पत्तेर् वोभयोः स्यात् । जैम्_6,4.27 ।
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् । जैम्_6,4.28 ।
चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि । जैम्_6,4.29 ।
स प्रत्यामनेत् स्थानात् । जैम्_6,4.30 ।
अङ्गविधिर् वा निमित्तसंयोगात् । जैम्_6,4.31 ।
विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् । जैम्_6,4.32 ।
निष्क्रयवादाच् च । जैम्_6,4.33 ।
वत्ससंयोगे व्रतचोदना स्यात् । जैम्_6,4.34 ।
कालो वोत्पन्नसंयोगाद् यथोक्तस्य । जैम्_6,4.35 ।
अर्थापरिमाणाच् च । जैम्_6,4.36 ।
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् । जैम्_6,4.37 ।
कालस् तु स्याद् अचोदनात् । जैम्_6,4.38 ।
अनर्थकश् च कर्मसंयोगे । जैम्_6,4.39 ।
अवचनाच् च स्वशब्दस्य । जैम्_6,4.40 ।
कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् । जैम्_6,4.41 ।
कालार्थत्वाद् वोभयोः प्रतीयेत । जैम्_6,4.42 ।
प्रस्तरे शाखाश्रयणवत् । जैम्_6,4.43 ।
कालविधिर् वोभयोर् विद्यामानत्वात् । जैम्_6,4.44 ।
अतत्संस्कारार्थत्वाच् च । जैम्_6,4.45 ।
तस्माच् च विप्रयोगे स्यात् । जैम्_6,4.46 ।
उपवेषश् च पक्षे स्यात् । जैम्_6,4.47 ।
अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे । जैम्_6,5.1 ।
अपनयो वा विद्यानत्वात् । जैम्_6,5.2 ।
तद्रूपत्वाच् च शब्दानाम् । जैम्_6,5.3 ।
आतञ्चनाभ्यासस्य दर्शनात् । जैम्_6,5.4 ।
अपूर्वत्वाद् विधानं स्यात् । जैम्_6,5.5 ।
पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् । जैम्_6,5.6 ।
सान्नाय्यो ऽपि तथेति चेत् । जैम्_6,5.7 ।
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् । जैम्_6,5.8 ।
लक्षणार्थाश्रुतिः । जैम्_6,5.9 ।

उपांशुयाजे ऽवचनाद् यथाप्रकृति । जैम्_6,5.10 ।
अपनयो वा प्रवृत्या यथेतरेषाम् । जैम्_6,5.11 ।
निरुप्ते स्यात् तत्संयोगात् । जैम्_6,5.12 ।
प्रवृत्ते वा प्रापणान् निमित्तस्य । जैम्_6,5.13 ।
लक्षणमात्रम् इतरत् । जैम्_6,5.14 ।
तथा चान्यार्थदर्शनम् । जैम्_6,5.15 ।
अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् । जैम्_6,5.16 ।
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य । जैम्_6,5.17 ।
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् । जैम्_6,5.18 ।
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् । जैम्_6,5.19 ।
अभावाच् चेतरस्य स्यात् । जैम्_6,5.20 ।
सान्नाय्यसंयोगान् नासन्नायतः स्यात् । जैम्_6,5.21 ।
औषधसंयोगाद् वोभयोः । जैम्_6,5.22 ।
वैगुण्यान् नेति चेत् । जैम्_6,5.23 ।
नातत्संस्कारत्वात् । जैम्_6,5.24 ।
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् । जैम्_6,5.25 ।
प्रवृते वा प्रापणान् निमित्तस्य । जैम्_6,5.26 ।
आदेशार्थेतरा श्रुतिः । जैम्_6,5.27 ।
दीक्षापरिमाणे यथाकाम्यविशेषात् । जैम्_6,5.28 ।
द्वादशाहस् तु लिङ्गात् स्यात् । जैम्_6,5.29 ।
पौर्णमास्याम् अनियमो ऽविशेषात् । जैम्_6,5.30 ।
आनन्तर्यात् तु चैत्री स्यात् । जैम्_6,5.31 ।
माघी वैकाष्टकाश्रुतेः । जैम्_6,5.32 ।
अन्या अपीति चेत् । जैम्_6,5.33 ।
न भक्तित्वाद् एषा हि लोके । जैम्_6,5.34 ।
दीक्षापराधे चानुग्रहात् । जैम्_6,5.35 ।
उत्थाने चानुप्ररोहात् । जैम्_6,5.36 ।
अस्यां च सर्वलिङ्गानि । जैम्_6,5.37 ।
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् । जैम्_6,5.38 ।
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् । जैम्_6,5.39 ।
तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् । जैम्_6,5.40 ।
कालप्राधान्याच् च । जैम्_6,5.41 ।
प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे । जैम्_6,5.42 ।
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् । जैम्_6,5.43 ।
प्रातस् तु षोडशिनि । जैम्_6,5.44 ।
प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् । जैम्_6,5.45 ।
प्रकरणे वा शब्दहेतुत्वात् । जैम्_6,5.46 ।
अतिद्विकारश् च । जैम्_6,5.47 ।
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत । जैम्_6,5.48 ।
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते । जैम्_6,5.49 ।

स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् । जैम्_6,5.50 ।
तत्र विप्रतिषेधाद् विकल्पः स्यात् । जैम्_6,5.51 ।
प्रयोगान्तरे वोभयानुग्रहः स्यात् । जैम्_6,5.52 ।
न चैकसंयोगात् । जैम्_6,5.53 ।
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् । जैम्_6,5.54 ।
यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् । जैम्_6,5.55 ।
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् । जैम्_6,5.56 ।
सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् । जैम्_6,6.1 ।
वचनाद् वाशिरोवत्स्यात् । जैम्_6,6.2 ।
न वानारभ्यवादत्वात् । जैम्_6,6.3 ।
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् । जैम्_6,6.4 ।
न तत्प्रधानत्वात् । जैम्_6,6.5 ।
औदुम्बर्याः परार्थत्वात् कपालवत् । जैम्_6,6.6 ।
अन्येनापीति चेत् । जैम्_6,6.7 ।
नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् । जैम्_6,6.8 ।
सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये । जैम्_6,6.9 ।
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् । जैम्_6,6.10 ।
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् । जैम्_6,6.11 ।
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् । जैम्_6,6.12 ।
अर्थाभावात् तु नैवं स्यात् । जैम्_6,6.13 ।
अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः । जैम्_6,6.14 ।
प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत । जैम्_6,6.15 ।
सत्राणि सर्ववर्णामाम् अविशेषात् । जैम्_6,6.16 ।
लिङ्गदर्शनाच् च । जैम्_6,6.17 ।
ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् । जैम्_6,6.18 ।
वचनाद् इति चेत् । जैम्_6,6.19 ।
न स्वामित्वं हि विधीयते । जैम्_6,6.20 ।
गार्हपते वा स्याताम् अविप्रतिषेधात् । जैम्_6,6.21 ।
न वा कल्पविरोधात् । जैम्_6,6.22 ।
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् । जैम्_6,6.23 ।
वासिष्ठानां वा ब्रह्मत्वनियमात् । जैम्_6,6.24 ।
सर्वेषां वा प्रतिप्रसवात् । जैम्_6,6.25 ।
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः । जैम्_6,6.26 ।
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् । जैम्_6,6.27 ।
सारस्वते च दर्शनात् । जैम्_6,6.28 ।
प्रायश्चित्तविधानाच् च । जैम्_6,6.29 ।
साग्नीनां वेष्टिपूर्वत्वात् । जैम्_6,6.30 ।
स्वार्थेन च प्रयुक्तत्वात् । जैम्_6,6.31 ।
सन्निवापं च दर्शयति । जैम्_6,6.32 ।
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत । जैम्_6,6.33 ।

अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् । जैम्_6,6.34 ।
प्रायश्चित्तम् आपदि स्यात् । जैम्_6,6.35 ।
पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् । जैम्_6,6.36 ।
लिङ्गाच् चेज्याविशेषवत् । जैम्_6,6.37 ।
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना । जैम्_6,6.38 ।
इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत । जैम्_6,6.39 ।
स्वदाने सर्वम् अविशेषात् । जैम्_6,7.1 ।
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् । जैम्_6,7.2 ।
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । जैम्_6,7.3 ।
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् । जैम्_6,7.4 ।
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः । जैम्_6,7.5 ।
शूद्रश् च धर्मशास्त्रत्वात् । जैम्_6,7.6 ।
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् । जैम्_6,7.7 ।
अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् । जैम्_6,7.8 ।
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् । जैम्_6,7.9 ।
तथा चान्यार्थदर्शनम् । जैम्_6,7.10 ।
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् । जैम्_6,7.11 ।
नादानस्यानित्यत्वात् । जैम्_6,7.12 ।
दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् । जैम्_6,7.13 ।
अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् । जैम्_6,7.14 ।
द्वादशशतं वा प्रकृतिवत् । जैम्_6,7.15 ।
अतद्गुणत्वात् नैवं स्यात् । जैम्_6,7.16 ।
लिङ्गदर्शनाच् च । जैम्_6,7.17 ।
विकारः सन्न् उभयतो ऽविशेषात् । जैम्_6,7.18 ।
अधिकं वा प्रतिप्रसवात् । जैम्_6,7.19 ।
अनुग्रहाच् च पादवत् । जैम्_6,7.20 ।
अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् । जैम्_6,7.21 ।
कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् । जैम्_6,7.22 ।
अनियमो ऽविशेषात् । जैम्_6,7.23 ।
अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् । जैम्_6,7.24 ।
अर्थवादश् च तदर्थवत् । जैम्_6,7.25 ।
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् । जैम्_6,7.26 ।
तद्युक्ते च प्रतिषेधात् । जैम्_6,7.27 ।
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् । जैम्_6,7.28 ।
विधौ तु वेदसंयोगाद् उपदेशः स्यात् । जैम्_6,7.29 ।
अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् । जैम्_6,7.30 ।
सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु । जैम्_6,7.31 ।
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् । जैम्_6,7.32 ।
नासामर्थ्यात् । जैम्_6,7.33 ।
सम्बन्धादर्शनात् । जैम्_6,7.34 ।

स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् । जैम्_6,7.35 ।
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् । जैम्_6,7.36 ।
विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः । जैम्_6,7.37 ।
संवत्सरो विचालित्वात् । जैम्_6,7.38 ।
सा प्रकृतिः स्याद् अधिकारात् । जैम्_6,7.39 ।
अहानि वाभिसंख्यत्वात् । जैम्_6,7.40 ।
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वो ऽप्य् आधानस्य सर्वशेषत्वात् । जैम्_6,8.1 ।
इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति । जैम्_6,8.2 ।
उपदेशस् त्व् अपूर्वत्वात् । जैम्_6,8.3 ।
स सर्वेषाम् अविशेषात् । जैम्_6,8.4 ।
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः । जैम्_6,8.5 ।
जपो वानग्निसंयोगात् । जैम्_6,8.6 ।
इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् । जैम्_6,8.7 ।
उभयोः पितृयज्ञवत् । जैम्_6,8.8 ।
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् । जैम्_6,8.9 ।
पितृयज्ञे संयुक्तस्य पुनर् वचनम् । जैम्_6,8.10 ।
उपनयन्न् आदधीत होमसंयोगात् । जैम्_6,8.11 ।
स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् । जैम्_6,8.12 ।
आधानं च भार्यासंयुक्तम् । जैम्_6,8.13 ।
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः । जैम्_6,8.14 ।
श्राद्धवद् इति चेत् । जैम्_6,8.15 ।
न श्रुतिविप्रतिषेधात् । जैम्_6,8.16 ।
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् । जैम्_6,8.17 ।
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् । जैम्_6,8.18 ।
पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत । जैम्_6,8.19 ।
स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत । जैम्_6,8.20 ।
अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् । जैम्_6,8.21 ।
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् । जैम्_6,8.22 ।
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् । जैम्_6,8.23 ।
अहनि च कर्मसाकल्यम् । जैम्_6,8.24 ।
इतरेषु तु पित्र्याणि । जैम्_6,8.25 ।
याच्ञाक्रयणम् अविद्यमाने लोकवत् । जैम्_6,8.26 ।
नियतं वार्थवत्वात् स्यात् । जैम्_6,8.27 ।
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् । जैम्_6,8.28 ।
अनर्थकं त्व् अनित्यं स्यात् । जैम्_6,8.29 ।
पशुचोदनायाम् अनियमो ऽविशेषात् । जैम्_6,8.30 ।
छागो वा मन्त्रवर्णात् । जैम्_6,8.31 ।
न चोदनाविरोधात् । जैम्_6,8.32 ।
आर्षेयवद् इति चेत् । जैम्_6,8.33 ।
न तत्र ह्य् अचोदित्वात् । जैम्_6,8.34 ।

नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् । जैम्_6,8.35 ।
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् । जैम्_6,8.36 ।
रूपाल् लिङ्गाच् च । जैम्_6,8.37 ।
छागे न कर्माख्या रूपलिङ्गाभ्याम् । जैम्_6,8.38 ।
रूपान्यत्वान् न जातिशब्दः स्यात् । जैम्_6,8.39 ।
विकारो नौत्पत्तिकत्वात् । जैम्_6,8.40 ।
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् । जैम्_6,8.41 ।
जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् । जैम्_6,8.42 ।
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् । जैम्_7,1.1 ।
उत्पत्त्यर्थाविभागाद् वा सत्त्ववद् ऐकधर्म्यं स्यात् । जैम्_7,1.2 ।
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् । जैम्_7,1.3 ।
सत्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत । जैम्_7,1.4 ।
अविभागात् तु नैवं स्यात् । जैम्_7,1.5 ।
द्व्यर्थत्वं च विप्रतिषिद्धम् । जैम्_7,1.6 ।
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् । जैम्_7,1.7 ।
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् । जैम्_7,1.8 ।
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् । जैम्_7,1.9 ।
स्मृतिर् इति चेत् । जैम्_7,1.10 ।
न पूर्ववत्वात् । जैम्_7,1.11 ।
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् । जैम्_7,1.12 ।
सामाने पूर्ववत्वाद् उत्पन्नाधिकारः स्यात् । जैम्_7,1.13 ।
श्येनस्येति चेति । जैम्_7,1.14 ।
नासन्निधानात् । जैम्_7,1.15 ।
अपि वा यद्य् अपूर्वत्वाद् इतरदधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् । जैम्_7,1.16 ।
पञ्चसञ्चरेष्व् अर्थवादातिदेशः सन्निधानात् । जैम्_7,1.17 ।
सर्वस्य वैकशब्द्यात् । जैम्_7,1.18 ।
लिङ्गदर्शनाच् च । जैम्_7,1.19 ।
विहिताम्नानान् नेति चेत् । जैम्_7,1.20 ।
नेतरार्थत्वात् । जैम्_7,1.21 ।
एककपालैन्द्राग्नौ च तद्वत् । जैम्_7,1.22 ।
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् । जैम्_7,1.23 ।
साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् । जैम्_7,2.1 ।
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसम्बन्धः । जैम्_7,2.2 ।
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् । जैम्_7,2.3 ।
शब्दमात्रम् इति चेत् । जैम्_7,2.4 ।
नौत्पत्तिकत्वात् । जैम्_7,2.5 ।
शास्त्रं चैवम् अनर्थकं स्यात् । जैम्_7,2.6 ।
स्वरस्येति चेत् । जैम्_7,2.7 ।
नार्थाभावाच् छ्रुतेर् असंबन्धः । जैम्_7,2.8 ।
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् । जैम्_7,2.9 ।

लिङ्गदर्शनाच् च । जैम्_7,2.10 ।
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति । जैम्_7,2.11 ।
शब्दानां चासामञ्जस्यम् । जैम्_7,2.12 ।
अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः । जैम्_7,2.13 ।
अद्रव्यं चापि दृश्यते । जैम्_7,2.14 ।
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् । जैम्_7,2.15 ।
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् । जैम्_7,2.16 ।
योनिशस्याश् च तुल्यवद् इतराभिर् विधीयन्ते । जैम्_7,2.17 ।
अयोनौ चापि दृश्यते ऽतथायोनि । जैम्_7,2.18 ।
ऐकार्थ्ये नास्ति वैरूप्यम् इति चेत् । जैम्_7,2.19 ।
स्याद् अर्थान्तरेष्व् अनिष्पत्तेर् यथा पाके । जैम्_7,2.20 ।
शब्दानां च सामञ्जस्यं । जैम्_7,2.21 ।
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्यात् । जैम्_7,3.1 ।
अपूर्वे वापि भागित्वात् । जैम्_7,3.2 ।
नाम्नस् त्व् औत्पत्तिकत्वात् । जैम्_7,3.3 ।
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् । जैम्_7,3.4 ।
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् । जैम्_7,3.5 ।
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः । जैम्_7,3.6 ।
षडहाद् वा तत्र हि चोदना । जैम्_7,3.7 ।
लिङ्गाच् च । जैम्_7,3.8 ।
उत्पन्नाधिकारो ज्योतिष्टोमः । जैम्_7,3.9 ।
द्वयोर् विधिर् इति चेत् । जैम्_7,3.10 ।
न व्यर्थत्वात् सर्वशब्दस्य । जैम्_7,3.11 ।
तथावभृथः सोमात् । जैम्_7,3.12 ।
प्रकृतेर् इति चेत् । जैम्_7,3.13 ।
न भक्तित्वात् । जैम्_7,3.14 ।
लिङ्गदर्शनाच् च । जैम्_7,3.15 ।
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् । जैम्_7,3.16 ।
गुणविधिस् तु न गृह्णीयात् समत्वात् । जैम्_7,3.17 ।
निर्मन्थ्यादिषु चैवम् । जैम्_7,3.18 ।
प्रणयनं तु सौमिकम् अवाच्यं हीतरत् । जैम्_7,3.19 ।
उत्तरवेदिप्रतिषेधश् च तद्वत् । जैम्_7,3.20 ।
प्राकृतं वानामत्वात् । जैम्_7,3.21 ।
परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा । जैम्_7,3.22 ।
प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् । जैम्_7,3.23 ।
मध्यमयोर् वा गत्यर्थवादात् । जैम्_7,3.24 ।
औत्तरवेदिको ऽनारभ्यवादप्रतिषेधः । जैम्_7,3.25 ।
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् । जैम्_7,3.26 ।
चोदनासामान्याद् वा । जैम्_7,3.27 ।
कर्मजे कर्म यूपवत् । जैम्_7,3.28 ।

रूपं वाशेषभूतत्वात् । जैम्_7,3.29 ।
विशये लौकिकः स्यात् सर्वार्थत्वात् । जैम्_7,3.30 ।
न वैदिकम् अर्थनिर्देशात् । जैम्_7,3.31 ।
तथोत्पत्तिर् इतरेषां समत्वात् । जैम्_7,3.32 ।
संस्कृतं स्यात् तच्छब्दत्वात् । जैम्_7,3.33 ।
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् । जैम्_7,3.34 ।
कर्मणः पृष्टशब्दः स्यात् तथाभूतोपदेशात् । जैम्_7,3.35 ।
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् । जैम्_7,3.36 ।
इतिकर्तव्यता विधेर् यजतेः पूर्ववत्त्वम् । जैम्_7,4.1 ।
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् । जैम्_7,4.2 ।
वचनात् तु ततो ऽन्यत्वम् । जैम्_7,4.3 ।
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् । जैम्_7,4.4 ।
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः । जैम्_7,4.5 ।
मिथो विप्रतिषेधाच् च गुणानां यथार्थतल्पना स्यात् । जैम्_7,4.6 ।
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात् सम्बन्धाद् अभिधानवद् यथा धेनुः किशोरेण । जैम्_7,4.7 ।
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् । जैम्_7,4.8 ।
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् । जैम्_7,4.9 ।
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् । जैम्_7,4.10 ।
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् । जैम्_7,4.11 ।
लिङ्गस्य पूर्ववत्तवाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलाकेन । जैम्_7,4.12 ।
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् । जैम्_7,4.13 ।
लिङ्गाच् च । जैम्_7,4.14 ।
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् । जैम्_7,4.15 ।
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् । जैम्_7,4.16 ।
न वार्थधर्मत्वात् संघातस्य गुणत्वात् । जैम्_7,4.17 ।
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात् । जैम्_7,4.18 ।
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् । जैम्_7,4.19 ।
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् । जैम्_7,4.20 ।
अथ विशेषलक्षणम् । जैम्_8,1.1 ।
यस्य लिङ्गम् अर्थसंयोगाद् अभिधानवत् । जैम्_8,1.2 ।
प्रवृत्तित्वाद् इष्टेः सोमे प्रवृत्तिः स्यात् । जैम्_8,1.3 ।
लिङ्गदर्शनाच् च । जैम्_8,1.4 ।
कृत्स्वविधानाद् वापूर्वत्वम् । जैम्_8,1.5 ।
स्रुगभिघारणाभावस्य च नित्यानुवादात् । जैम्_8,1.6 ।
विधिर् इति चेत् । जैम्_8,1.7 ।
न वाक्यशेषत्वात् । जैम्_8,1.8 ।
शङ्कतेचानुपोषणात् । जैम्_8,1.9 ।
दर्शनम् ऐष्टिकानां स्यात् । जैम्_8,1.10 ।
इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् । जैम्_8,1.11 ।
पशौ च लिङ्गदर्शनात् । जैम्_8,1.12 ।

दैक्षस्य चेतरेषु । जैम्_8,1.13 ।
ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् । जैम्_8,1.14 ।
तत्प्रवृत्तिर् गणेषु स्यात् प्रतिपशु यूपदर्शनात् । जैम्_8,1.15 ।
अव्यक्तासु तु सोमस्य । जैम्_8,1.16 ।
गणेषु द्वादशाहस्य । जैम्_8,1.17 ।
गव्यस्य च तदादिषु । जैम्_8,1.18 ।
निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् । जैम्_8,1.19 ।
कर्मणस् त्व् अप्रवृत्तित्वात् फलनियमकर्तृ समुदायस्यानन्वयस् तद्बन्धनत्वात् । जैम्_8,1.20 ।
प्रवृत्तौ चापि तादर्थ्यात् । जैम्_8,1.21 ।
अश्रुतित्वाच् च । जैम्_8,1.22 ।
गुणकामेष्व् आश्रितत्वात् प्रवृत्तिः स्यात् । जैम्_8,1.23 ।
निवृत्तिर् वा कर्मभेदात् । जैम्_8,1.24 ।
अपि वातद्विकारत्वात् क्रत्वर्थत्वात् प्रवृत्तिः स्यात् । जैम्_8,1.25 ।
एककर्मणि विकल्पो ऽविभागो हि चोदनैकत्वात् । जैम्_8,1.26 ।
लिङ्गसाधारण्याद् विकल्पः स्यात् । जैम्_8,1.27 ।
ऐकार्थ्याद् वा नियम्येत पूर्ववत्त्वाद् विकारो हि । जैम्_8,1.28 ।
अश्रुतित्वान् नेति चेत् । जैम्_8,1.29 ।
स्याल् लिङ्गभावात् । जैम्_8,1.30 ।
तथा चान्यार्थदर्शनम् । जैम्_8,1.31 ।
विप्रतिपत्तौ हविषा नियम्येत कर्मणस् तदुपाख्यत्वात् । जैम्_8,1.32 ।
तेन च कर्मसंयोगात् । जैम्_8,1.33 ।
गुणत्वेन देवताश्रुतिः । जैम्_8,1.34 ।
हिरण्यम् आज्यधर्मस् तेजस्त्वात् । जैम्_8,1.35 ।
धर्मानुग्रहाच् च । जैम्_8,1.36 ।
औषधं वा विशदत्वात् । जैम्_8,1.37 ।
चरुशब्दाच् च । जैम्_8,1.38 ।
तस्मिंश् च श्रपणश्रुतेः । जैम्_8,1.39 ।
मधूदके द्रव्यसामान्यात् पयोविकारः स्यात् । जैम्_8,1.40 ।
आज्यं वा वर्णसामान्यात् । जैम्_8,1.41 ।
धर्मानुग्रहाच् च । जैम्_8,1.42 ।
पूर्वस्य चाविशिष्टत्वात् । जैम्_8,1.43 ।
वाजिने सोमपूर्वत्वं सौत्रामण्याञ् च ग्रहेषु ताच्छब्द्यात् । जैम्_8,2.1 ।
अनुवषट्कारच् च । जैम्_8,2.2 ।
समुपहूय भक्षणाच् च । जैम्_8,2.3 ।
क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ् च तद्वत् । जैम्_8,2.4 ।
हविषा वा नियम्येत तद्विकारत्वात् । जैम्_8,2.5 ।
प्रशंसा सोमशब्दः । जैम्_8,2.6 ।
वचनानीतराणि । जैम्_8,2.7 ।
व्यपदेशश् च तद्वत् । जैम्_8,2.8 ।
पशुपुरोडाशस्य च लिङ्गदर्शनम् । जैम्_8,2.9 ।

पशुः पुरोडाशविकारः स्याद् देवतासामान्यात् । जैम्_8,2.10 ।
प्रोक्षणातच् च । जैम्_8,2.11 ।
पर्यग्निकरणाच् च । जैम्_8,2.12 ।
सान्नाय्यं वा तत्प्रभवत्वात् । जैम्_8,2.13 ।
तस्य च पात्रदर्शनात् । जैम्_8,2.14 ।
दध्नः स्यान् मूर्तिसामान्यात् । जैम्_8,2.15 ।
पयो वा कालसामान्यात् । जैम्_8,2.16 ।
पश्वानन्तर्यात् । जैम्_8,2.17 ।
द्रवत्वं चाविशिष्टम् । जैम्_8,2.18 ।
आमिक्षोभयभाव्यत्वाद् उभयविकारः स्यात् । जैम्_8,2.19 ।
एकं वा चोदनैकत्वात् । जैम्_8,2.20 ।
दधिसंघातसामान्यात् । जैम्_8,2.21 ।
पयो वा तत्प्रधानत्वाल् लोकवद् दध्नस् तदर्थत्वात् । जैम्_8,2.22 ।
धर्मानुग्रहाच् च । जैम्_8,2.23 ।
सत्रमहीनश् च द्वादशाहस् तस्योभयथा प्रवृत्तिर् ऐककर्म्यात् । जैम्_8,2.24 ।
अपि वा यजतिश्रुतेर् अहीनभूतप्रवृत्तिः स्यात् प्रकृत्या तुल्य शब्दत्वात् । जैम्_8,2.25 ।
द्विरात्रादीनाम् एकादशरात्राद् अहीनत्वं यजतिचोदनात् । जैम्_8,2.26 ।
त्रयोदशरात्रादिषु सत्रभूतस् तेष्व् आसनोपायिचोदनात् । जैम्_8,2.27 ।
लिङ्गाच् च । जैम्_8,2.28 ।
अन्यतरतो ऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च तद्भूतेष्व् अहीनत्वस्य दर्शनात् । जैम्_8,2.29 ।
अहीनवचनाच् च । जैम्_8,2.30 ।
सत्रे वोपायिचोदनात् । जैम्_8,2.31 ।
सत्रलिङ्गञ् च दर्शयति । जैम्_8,2.32 ।
हविर्गणे परमुत्तरस्य देशसामान्यात् । जैम्_8,3.1 ।
देवतया वा नियम्येत शब्दत्त्वाद् इतरस्याश्रुतित्वात् । जैम्_8,3.2 ।
गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् । जैम्_8,3.3 ।
नानाहानि वा संघातत्वात् प्रवृत्तिलिङ्गेन चोदनात् । जैम्_8,3.4 ।
तथा चान्यार्थदर्शनम् । जैम्_8,3.5 ।
कालाभ्यासे ऽपि बादरिः कर्मभेदात् । जैम्_8,3.6 ।
तदावृत्तिं तु जैमिनिर् अह्नाम् अप्रत्यक्षसंख्यत्वात् । जैम्_8,3.7 ।
संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् । जैम्_8,3.8 ।
अधिकाराद् वा प्रकृतिस् तद्विशिष्टा स्याद् अभिधानस्य तन्निमित्तत्वात् । जैम्_8,3.9 ।
गणाद् उपचयस् तत्प्रकृतित्वात् । जैम्_8,3.10 ।
एकाहाद् वा तेषां समत्वात्स्यात् । जैम्_8,3.11 ।
गायत्रीषु प्राकृतीनाम् अवच्छेदः प्रकृत्याधिकारात् संख्यात्वाद् अग्निष्टोमवद् अव्यतिरेकात् तदाख्यत्वम् । जैम्_8,3.12 ।
तन् नित्यवच् च प्रथक्सतीषु तद्वचनम् । जैम्_8,3.13 ।
न विंशतौ दशेति चेत् । जैम्_8,3.14 ।
ऐकसंख्यम् एव स्यात् । जैम्_8,3.15 ।
गुणाद् वा द्रव्यशब्दः स्याद् असर्वविषयत्वात् । जैम्_8,3.16 ।
गोत्ववच् च समन्वयः । जैम्_8,3.17 ।

संख्यायाश् च शब्दत्वात् । जैम्_8,3.18 ।
इतरस्याश्रुतित्वाच् च । जैम्_8,3.19 ।
द्रव्यान्तरे ऽनिवेशाद् उक्थ्यलोपैर् विशिष्टं स्यात् । जैम्_8,3.20 ।
अशास्त्रलक्षणत्वाच् च । जैम्_8,3.21 ।
उत्पत्तिनामधेयत्वाद् भत्तया पृथक्सतीषु स्यात् । जैम्_8,3.22 ।
वचनमिति चेत् । जैम्_8,3.23 ।
यावद् उक्तम् । जैम्_8,3.24 ।
अपूर्वे च विकल्पः स्याद् यदि संख्याविधानम् । जैम्_8,3.25 ।
ऋग्गुणत्वान् नेति चेत् । जैम्_8,3.26 ।
तथा पूर्ववति स्यात् । जैम्_8,3.27 ।
गुणावेशश् च सर्वत्र । जैम्_8,3.28 ।
निष्पन्नग्रहणान् नेति चेत् । जैम्_8,3.29 ।
तथेहापिस्यात् । जैम्_8,3.30 ।
यदि वाविशये नियमः प्रकृत्युपबन्धाच् छरेष्व् अपि प्रसिद्धः स्यात् । जैम्_8,3.31 ।
दृष्टः प्रयोग इतिचेत् । जैम्_8,3.32 ।
तथा शरेष्व् अपि । जैम्_8,3.33 ।
भत्तयेति चेत् । जैम्_8,3.34 ।
तथेतरस्मिन् । जैम्_8,3.35 ।
अर्थस्य चासमाप्तत्वान् न तासाम् एकदेशे स्यात् । जैम्_8,3.36 ।
दर्विहोमो यज्ञाभिधानं होमसंयोगात् । जैम्_8,4.1 ।
स लौकिकानां स्यात् कर्तुस् तदाख्यत्वात् । जैम्_8,4.2 ।
सर्वेषां वा दर्शनाद् वास्तुहोमे । जैम्_8,4.3 ।
जुहोतिचोदनानां वा तत्संयोगात् । जैम्_8,4.4 ।
द्रव्योपदेशाद् वा गुणाभिधानं स्यात् । जैम्_8,4.5 ।
न लौकिकानाम् आचारग्रहणत्वाच् छब्दवतां चान्यार्थविधानात् । जैम्_8,4.6 ।
दर्शनाच् चान्यपात्रस्य । जैम्_8,4.7 ।
तथाग्निहविषोः । जैम्_8,4.8 ।
उक्तश् चार्थसम्बन्धः । जैम्_8,4.9 ।
तस्मिन् सोमः प्रवर्तेताव्यक्तत्वात् । जैम्_8,4.10 ।
न वा स्वाहाकारेण संयोगाद् वाषट्कारस्य च निर्देशात् तन्त्रेतेन विप्रतिषेधात् । जैम्_8,4.11 ।
शब्दान्तरत्वात् । जैम्_8,4.12 ।
लिङ्गदर्शनाच् च । जैम्_8,4.13 ।
उत्तरार्थस् तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर् लिङ्गदर्शनात् पशुवत् । जैम्_8,4.14 ।
अनुत्तरार्थो वार्थवत्त्वाद् आनर्थक्याद् धि प्राकृतस्योपरोधः स्यात् । जैम्_8,4.15 ।
न प्रकृताव् अपीति चेत् । जैम्_8,4.16 ।
उक्तं समवाये पारदौर्बल्यम् । जैम्_8,4.17 ।
तच्चोदना वेष्टेः प्रवृत्तित्वाद् विधिः स्यात् । जैम्_8,4.18 ।
शब्दसामर्थ्याच् च । जैम्_8,4.19 ।
लिङ्गदर्शनाच् च । जैम्_8,4.20 ।
तत्राभावस्य हेतुत्वाद् गुणार्थे स्याद् अदर्शनम् । जैम्_8,4.21 ।

विधिर् इति चेत् । जैम्_8,4.22 ।
न वाक्यशेषत्वाद् गुणार्थे च समाधानं नानात्वेनोपपद्यते । जैम्_8,4.23 ।
येषां वापरयोर् हेमस् तेषां स्याद् अविरोधात् । जैम्_8,4.24 ।
तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् । जैम्_8,4.25 ।
लिङ्गाद् वा शेषहोमयोः । जैम्_8,4.26 ।
प्रतिपत्ति तु ते भवतस् तस्माद् अताद्विकारत्वम् । जैम्_8,4.27 ।
सन्निपाते विरोधिनाम् अप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानाद् अर्थस्यापरिणेयत्वाद् वचनाद् अतिदेशः स्यात् । जैम्_8,4.18 ।
यज्ञकर्म प्रधानं तद् धि चोदनाभूतं तस्य द्रव्येषु संस्कारस् तत्प्रयुक्तस् तदर्थत्वात् । जैम्_9,1.1 ।
संस्कारे युज्यमानानां तादर्थ्यात् तत्प्रयुक्तं स्यात् । जैम्_9,1.2 ।
तेन त्वर्थेन यज्ञस्य संयोगाद् धर्मसम्बन्धस् तस्माद् यज्ञप्रयुक्तं स्यात् संस्कारस्य तदर्थत्वात् । जैम्_9,1.3 ।
फलदेवतयोश् च । जैम्_9,1.4 ।
न चोदनाती हि ताद्गुण्यम् । जैम्_9,1.5 ।
देवता वा प्रयोजयेद् अतिथिवद् भोजनस्य तदर्थत्वात् । जैम्_9,1.6 ।
अर्थापत्या च । जैम्_9,1.7 ।
ततश् च तेन सम्बन्धः । जैम्_9,1.8 ।
अपि वा शब्दपूर्वत्वाद् यज्ञकर्म प्रधानं स्याद् गुणत्वे देवताश्रुतिः । जैम्_9,1.9 ।
अतिथौ तत्प्रधानत्वम् अभावः कर्मणि स्यात् तस्य प्रीतिप्रधानत्वात् । जैम्_9,1.10 ।
द्रव्यसंख्याहेतुसमुदायं वा श्रुतिसंयोगात् । जैम्_9,1.11 ।
अर्थकारिते च द्रव्येण न व्यवस्था स्यात् । जैम्_9,1.12 ।
अर्थो वा स्यात् प्रयोजनम् इतरेषाम् अचोदनात् तस्य च गुणभूतत्वात् । जैम्_9,1.13 ।
अपूर्वत्वाद् व्यवस्था स्यात् । जैम्_9,1.14 ।
तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् । जैम्_9,1.15 ।
तद्युक्तस्येति चेत् । जैम्_9,1.16 ।
नाश्रुतित्वात् । जैम्_9,1.17 ।
अधिकाराद् इति चेत् । जैम्_9,1.18 ।
तुल्येषु नाधिकारः स्याद् अचोदितश् च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस् तस्माद्यज्ञप्रयोजनम् । जैम्_9,1.19 ।
देशबद्धम् उपांशुत्वं तेषां स्याच् छ्रुतिनिर्देशात् तस्य च तत्रभावात् । जैम्_9,1.20 ।
यज्ञस्य वा तत्संयोगात् । जैम्_9,1.21 ।
अनुवादश् च तदर्थवत् । जैम्_9,1.22 ।
प्रणीतादि तथेति चेत् । जैम्_9,1.23 ।
न यज्ञस्याश्रुतित्वात् । जैम्_9,1.24 ।
तद्देशानां वा संघातस्य चोदितत्वात् । जैम्_9,1.25 ।
अग्निधर्मः प्रतीष्टकं संघातात् पौर्णमासीवत् । जैम्_9,1.26 ।
अग्नेर् वा स्याद् द्रव्यैकत्वाद् इतरासां तदर्थत्वात् । जैम्_9,1.27 ।
चोदनासमुदायात् तु पौर्णमास्यां तथा स्यात् । जैम्_9,1.28 ।
पत्नीसंयाजान्तत्वं सर्वेषाम् अविशेषात् । जैम्_9,1.29 ।
लिङ्गाद् वा प्राग् उत्तमात् । जैम्_9,1.30 ।
अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य । जैम्_9,1.31 ।
स्याद् वानारभ्य विधानाद् अन्ते लिङ्ग विरोधात् । जैम्_9,1.32 ।
अभ्यासः सामिधेनीनां प्राथम्यात् स्थानधर्मः स्यात् । जैम्_9,1.33 ।

इष्ट्यावृतौ प्रयाजवद् आवर्तेतारम्भणीया । जैम्_9,1.34 ।
सकृद् वारम्भसंयोगाद् एकः पुनरारम्भो यावज्जीवप्रयोगात् । जैम्_9,1.35 ।
अर्थाभिधानसंयोगान् मन्त्रेषु शेषभावः स्यात् तत्राचोदितम् अप्राप्तं चोदिताभिधानात् । जैम्_9,1.36 ।
ततश् चावचनं तेषाम् इतरार्थं प्रयुज्यते । जैम्_9,1.37 ।
गुणशब्दस् तथेति चेत् । जैम्_9,1.38 ।
नसमवायात् । जैम्_9,1.39 ।
चोदिते तु परार्थत्वाद् विधिवदविकारः स्यात् । जैम्_9,1.40 ।
विकारस् तत्प्रधाने स्यात् । जैम्_9,1.41 ।
असंयोगात् तदर्थेषु तद्विशिष्टं प्रतीयेत । जैम्_9,1.42 ।
कर्माभावाद् एवम् इति चेत् । जैम्_9,1.43 ।
न परार्थत्वात् । जैम्_9,1.44 ।
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अप्राप्ता सारस्वती स्त्रीत्वात् । जैम्_9,1.45 ।
पश्वभिधानाद् वा तद् धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् । जैम्_9,1.46 ।
विशेषो वा तदर्थनिर्देशात् । जैम्_9,1.47 ।
पशुत्वं चैकशब्द्यात् । जैम्_9,1.48 ।
यथोक्तं वा सन्निधानात् । जैम्_9,1.49 ।
आम्नाताद् अन्यद् अधिकारे वचनाद् विकारः स्यात् । जैम्_9,1.50 ।
द्वैधं वा तुल्यहेतुत्वात् सामान्याद् विकल्पः स्यात् । जैम्_9,1.51 ।
उपदेशाच् च साम्नः । जैम्_9,1.52 ।
नियमो वा श्रुतिविशेषाद् इतरत् साप्तदश्यवत् । जैम्_9,1.53 ।
अप्रगाणाच् छब्दान्यत्वे तथाभूतोपदेशः स्यात् । जैम्_9,1.54 ।
यत्स्थाने वा तद्गीतिः स्यात् पदान्यत्वप्रधानत्वात् । जैम्_9,1.55 ।
गानसंयोगाच् च । जैम्_9,1.56 ।
वचनम् इति चेत् । जैम्_9,1.57 ।
न तत्प्रधानत्वात् । जैम्_9,1.58 ।
सामानि मन्त्रम् एके स्मृत्युपदेशाभ्याम् । जैम्_9,2.1 ।
तदुक्तदोषम् । जैम्_9,2.2 ।
कर्म वा विधिलक्षणम् । जैम्_9,2.3 ।
तादृग्द्रव्यं वचनात् पाकयज्ञवत् । जैम्_9,2.4 ।
तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश् च । जैम्_9,2.5 ।
शब्दार्थत्वात् तु नैवं स्यात् । जैम्_9,2.6 ।
परार्थत्वाच् च शब्दानाम् । जैम्_9,2.7 ।
असम्बन्धश् च कर्मणा शब्दयोः पृथगर्थत्वात् । जैम्_9,2.8 ।
संस्कारश् चाप्रकरणे ऽग्निवत्स्यात् प्रयुक्तत्वात् । जैम्_9,2.9 ।
अकार्यत्वाच् च शब्दानाम् अप्रयोगः प्रतीयेत । जैम्_9,2.10 ।
आश्रितत्वाच् च । जैम्_9,2.11 ।
प्रयुज्यत इति चेत् । जैम्_9,2.12 ।
ग्रहणार्थं प्रयुज्येत । जैम्_9,2.13 ।
तृचे स्याच् छ्रुतिनिर्देशात् । जैम्_9,2.14 ।
शब्दार्थत्वाद् विकारस्य । जैम्_9,2.15 ।

मूल पाठ: Mīmāṃsāsūtra · Edition: B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc